________________
८३१
• अधिकारविंशिकावृत्तिसंवादः • तस्मान्मदुक्तं लक्षणं 'मोक्षमुख्यहेतुव्यापार' इत्येवं रूपं सतां = व्युत्पन्नानां अदुष्टत्वप्रतिपत्तिद्वारा परमानन्दकृत् ।।३२।।
।। इति पातञ्जलयोगलक्षणविचारद्वात्रिंशिका ।।११।। तस्मात् = पातञ्जलयोगलक्षणस्य दुष्टत्वात्, मदुक्तं 'मोक्षमुख्यहेतुव्यापार' इत्येवं रूपं योगस्य लक्षणं व्युत्पन्नानां = स्व-परसमयव्यावर्णितयोगगोचरव्युत्पत्तिशालिनां परमानन्दकृत् = सकलाऽविकलयोगोपासनोपधायकाऽमन्दरम्याऽऽनन्दकारि । ___ स्व-परसमयाऽनुविद्धव्युत्पत्तिलेशस्त्वेवम्- ‘ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः' (कु.त.३०/९) इति कुलार्णवतन्त्रवचनं परिशुद्धनिश्चयनयमतमवलम्ब्य सङ्गच्छते। ऐक्यञ्च सादृश्यप्रकटीकरणपरम्,
अन्यथा तदनुपपत्तेः । 'मनःप्रशमनोपायो योग इत्यभिधीयते' (महो.५/४२) इति महोपनिषद्वचनं तु निश्चयनयाऽनुगृहीतव्यवहारनयेनोपपद्यते । मनःप्रशमनोपायत्वञ्च विक्षिप्ते चेतस्यभ्युपगन्तव्यम्, अन्यथैकाग्रादिचित्तेऽपि तदनुपपत्तेः ।
एतेन → समत्वं योग उच्यते - (म.भा.शां.पर्व.२६/४८) इति महाभारतवचनं → सम्पराहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः । सर्वत्र समताबुद्धिः स योगो भूप ! मे मत।। - (ग.गी.१।४७) इति गणेशगीतावचनं च व्याख्यातम्, अपुनर्बन्धकादीनां विक्षिप्तादिचित्ते जायमानस्यांऽऽशिकसमत्वस्य योगत्वाऽप्रतिक्षेपात् ।
यदपि रामानुजदर्शननिरूपणावसरे सर्वदर्शनसङ्ग्रहे → योगो नाम देवतानुसन्धानम् - (स.द.सं. रामा.पृष्ठ-१९४) इत्युक्तं तदप्यात्मनः परमात्मानुयोजनपरतयाऽस्मन्मताऽनुवादपरमेवाऽवसेयम् । एतेन → युञ्जन्ति देवा अत्रेति योगः = कर्म (श.बा.सा.भा.६/२/४/४) इति शतपथब्राह्मणसायणभाष्यवचनमपि व्याख्यातम्, अतीन्द्रियार्थप्रतिपादकागमविहितानुष्ठानस्याध्यात्मविशुद्धिप्रसूतस्येह बाहुल्येन देवानुयोजनोपलब्धेः। अत एव → योगः कर्मसु कौशलम् - (भ.गी.२/५०) इति भगवद्गीतावचनं → योगो वैधेषु कौशलम् → (ग.गी.१।४९) इति गणेशगीतावचनं च व्यवहारनयत उपपद्यते । कौशलञ्चात्रौचित्यलक्षणमवगन्तव्यम्, अन्यथाऽपुनर्बन्धकाधनुष्ठानस्य योगत्वाऽनुपपत्तेः । तदुक्तं योगशतकवृत्तौ → सर्वत्रोचितानुष्ठानं योगः - (यो.श.गा.२२ वृ.) इति । इदञ्च रूढ्या मुख्यं जैनदर्शनसत्कं योगलक्षणमवगन्तव्यम् । तत्र च चित्तवृत्तिनिरोधात्मकं पातञ्जलयोगलक्षणं, कुशलप्रवृत्तिरूपं गौद्धोक्तयोगलक्षणं, मोक्षयोजकव्यापारस्वरूपञ्च गोपेन्द्रोक्तं पदप्रवृत्तिनिमित्तगर्भ योगलक्षणं यथायथं सङ्गच्छते स्याद्वादमुद्रया। इदमेवाभिप्रेत्य योगशतके → एएसिं णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणाऽमयसंजुत्तं तं सव्वं चेव जोगोत्ति ।। तल्लक्खणजोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ ।।
માટે અમે ૧૦મી બત્રીસીમાં “મોક્ષનો મુખ્ય હેતુભૂત આત્મવ્યાપાર એ યોગ કહેવાય' - આમ જે યોગલક્ષણ બતાવેલ હતું તે જ વ્યુત્પન્ન = શાસ્ત્રબોધસંપન્ન એવા સજ્જનોને તેમાં નિર્દોષતાનું ભાન Aqat द्वा२॥ ५२मानंद मापना२. छे. (११/३२.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org