SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ८३६ गुरुवर्गविमर्शः द्वात्रिंशिका - १२/२ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ।।२।। 'माते 'ति । वृद्धाः श्रुत- वयोवृद्धलक्षणाः । गुरुवर्गः 'गौरव्यलोकसमुदायः ।।२।। यथाक्रममेतन्निरूपयितुमादौ तावत्पूजनप्रथमप्रतियोगिनमावेदयति 'माते 'ति । माता = जननी, → गुरुपत्नी राजपत्नी ज्येष्ठपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैते मातरः स्मृताः ।। ← (नरा.२१८) इति नराभरणवचनमपि तन्त्राऽन्तराऽवस्थितोऽपुनर्बन्धको निजसम्प्रदायाऽनुसारेणाऽवलम्वते पूजार्थमित्यवधेयम् । पिता = जनकः, कलाचार्यः = लिप्यादिकलाशिक्षणोपाध्यायः, एतेषां मातृप्रभृतीनां ज्ञातयः = भ्रातृ-भगिन्यादयः स्वजना एकनालबद्धाः, 'तथा' समुच्चये । भवति बुद्धिमान् वृद्धाः = श्रुत- वयोवृद्धलक्षणाः, अधीतविशिष्टशास्त्राऽर्थाः श्रुतवृद्धाः, पष्ट्यधिकसंवत्सराः स्वज्येष्ठाः पुनर्वयोवृद्धा ज्ञेयाः । प्रकृते यशो दया - शील- रूप-माधुर्यैरपि सर्वतः । स बालोऽपि पुमान् वृद्धः साधुवृन्दावने रतः ।। ← ( क. रा. ८९ ) इति कविराक्षसीयदर्शिते वृद्धे मा भूत् कस्यचित् सम्प्रत्यय इति 'वयोवृद्धे 'ति विशेपणमुपादत्तं ग्रन्थकृतेत्यवधेयम् । प्रकृते धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च । ते सर्वे ज्ञानवृद्धस्य किङ्कराः शिष्यकिङ्कराः ।। ← ( मैत्रे. २ / २४ ) इति मैत्रेय्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । धम्मपदे यम्हि सच्चं च धम्मो च अहिंसा सञ्ञमो दम । स वे वन्तमलो धीरो थेरो त्ति वुच्चति ।। ← (ध.प. १९/६ ) इति यद् वृद्धलक्षणमुक्तं तदपीहानुयोज्यं यथातन्त्रम् । तत्सेवया च बुद्धिः विनयश्च सम्पद्यते वर्धते च । तदुक्तं महाभारते अपि वृद्धसेवया ← ( म.भा. उद्योगपर्व - ३८ / ८) इति । ते कीदृशाः ? इत्याह धर्मोपदेष्टारः धर्मोपदेशप्रवर्तकाः । धर्मोपदेशकगुरुलक्षणं तु अपक्षपाताः शुचितत्त्वबोधा महाव्रतेपु स्थिरतां दधानाः । असङ्गिनः शान्त- गम्भीर - धीरा धर्मोपदेशा गुरवो विरक्ताः ।। ← (अ.तत्त्वा. २/८) इत्येवं अध्यात्मतत्त्वालोके दर्शितम् । मात्रादिकः किम् ? इत्याह गुरुवर्गः गौरव्यलोकसमुदायः गौरवार्हजनसमूहः सतां शिष्टानां मतः अभीष्टः । पितरो देवाः ← ( अथ. वे. ६ । १२३ । ३) इति अथर्ववेदवचनं दैवं नास्ति पितृसमो गुरुः ← ( औ. स्मृ. १।३६ ) इति औशनसस्मृतिवचनं न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव ← ( तै. उप. १ / ११ / २ ) इति तैत्तरीयोपनिषद्वचनं, → इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूपया चैव ब्रह्मलोकं समश्नुते ।। ← प्रकृते = = Jain Education International • • = = For Private & Personal Use Only = ગાથાર્થ :- માતા, પિતા, કલાચાર્ય તથા તેમના ભાઈ-બેન વગેરે સ્વજનો, વૃદ્ધો તથા ધર્મોપદેશકો ગુરુવર્ગરૂપે સજ્જનોને માન્ય છે. (૧૨/૨) ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ જ છે. ફક્ત વૃદ્ધરૂપે જ્ઞાનવૃદ્ધ અને વયોવૃદ્ધ બન્ને લઈ લેવા. ‘ગુરુવર્ગ’ શબ્દનો અર્થ છે ગૌરવ આપવા લાયક એવા લોકોનો સમુદાય. (૧૨/૨) વિશેષાર્થ :- વિશિષ્ટ પ્રકારના શાસ્ત્રોનો સુંદર રીતે અભ્યાસ કરેલ હોય તે જ્ઞાનવૃદ્ધ કહેવાય. તથા ૬૦ વર્ષથી મોટો હોય તે વયોવૃદ્ધ કહેવાય. બાકીનો અર્થ સ્પષ્ટ છે.(૧૨/૨) १. मुद्रितप्रतौ 'गौरववल्लो...' इत्यशुद्धः पाठः । नास्ति मातृसमं देव- पितृकार्याभ्यां www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy