________________
८४२
•
=
अधिमुक्तिवशाद् देवभक्तिः
•
'देवानामि 'ति - व्यक्तः ||६||
अधिमुक्तिवशान्मान्या अविशेषेण वा सदा । अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् ।।७।।
इतरदेवताऽपेक्षोऽतिशयो
अधिमुक्तीति । अनिर्णीतः कुतोऽपि मतिमोहादनिश्चितो विशेषः यैस्तेषां (=अनिर्णीतविशेषाणां ) महात्मनां = परलोकसाधनप्रधानतया प्रशस्तात्मनां गृहिणां सर्वे देवाः सदाऽविशेषेण पारगत-हरि-हर-हिरण्यगर्भादिसाधारणवृत्त्या मान्याः वा = अथवा अधिमुक्तिवशात्
अतिशयितश्रद्धाऽनुसारेण ||७||
शतपत्रिकादिसम्भवैः, विलेपनैः घुसृणमलयजादिरचितैः, धूपैः काकतुण्डादिरूपैः, नैवेद्यैः पक्वान्नफलादिलक्षणैः, शोभनैः आदरोपहितत्वेन सुन्दरैः स्तवैः = स्तोत्रैः । उपलक्षणात् वस्त्राऽलङ्कारादिभिरित्यपि बोध्यम् । यथोक्तं योगबिन्दौ पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं शौच-श्रद्धासमन्वितम् ।। ← (यो . विं. ११६) इति । श्रद्धाशून्यं तु सर्वमफलम् । तदुक्तं बौधायनधर्मसूत्रे → अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः । तस्मादश्रद्धया दत्तं हविर्नाऽश्नन्ति देवताः ।। ← (वौ.ध.५/१०/१/६) इति । प्रकृते रागाद्यपेतं हृदयं वागऽदुष्टाऽनृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ।। ← ( जा. यो. २ / ८) जाबालयोगवचनं शुचिरास्तिक्यपूतात्मा पूजयेद् देवताः सदा । देवतावद् गुरुजनमात्मवच्च सुहृज्जनम् ।। ← (का. नी. ३/३१) इति च कामन्दकीयनीतिसारवचनमप्यनुयोज्यं यथागमम् ।।१२/६।।
द्वात्रिंशिका - १२/७
=
=
प्रकृतदेवतायामन्यदेव
एतच्च पूजनं केपां देवानां कर्तव्यम् ? इत्याशङ्कायामाह - 'अधिमुक्ती 'ति । अद्यापि मतिमोहात् = स्वकीयबुद्धिविपर्यास-मान्द्यादिवशात् अनिश्चितः इतरदेवतापेक्षो सापेक्षः अतिशयो निखिलदोपराहित्य-सत्सिद्धान्तप्ररूपकत्वादिगुणाऽऽधिक्य-निर्व्याजकरुणा-सौम्यमुद्रा-शस्त्रललनादिसङ्गवर्जनादिलक्षणः यैः पूजकैः तेषाम् ।
कल्पान्तरमाह ' अथवे 'ति । अतिशयितश्रद्धाऽनुसारेण = कुलपरम्पराऽनुसारेण गुर्वाद्युपदेशाऽनुवृत्त्या फलविशेपाऽनुभवतो वा यस्य यत्र देवतायां विशिष्टा श्रद्धा तद्वशेन देवविशेपमिति । श्रद्धाविशेपतो देवविशेपाऽङ्गीकरणेऽपि न तदन्यदेवं प्रति कदापि तस्य द्वेषः सम्भवति, तादृशयोग्यताप्रादुर्भावात् । यथोक्तं योगबिन्दी 'अविशेषेण सर्वेषामधिमुक्तिवशेन वा । गृहिणां माननीया यत् सर्वे देवा महा
ટીકાર્થ ઃ- ગાથાર્થ સ્પષ્ટ હોવાથી મહોપાધ્યાયજીએ તેની સંસ્કૃત વ્યાખ્યા કરેલ નથી.(૧૨/૬) ગાથાર્થ :- દેવોનું વિશેષ સ્વરૂપ જેમણે જાણેલ નથી તેવા મહાપુરુષોને સર્વ દેવો સમાન રીતે સર્વદા માન્ય હોય છે. અથવા પોતાની જ્વલંત શ્રદ્ધા મુજબ માન્ય હોય છે. (૧૨/૭)
ટીકાર્ય :- બીજા દેવોની અપેક્ષાએ પ્રસ્તુત દેવમાં શું વિશેષતા છે ? આ બાબતનો નિર્ણય કોઈ પણ પ્રકારના મતિવ્યામોહના લીધે જેઓ નથી કરી શક્યા તેમ છતાં પણ મુખ્યરૂપે પરલોકની સાધનામાં જ મસ્ત રહેવા દ્વારા પોતાના આત્માનું સૌંદર્ય અંશતઃ પણ જેમણે પ્રગટ કરેલ છે. તેવા ગૃહસ્થોને અહીં ‘મહાત્મા’ શબ્દથી ગ્રંથકારશ્રીએ નવાજેલા છે. તેવા મહાપુરુષોને મન હંમેશા પારગત, વિષ્ણુ, મહાદેવ, બ્રહ્મા, બુદ્ધ, તીર્થંકર વગેરે બધા લોકપ્રસિદ્ધ દેવોમાં સમાન રીતે જ માન્યતા-પૂજ્યતા વરેલી હોય છે. અથવા પોતાની વિશેષ પ્રકારની શ્રદ્ધા મુજબ દેવ માન્ય બને છે. (૧૨/૭)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org