SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ • भक्तिप्रकाराः . ८४३ सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः। जितेन्द्रिया जितक्रोधा 'दुर्गाण्यतितरन्ति ते ।।८।। _ 'सर्वानि'ति । सर्वान् देवान् नमस्यन्ति = नमस्कुर्वते । नैकं कञ्चन देवं समाश्रिताः त्मनाम् ।।' (यो.बि.११७) इति । → अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः । प्रसीदति न सन्देहो निगृह्य विविधं तमः ।। 6 (लिं.पु.१०।११) इति लिङ्गपुराणवचनं, → हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ।। - (चै.चं.१/५२) इति चैतन्यचन्द्रोदयवचनं, → सदा गायन्ति देवेशमेतान् भक्तानवेहि वै -- (स्क.पु.वै.ख.वे.मा.६ ।५८) इति स्कन्दपुराणवचनं → भक्तिः श्रेयोऽनुवन्धिनी - (आ.पु.७/२७९) इति आदिपुराणवचनं, → यथाऽऽलोको हि जन्तूनां चेप्टाकारणतां गतः । तथैव सर्वसिद्धीनां भक्तिः परमकारणम् + (वृ.ना.पु.४/३) इति बृहन्नारदीयपुराणवचनं, → भक्त्या तुष्यन्ति दैवतानि 6 (चा.१/२१,२२) इति चारुदत्तवचनं च तन्त्रान्तराऽवस्थितस्याऽपुनर्वन्धकादेः देवपूजादौ स्वरसतः प्रवर्तकमवसेयम् । __एवमेव → सा त्वस्मिन् परमप्रेमस्वरूपा । अमृतस्वरूपा च । यल्लब्ध्वा पुमान् सिद्धो भवति, अमृतो भवति, तृप्तो भवति । यत्प्राप्य न किञ्चिद् वाञ्छति, न शोचति, न द्वेप्टि, न रमते नोत्साही भवति । यज्ञात्वा मत्तो भवति, स्तब्धो भवति, आत्मारामो भवति (ना.भ.२/३/४/ ५/६) इति नारदभक्तिसूत्राणि अपि भगवद्भक्तिप्रेरकाणि ज्ञातव्यानि । सा = भक्तिः, अस्मिन् = भगवति, 'नोत्साही भवति' इत्यत्र ‘सांसारिककार्येषु' इति गम्यते, मत्तता स्तब्धता च तन्मयतादिरूपा ज्ञातव्या । शिष्टं स्पप्टम् । नारदभक्तिसूत्रेषु यानि → पूजादिष्वनुराग इति पाराशर्यः । कथादिष्विति गर्गः । आत्मरत्यविरोधेनेति शाण्डिल्यः। नारदस्तु तदर्पिताऽखिलाऽऽचारता तद्विस्मरणे परमव्याकुलतेति (ना. भ.१६-१९) इति भगवद्भक्तिलक्षणानि दर्शितानि, ये च → श्रवणं, कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यं आत्मनिवेदनम् ।। - (भा.७/५/२३) इति भागवते नवधा भक्तिप्रकाराः प्रदर्शिताः तत्सर्वमत्र नानातन्त्राऽवस्थितेऽपुनर्बन्धकादौ यथासम्प्रदायं श्रद्धानुसारेण सम्भवति। भगवद्भक्तिगोचराणि पाराशर्य-गर्ग-शाण्डिल्यमतानि तु भागवते विस्तरत उक्तानि ततोऽवसेयानि जिज्ञासुभिः ।।१२/७।। एतदपि कथम् ? इति शङ्कायां योगबिन्दुसंवादमाह - ‘सर्वानिति । व्यतिरेकमाह- नैकमिति । વિશેષાર્થ :- યોગપૂર્વસેવા કરનાર જીવ પાસે વિશિષ્ટ પ્રકારનો ક્ષયોપશમ ન હોવાના કારણે કયા દેવ બીજા બધા દેવ કરતાં અનેકાનેક રીતે ચઢિયાતા છે ? તેનો નિર્ણય ન થયો હોય તેવી અવસ્થામાં આસ્તિકતા, અપુનબંધતા વગેરેના પ્રભાવે, લોકોમાં દેવ તરીકે પ્રસિદ્ધ સર્વ દેવો સર્વદા સમાન રીતે માન્ય હોય છે. અથવા કુલપરંપરાગત રીતે કે પોતાના અનુભવના આધારે કે ગુરુઉપદેશ મુજબ જે દેવમાં જ્વલંત શ્રદ્ધા હોય તે દેવને ભગવાન તરીકે માને છે, પૂજે છે. તેમ છતાં તે અવસ્થામાં પણ અન્ય દેવો પ્રત્યે તેના મનમાં દ્વેષ નથી હોતો. કારણ કે તેનામાં તેવી સહિષ્ણુતા યોગ્યતા પ્રગટ થઈ હોય છે. (૧૨/૭) ગાથાર્થ :- પૂર્વસેવા કરનાર તે મહાપુરુષો એક દેવનો આશ્રય કરતા નથી. તેઓ સર્વ દેવોને નમસ્કાર કરે છે. જિતેન્દ્રિય અને ક્રોધવિજયી એવા તેઓ નરકપતન વગેરેને તરી જાય છે. (૧૨૮) ટીકાર્થ:- યોગની પૂર્વસેવાના આરાધક જીવો સર્વ દેવોને નમસ્કાર કરે છે. પોતાની બુદ્ધિના હઠાગ્રહથી १ हस्तादर्श 'दुर्गाण्यतितेत..' इत्यशुद्धः पाठः। २.हस्तादर्श · कुर्वतो' इत्यशुद्धः पाठः। ३. हस्तादर्श ...श्रितः' इत्यशुद्धः पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy