SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ योगपूर्वसेवाप्रतिपादनम् ।। अथ पूर्वसेवाद्वात्रिंशिका ।। १२ ।। इत्थं विचारितलक्षणस्य योगस्य प्रथमोपायभूतां पूर्वसेवामाह → • 'पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिता ।। १ ।। पूर्वसेवा त्विति । स्पष्टः || १ || = ** नयलता भूमिं विना गृहं नैव, मूलं विना च पादपम् । पूर्वसेवामृते योगस्तद्वत् साऽतो निरूप्यते ।। १ ।। योगविन्दुग्रन्थाऽनुसारेण पूर्वसेवाद्वात्रिंशिकामवतारयति ' इत्थमिति । योगस्य योगप्रासादस्य प्रथमभूमिकारूपा पूर्वसेवा = पुरश्चरणं तु पुनः वक्ष्यमाणस्वरूपं गुरुदेवादिपूजनं, सदाचारः वक्ष्यमाणः मार्गानुसारितादिगुणाऽनुविद्धो नानाविधः, तपः लौकिकं चतुर्विधं वक्ष्यमाणलक्षणं मुक्त्यद्वेषश्च अभावात्मकः वक्ष्यमाणहेतु-स्वरूपाऽनुबन्धशुद्धः इतिः प्रकारसमाप्तिसूचकः शब्दः प्रकीर्तिता = सम्यगधिगतयोगशास्त्रपरमार्थैः पूर्वमहर्षिभिर्निरूपिता । यथोक्तं योगबिन्दी पूर्वसेवा तु तन्त्रज्ञैर्गुरुदेवादिपूजनम्। सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता ।। ← (यो . विं. १०९) इति । अध्यात्मतत्त्वालोके अपि भक्तिर्गुरूणां परमात्मनश्चाऽऽचारस्य शुद्धिः तपसि प्रवृत्तिः । निःश्रेयसे द्वेषविवर्जितत्वमियं सताऽदर्श्यत पूर्वसेवा ।। ← ( अ. तत्त्वा. २ / २ ) इत्युक्तम् । प्रकृते क्रियाभिर्ज्ञानमूलाभिर्मोक्षोऽक्षेपेण सिध्यति । ताः पुनर्देवतापूजा गुरुसेवादयो मताः || अक्षुद्रता दया दाक्ष्यं क्षमा चाऽक्षविनिग्रहः । न्यायाऽनुवृत्तिरनघा यत्नश्च श्रुत-शीलयोः । । समानधर्मवात्सल्यं यतिधर्माऽऽदरः परः । इत्यादिकुशलारम्भो मुक्तिमार्गतया मतः || ← (मो.पं.४३,४९,५०) इति मुनिचन्द्रसूरिकृतमोक्षोपदेशपञ्चाशककारिका अप्यत्र न विस्मर्तव्याः । एतदन्वितो नरः देवांशी प्रोच्यते । तदुक्तं उपदेशप्रकरणे देवपूजा दया दानं दाक्षिण्यं दम-दक्षते । यस्यैते पड् दकाराः स्युः देवांशी नर उच्यते ।। ← ( उप.प्र. ३७ ) इति ध्येयम् । गुरुदेवादिपूजनं परेषां कायिकतपस्त्वेनाऽपि रूपेणाऽभिमतम् । तदुक्तं गणेशगीतायां गुरु-विज्ञ- द्विजातीनां पूजनं चाऽसुरद्विपाम् । स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ।। ← (ग.गी. ११/२) इति यथातन्त्रमत्राऽनुयोज्यम् ।।१२/१।। * પૂર્વસેવા-દ્વાત્રિંશિકપ્રકાશ ૢ આ રીતે ૧૧મી બત્રીસીમાં યોગના લક્ષણની વિચારણા- મીમાંસા કરીને યોગના પ્રાથમિક ઉપાયસ્વરૂપ પૂર્વસેવાને પુરશ્ચરણને ગ્રંથકારશ્રી ૧૨મી બત્રીસીમાં જણાવે છે. ગાથાર્થ :- ગુરુપૂજન, દેવાદિપૂજન, સદાચાર, તપ અને મુક્તિઅદ્વેષ આ પ્રમાણે યોગની પૂર્વસેવા हेवायेस छे. (१२/१) 1= ८३५ = ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી તેની સંસ્કૃત વ્યાખ્યા મહોપાધ્યાયજી મહારાજે કરેલ નથી.(૧૨/૧) હવે ક્રમસર ગાથાઓમાં ગુરુપૂજન વગેરેનું સ્વરૂપ બતાવવામાં આવશે. સૌપ્રથમ ગુરુપૂજનમાં ગુરુ તરીકે કોને લેવા ? તે વાત ગ્રંથકારશ્રી જણાવે છે. १. हस्तादर्शे ‘पूर्वस्यै' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' ..र्तिताः' इति पाठः । ३. हस्तादर्शे 'स्पष्ट:' इति पदं नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy