________________
• पापसूदनतपसि यमुनराजोहारणम् •
८६७ तदपेक्षया (=तत्तत्पापाद्यपेक्षया) । 'यमुनमुनिराजस्याऽङ्गीकृतप्रव्रज्यस्य साधुवधस्मरणे तद्दिनप्रतिपन्नाऽभोजनाऽभिग्रहस्य षण्मासान् यावज्जातव्रतपर्यायस्य सम्यक्सम्पन्नाऽऽराधनस्य किल न क्वचिदिने भोजनमजनीति । ख्यानयति- 'यमुने'ति । दण्डमुनिहन्तुः यमुनराजस्य तत्पापशुद्ध्यर्थं अङ्गीकृतप्रव्रज्यस्य कथानकं आवश्यकनियुक्तौ → महुराए जउणराया जउणावंके य डंडमणगारे । वहणं च कालकरणं सक्काऽऽगमणं च पव्वज्जा ।। - (आ.नि.१२७७) इत्येवं दर्शितम् । → मथुरायां यमुनो राड्, यमुनया वक्रीकृतत्वाद् यमुनावक्रमुद्यानम् । तत्र दण्डोऽणगारो राज्ञाऽसिना हतः । अन्ये आहुः फलेनाऽऽहतः, अन्यैरश्मराशिः कृतः। इह कोपोदयं प्रत्यस्य भावाऽऽपन्मृतः सिद्धः, देवा आगुः, पालकविमानेन्द्रश्च । राजा वज्रेण भापितः 'चेत् प्रव्रजसि तदा मुञ्चामी'ति । दीक्षितः, ‘यावत् पापं स्मरामि तावन्नाश्नामी'ति स्थविरपार्श्वेऽभ्यग्रहीत् । एकाहमपि नाऽऽश्नात् - (आ.नि.१२७७ दीपि.) इत्येवं आवश्यकदीपिकायां माणेक्यशेखरसूरिकृता तद्व्याख्या । आवश्यकनियुक्तिचूर्णावपि → 'जइ भिक्खागओ संभरामि ण जेमेमि, जइ दरजिमिओ ता सेसगं विगिंचामि' एवं किर भगवया एगमवि दिवसं नाऽऽहारियं - (आ.नि.१२७७ चू.) इत्येवं यमुनराजर्षेरभिग्रह आवेदितः ।
यमुनराजर्षिकथानकं उपदेशपदे → जउणावंके जउणाए कोप्परे तत्थ परमगुणजुत्तो । आयावेण्ण महप्पा दंडो नामेण साहुत्ति ।। कालेण रायणिग्गम पासणया अकुसलोदया कोवा । खग्गेण सीसछिंदण अण्णे उ फलेण ताडणया ।। सेसाण लेदुखेवे रासी अहियासणाए णाणत्ति । अंतगडकेवलित्तं इंदाऽऽगम पूयणा चेव ।। दट्ठण रायलज्जा संवेगा अप्पवहपरिणामो । इंदनिवारण सम्म कुण पायच्छित्त मो एत्थ ।। साहुसमीवगमणं सवणं तह चेव पायच्छित्ताणं । किं एत्थ पायच्छित्तं सुद्धं चरणंति पव्वज्जा ।। पच्छायावाऽइसया अभिग्गहो सुमरियम्मि नो भुंजे। दरभुत्ते चेवं चिय दिवसम्मि न तेण किल भुत्तं ।। आराहण कालगओ सुरेसु वेमाणिएसु उववण्णो ।
6 (उ.प.४५९-४६५) इत्येवमुपदर्शितम् ।
कर्मसूदनतपस्तु प्रतिकर्मेत्थमाचरितं दृश्यते- उपवासैकाशनैकसिक्थैकस्थानकैकदत्तिनिर्विकृतिकाऽऽचाम्लाष्टकवलानि । ___ उपलक्षणात् सिंहनिष्क्रीडितकावलिका-कनकावलिका-महाभद्र-सर्वतोभद्र-गुणरत्नसंवत्सर-सिंहासनसिद्धि-श्रेणितपःप्रभृतिलोकोत्तरतपोग्रहणमप्यत्राऽवगन्तव्यम् । कीदृशमेतदित्याह- 'चित्र' इति । मन्त्रजपवलेन तपःकर्म वलिष्ठं सम्पद्यते ।
परैस्तु मन्त्रजपशून्यं तपःकर्म अकर्मतयैव गण्यते । तदुक्तं नारदपरिव्राजकोपनिषदि संन्यासगीतायां લીધી તથા દીક્ષાદિવસે અભિગ્રહ લીધો કે “જે દિવસે સાધુહત્યા યાદ આવશે તે દિવસે હું ભોજન નહિ કરું.’ આ રીતે છ માસ સુધી તે યમુન રાજર્ષિએ કશું ખાધું-પીવું નહિ. તેમણે પોતાના નિયમને સારી રીતે પાળ્યો. આ રીતે તે-તે પાપની અપેક્ષાએ વિવિધ પ્રકારનો પાપસૂદન તપ હોય છે. १. 'यथार्य(र्जुन)मुनिराजस्य इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org