________________
८३२
• नानातन्त्रेषु योगस्वरूपोपदर्शनम् • द्वात्रिंशिका-११/३२ ___(यो.श.२१/२२) इत्युक्तम् । ‘एतेषां = अपुनर्बन्धकादीनां वीतरागान्तानाम्' । शिप्टं स्पष्टम् |
क्षिप्तादिपञ्चविधचित्ताऽवस्थावद् बौद्धदर्शनानुसारेण सराग-वीतराग-सद्वेष-वीतद्वेष-समोह-वीतमोह-संक्षिप्ताऽसंक्षिप्त-विक्षिप्ताऽविक्षिप्त-महद्गताऽमहद्गत-उत्तरानुत्तर-समाहिताऽसमाहित-विमुक्ताऽविमुक्ताऽऽध्यात्मिकबाह्य-बाह्याध्यात्मिकचित्तावस्थाः सम्मताः । ताश्च मज्झिमनिकाये महास्मृतिप्रस्थानसूत्रे चित्तानुपश्यानाधिकारे (म.नि.१।१०/११४/पृष्ठ-७७) दर्शिताः । तत्राऽपि वीतराग-वीतद्वेपादिचित्तावस्थायां योगस्वरूपयोजना यथागमं कार्या स्व-परसमयतात्पर्यवेदिभिः ।
यत्तु गणेशगीतायां → आत्माऽनात्मविवेकेन या बुद्धिर्दैवयोगतः । स्वधर्माऽऽसक्तचित्तस्य तद्योगो योग उच्यते ।। - (ग.गी.१।४८) इति योगलक्षणमुक्तं तत्तु सम्यग्दर्शनात्मकयोगमाश्रित्य सङ्गच्छते । जायते हि स्वभूमिकोचितविहितधर्मकर्मकरणदाढ्यॊत्तरकालं कालपरिपाकादिवशतो ग्रन्थिभेदेनाऽऽत्मदेहादिविवेकधीरिति । → कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति । स च योगः समाख्यातोऽमृतत्वाय हि कल्पते ।। - (ग.गी.१।४०) इति गणेशगीतावचनं तु निर्विकल्पध्यान-समाधियोगमाश्रित्य सङ्गतिमङ्गति ।
एतेन → एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च । सर्वभावपरित्यागो योग इत्यभिधीयते ।। 6 (मैत्रा.६/२५) इति मैत्रायण्युपनिषद्वचनमपि व्याख्यातम् । → तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ।। - (कठो. ६/११) इति कठोपनिषद्वचनं विक्षिप्तचित्तेऽव्याप्तत्वादनुपादेयं यद्वा निश्चयनयाऽनुरोधेन तदुपादेयमिति पर्युपासितगुरुकुलैरवहितमानसैःपरिभावनीयमिति शम् ।।११/३२।। स्वाऽन्यतन्त्राऽऽशयं सम्यग् विमृश्य गुणरागतः । यथोपपत्तिकं योगलक्षणं विवृतं मया ।।१।।
इति मुनियशोविजयविरचितायां नयलतायां पातञ्जलयोगलक्षणद्वात्रिंशिकाविवरणम् ।।११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org