________________
८४४ • जितेन्द्रियस्वरूपम् •
द्वात्रिंशिका-१२/८ = स्वमत्यभिनिवेशेन प्रतिपन्नवन्तः । जितेन्द्रिया = निगृहीतहृषीकाः, जितक्रोधाः = अभिभूतकोपाः दुर्गाणि = नरकपातादीनि व्यसनानि अतितरन्ति = अतिक्रामन्ति ते = सर्वदेवनमस्कर्तारः ।।८।। न च पूर्व कल्पान्तरे ‘अधिमुक्तिवशात्' इत्युक्तम् तदनेन विरुध्यत इति शङ्कनीयम्, श्रद्धाऽतिशयेन यस्य कस्यचिद् देवस्य समाश्रयणेऽपि स्वमत्यभिनिवेशेन = स्वकीयधीकदाग्रहेण नैकं एव कञ्चन देवं ते ईशत्वेन प्रतिपन्नवन्तः । स्वसम्प्रदायलब्धस्य स्वगुरुवर्गोपदिप्टस्य स्वकीयाऽनुभवजनिताऽतिशयितश्रद्धाविषयीभूतस्य देवताविशेपस्य विशिष्य वन्दनीय-पूजनीयत्वादिरूपेणाऽङ्गीकारेऽपि तदन्यदेवेषु न द्वेषादिकमेते विदधते, अवसरोचितं च प्रणामादिकं कुर्वन्तीत्याशयः । _ 'सर्वान् देवान्' इत्यस्योपलक्षणत्वात् ‘सर्वान् साधून्' इत्यपि वोध्यम् । तथाहि- तन्त्रान्तरस्थितोऽपुनबन्धक: → सर्वे संन्यासिनः पूज्याः वर्णैराश्रमिभिस्तथा (सं.गी.६/४४) इति संन्यासगीतावचनात् सर्वान् साधून् अपि यथोचितं नमस्यत्येवेत्यवधेयम् । न चास्य लौकिकविधिरूपतया न प्रामाण्यमिति शङ्कनीयम्, अस्यामवस्थायामेतादृशकर्मणोऽपि प्रमाणत्वाऽभ्युपगमात् । एतेन → सर्व एव हि जैनानां प्रमाणं लौकिको विधिः - (य.ति.चं.८/३४) इति यशस्तिलकचम्पूवचनमपि व्याख्यातम् । प्रकृते → स्वाधिकारेण यो योग्यो व्यवहारः स धर्मिभिः । प्राणान्तेऽपि न मोक्तव्यो यतो धर्मो भवेत् ततः ।। - (कृ.गी.१९७) इति कृष्णगीतावचनमप्यनुसन्धेयम् ।
जितेन्द्रिया इति । तल्लक्षणं नारदपरिव्राजकोपनिषदि मनुस्मृतौ रामगीतायां च → श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति न ग्लायति स विज्ञेयो जितेन्द्रियः ।। - (नार.परि.२/३८, म.स्मृ.२/९८, रा.गी.१५/४५) इत्येवमुक्तम् । प्रकृते → तावज्जितेन्द्रियो न स्याद् विजितेन्द्रियः पुमान् । न जयेद् रसनं यावत् जितं सर्वं जिते रसे ।। - (भाग.११/८/ २१) इति भागवतवचनमपि स्मर्तव्यम, रसनेन्द्रियस्य दुर्जेयत्वात । → जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः -- (मनु.७/४४) इति मनुस्मृतिवचनमपि शासकस्येन्द्रियजयप्रवर्तकम् । कौटिलीयार्थशास्त्रे च → विद्या-विनयहेतुरिन्द्रियजयः काम-क्रोध-लोभ-मान-मद-हर्पत्यागात्कार्यः - (को.अर्थ.१/६ पृ.११) इत्येवमिन्द्रयजयफलोपायावुक्तौ। एतत्सर्वं श्रुत्वा वैदिकादितन्त्रस्थितोऽपुनर्बन्धको हीन्द्रियविजये प्रवर्तते ।
बौद्धदर्शनस्थितस्त्वपुनर्बन्धकः → सारथीव नेत्तानि गहेत्वा इन्द्रियाणि रक्खन्ति पण्डिता • (दी.नि.२/७/१) इति दीघनिकायप्रमुखवचनतस्तत्र यतते । इत्थं इन्द्रियविजयेन बुद्धिवृद्धिरपि ध्रुवा । तदुक्तं महाभारते → इन्द्रियैर्नियतैर्वृद्धिर्वर्धतेऽग्निरिवेन्धनैः - (म.भा.उद्योग-१२९/२६) इति ।।
एतेन → भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् । लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ।। (ग.गी.३/४७) इति गणेशगीतावचनमपि व्याख्यातम् ।
अन्यतन्त्रस्थेषु अपि मध्ये वैदिकतन्त्रस्था अपुनर्वन्धकाः → घृतेन (-स्नेहेन) कलिं शिक्षामि - (अथ.वे.७/१०९/१) इति अथर्ववेदवचनतः, → क्रुद्धः पापं न कुर्यात् कः, क्रुद्धो हन्याद् गुरूनपि તેઓ માત્ર એક જ દેવને ભગવાન રૂપે સ્વીકારતા નથી. તેમણે ઈન્દ્રિયોને જીતેલી હોય છે. ક્રોધને તેમણે હરાવેલ હોય છે. સર્વ દેવને નમનારા તેઓ નરકપતન વગેરે સંકટોને ઓળંગી જાય છે.(૧૨૮).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org