________________
८६८
• मन्त्रशून्यतपःप्रभृतिक्रियावैकल्यम् • द्वात्रिंशिका-१२/२१ चित्रो = नानाविध: “१ॐ ह्रीं असिआउसा नम" इत्यादिमन्त्रस्मरणरूपो मन्त्रजपः प्रायो = बहुलो यत्र तत् (=चित्रमन्त्रजपप्रायं) प्रत्यापत्तिः = तत्तदपराधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं = विशुद्धिमानीतम् (=प्रत्यायत्तिविशोधितम) ।।२१।। च → अकर्म मन्त्ररहितं, नाऽतो मन्त्रं परित्यजेत् । मन्त्रं विना कर्म कुर्यात् भस्मन्याहुतिवद् भवेत् । । 6 (नार .परि.२/७, सं.गी.७/२४) इत्यवधेयम् ।
'ॐ ह्रीं असिआउसा नमः' इति मन्त्रजपो जैनतन्त्राऽवस्थितमपुनर्बन्धकमुद्दिश्य सङ्गच्छते ।
वेदान्तादिदर्शनस्थस्त्वपुनर्वन्धकः सूर्यतापिन्युपनिषदुक्तं → महसे भास्कराय नमः - (सू.ता.४/ २) इति मन्त्रं, → ॐ ह्रीं वले महादेवि ह्रीं → (सावि.९) इत्यादिरूपेण सावित्र्युपनिषदुक्तं मन्त्रं, → ॐ ह्रीं ॐ ह्रीं 6 (त्रि.१७) इति त्रिपुरोपनिषदुक्तं मन्त्रं, → ॐ नमो भगवते दत्तात्रेयाय 6 (दत्ता.२/१) इत्यादिना दत्तात्रेयोपनिषदुक्तं मन्त्रं, → ॐ नमो भगवते महागरुडाय - (गारु. १०) इत्यादिरूपेण गारुडोपनिषदुक्तं वा मन्त्रं जपति ।
वैष्णवस्तु सः → ॐ नमो भगवते वासुदेवाय - (ना.पू.३/४) इति नारायणपूर्वतापिनीयोपनिषदुक्तं मन्त्रं जपति ।
शाक्ततन्त्राऽवस्थितश्चाऽपुनर्वन्धकः → ॐ नमो भगवते रुद्राय नमः - (वन.पृ. २६) इति वनदुर्गोपनिषदुक्तं मन्त्रं जपति ।
शैवस्तु त्रिपुरातापिन्युपनिषदुक्तं → ॐ नमः शिवाय - (त्रिपु.४/४) इति मन्त्रं, → ॐ भूर्भुवःस्वः ॐ ऐं क्लीं - (पारा.१) इत्यादिना पारायणोपनिषदुक्तं मन्त्रं वा जपति । अयं च → प्रवालमौक्तिक-स्फटिक-शङ्ख-रजताऽप्टापद-चन्दन-पुत्रजीविकाऽब्ज-रुद्राक्षाः – (अक्ष.१) इत्यादिरूपेण अक्षमालिकोपनिषदुक्तरीत्या प्रवालादिनिर्मिताऽक्षमालिकया मन्त्रं जपतीत्यादिकं यथातन्त्रमूहनीयं सर्वतन्त्रपारगामिभिः ।
अध्यात्मतत्त्वालोके पूर्वसेवागततपोनिरूपणमित्थमुपलभ्यते → वहुप्रकारं तप आमनन्ति युक्तं यथाशक्ति तपो विधातुम् । देहस्य शुद्धिर्हदयोज्ज्वलत्वं विवेकस्तत्र विधीयमाने ।। किञ्चिद्व्यथायामपि सम्भवन्त्यामनादरस्तत्र न संविधेयः । अभ्यासतोऽग्रे सुकरं भवेत् तत् कप्टाद् विना क्वास्ति च सिद्धिलाभः ।। अध्यात्मदृष्ट्या च शरीरदृष्ट्याऽप्युपोषितं खल्वपि सूपयोगि । मनोमलान् देहमलानपास्य भवेददो जीवनलाभहेतुः ।। समीपवासं परमात्मभूतेर्वदन्ति धीरा उपवासशब्दात् । कपायवृत्तेर्विपयानुपक्तेस्त्यागं विना सिध्यति नोपवासः ।। न वास्तवो भोजनमात्मधर्मो देहस्य सङ्गेन विधीयते तु । तस्मादनाहारपदोपलव्ध्यै युक्तं तपोऽप्यभ्यसितुं स्वशक्त्या ।।
6 (अ.तत्त्वा. २/२३-२७) इति ।
મોટા ભાગે આ તપમાં “ૐ હ્રીં આ સિ આ ઉ સા નમ:' વગેરે પ્રકારની વિવિધ મંત્રજાપ કરવામાં આવે છે. તે તે અપરાધસ્થાનથી-પાપસ્થાનથી અત્યંત દઢ સંવેગ ભાવનાપૂર્વક પાછા ફરવા द्वारा त५. विशुद्ध थयेट होय छे. (१२/२१) १. 'ॐ' इति पदं मुद्रितप्रतो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org