________________
८७२
• कामिनीतृष्णाया भववर्धकत्वम् • द्वात्रिंशिका-१२/२३ (५५), दुट्ठगाहा इव वावी अणवगाहाओ (५६), ठाणभट्ठो विव इस्सरो अप्पसंसणिज्जाओ (५७), किंपागफलमिव मुहमहुराओ (५८), रित्तमुट्ठी विव बाललोभणिज्जाओ (५९), मंसपेसीगहणमिव सोवद्दवाओ (६०), जलियचुडली विव अमुच्चमाणडहणसीलाओ (६१), अरिट्ठमिव दुल्लंघणिज्जाओ (६२), कूडकरिसावणो विव कालविसंवायसीलाओ (६३),, चंडसीलो विव दुक्खरक्खियाओ (६४), अइविसायाओ (६५), दुगुंछियाओ (६६), दुरुवचाराओ (६७), अगंभीराओ (६८), अविस्ससणिज्जाओ (६९), अणवत्थियाओ (७०), दुक्खरक्खियाओ (७१), दुक्खपालियाओ (७२), अरतिकराओ (७३), कक्कसाओ (७४), दढवेराओ (७५), रूव-सोहग्गमउम्मत्ताओ (७६), भुयगगइकुडिलहिययाओ (७७), कंतारगइट्ठाणभूयाओ (७८), कुल-सयण-मित्तभेयणकारियाओ (७९), परदोसपगासियाओ (८०), कयग्घाओ (८१), बलसोहियाओ (८२), एगंतहरणकोलाओ (८३), चंचलाओ (८४), जाइयभंडोवगारो विव मुहरागविरागाओ (८५) (तं.वै.१५५) ।
अवियाई ताओ अंतरं भंगसयं (८६), अरज्जुओ पासो (८७), अदारुया अडवी (८८), अणालस्स निलओ (८९), अइक्खा वेयरणी (९०), अनामिओ वाही (९१), अवियोगो विप्पलावो (९२), अरुओ उवसग्गो (९३), रइवंतो चित्तविब्भमो (९४), सव्वंगओ दाहो (९५), अणब्भपसूया वज्जासणी (९६), असलिलप्पवाहो समुद्दरओ (९७) - (तं.वै. १५६) इति तन्दुलवैचारिकप्रकीर्णकवचनानि विषयाऽऽसक्तचित्तानां न सम्यक् परिणमन्ति ।
न वा → स्त्रिया अशास्यं मनः + (ऋ.वे.८/३३/१७) इति ऋग्वेदवचनं यथार्हतया भासते । न वा → कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथैन्धनैर्वातसखस्य वह्नः - (बु.च.११/१०) इति बुद्धचरितप्रभृतिवचनं रोचते । न वा → जानामि नरकं नारी ध्रुवं जानामि बन्धनम् । यस्यां जातो रतस्तत्र पुनस्तत्रैव धावति ।। - (अव.गी.८/१६) इति अवधूतगीतावचनं सम्यक् परिणमति | न वा → न तथाऽस्य भवेन्मोहो बन्धश्चाऽन्यप्रसङ्गतः । योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ।। - (क.देव.७/३५) इति कपिल-देवहूतिसंवादवचनं तात्पर्यवृत्त्या संवेत्ति । न वा → ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः । स्त्रियो हि नरकाऽग्नीनामिन्धनं चारु दारुणम् ।। (याज्ञ.१०) इति याज्ञवल्क्योपनिषद्वचनं परमार्थतो रोचते । न वा → समुद्र इव कामः । नैव हि कामस्यान्तोऽस्ति, न समुद्रस्य + (तै.ब्रा.२/२/५) इति तैत्तिरीयब्राह्मणवचनं यथार्थतया प्रतिभासते । न वा → दुःखं कामसुखापेक्षा 6 (श्री.भा.११/१९/४१) इति श्रीमद्भागवतवचनं समीचीनतयाऽवभासते । न वा → तृष्णा च दुःखबीजम् 6 (छां.शां.भा.१।२।१) इति छान्दोग्यशाङ्करभाष्यवचनं सम्यक् प्रतिभाति । न वा → इन्द्रियाणां विषयसेवातृष्णातो निवृत्तिः या तत्सुखं, न विषयविषया तृष्णा, दुःखमेव हि सा - (भ.गी.शां.भा.२/६६) इति भगवद्गीताशाङ्करभाष्यवचनं सुष्ठु विभासते । न वा → नत्यि कामा परं दुखं - (जा.११/४५९/९९) इति सूत्रपिटकान्तर्गतजातकवचनमपि
વિશેષાર્થ :- સંસારના રસિયા જીવો મુક્તિદ્વેષથી પ્રેરાઈને જે બોલે છે તે વાત આગળના શ્લોકમાં अंथ.5॥२श्री. शाव छ. (१२/२3)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org