________________
८३०
• नानाविधयोगलक्षणमीमांसा • द्वात्रिंशिका-११/३२ कार्या विचारणा ।। - (शं.गी.२/८९-९०) इति शम्भुगीतावचनविरोधः परेपाम् ।
वस्तुतस्तु तथाविधाऽभ्यास-स्थैर्याऽभावेऽप्यात्माऽऽभिमुख्यस्यैवाऽसाधारणगुणोत्कर्पसाधकस्याऽत्र योगव्यवहारनियामकत्वं दृश्यम् । तदुक्तं धर्मबिन्दौ → भवन्ति त्वल्पा अप्यसाधारणा गुणाः कल्याणोत्कर्षसाधकाः - (ध.बि.४/२१) इति । एतेन → विक्षिप्ते तु चित्ते कादाचित्को योगः प्रचुरविक्षेपवह्निदग्धोऽप्रतिष्ठितो निष्फलो योगपक्षे न वर्तते (म.प्र. १/१-पृ.२) इति मणिप्रभाकृद्वचनं प्रत्याख्यातम्, कादाचित्कत्वेऽपि तस्याः शुद्धेः प्रतिपच्चन्द्रवत् वर्धमानत्वात्, कालान्तरे चैकाग्रचित्ततया परिणामात् । 'विक्षिप्तं तु प्रथमयोगिनः' (म. प्र. १/२/पृ.५) इत्युक्त्या मणिप्रभाकृतैव विक्षिप्ते मनसि योगत्वप्रतिपादनाच्च । ___ यत्तु → यदा हि क्षीणतमस्करजसाऽनुविद्धसत्त्वकं तदा धर्म-ज्ञान-वैराग्यैश्चर्योपगं भवति, इदं विक्षिप्तम् - (ना.भ.१/२-पृ.४) इति नागोजीभट्टेनोक्तं तत्तु स्पष्टमेव विक्षिप्ते चेतसि योगाऽभ्युपगमपक्षं समर्थयति ।
→ 'ईपद्रजस्तमःसंस्पृप्टेन सत्त्वेन कादाचित्कध्यानयुक्ततया क्षिप्ताद् विशिष्टं = विक्षिप्तम् - (यो.सु.१/१-पृ.३) इति योगसुधाकरोक्तिरपि विक्षिप्ते चेतसि अध्यात्म-भावनायोगयोरप्रतिक्षेपिका, ध्यानस्य तदुभयोत्तरकालीनत्वात् । इति हेतोः प्रागुक्ता त्रिंशत्तमश्लोकोपदर्शिता अव्याप्तिः वज्रलेपायितैव ।
यत्तु ग्रन्थकृता → न समाधावुपयोगं तिस्रश्चेतोदशा इह लभन्ते । सत्त्वोत्कर्षात् स्थैर्यादुभे समाधिसुखाऽतिशयात् ।। -- (अ.सा. २०/९) इत्येवं अध्यात्मसारे गदितं तत्तु परसमयाऽनुवादाऽपेक्षयाऽवगन्तव्यम् । न च विक्षेपबहुलत्वाद् विक्षिप्तस्य दुष्टत्वान्न योगसम्भव इति वक्तव्यम्, अभ्यासदशायां तस्याऽदुष्टत्वात् । यथोक्तं अध्यात्मसारे → विषयकपायनिवृत्तं योगेपु च सञ्चरिष्णु विविधेषु । गृहखेलद्वालोपममपि चलमिष्टं मनोऽभ्यासे ।। वचनाऽनुष्ठानगतं याताऽऽयातञ्च सातिचारमपि । चेतोऽभ्यासदशायां गजाङ्कुशन्यायतोऽदुष्टम् ।।
6 (अ.सा.२०/११-१२) इति । किञ्च ‘योगश्चित्तवृत्तिनिरोध'(यो.सू. १/२) इत्यत्र सर्वशब्दाऽग्रहणेऽप्यर्थात्तल्लाभात् अव्याप्तिः सम्प्रज्ञाते इति ‘क्लिप्टचित्तवृत्तिनिरोधो योग' इति लक्षणं सम्यग् । यद्वा समिति-गुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वमिति व्यक्तमुक्तमनेन ग्रन्थकृता पातञ्जलयोगसूत्रविवरणे । यथाचैतत्तथा दर्शयिष्यतेऽग्रे योगभेदद्वात्रिंशिकायाम् (द्वा.द्वा.१८/३० पृ.१२६१)।
अथ योगश्चित्तवृत्तिनिरोध' इत्यत्र को धातुः तैराश्रीयते 'युजिच् समाधौ', 'युनूंपी योगे' इत्यनयोः? यतो नैकोऽपि तदीयमनोरथव्रतततिवृद्धये प्रभवति । आदौ समाधेर्योगाङ्गत्वेन स्वीकारादङ्गाङ्गिभावो भज्येत । योग-समाध्योरन्यत्र तु धात्वर्थ एव लक्षणविरोधी, निरोधविरुद्धत्वाद्योगस्य । न चैवं भवति योगाऽऽरम्भक्रियाया योगत्वम्, तदा चित्तवृत्तेरनिरोधात्, काय-वानिरोधयोश्च योगत्वाऽभावाप्तेरनिप्ठतैव । न च निर्विकल्पकसमाधावपि सर्वथा चित्तवृत्तिनिरोधः, तथा सति जडत्वापातात्, किन्तु निरोध इव निरोधः । तथा चोपचरितमेव लक्षणं, न तत्त्वतः (अ.वि.वृ.गा.१५) इति अधिकारविंशिकावृत्तौ श्रीसागरानन्दसूरयो व्याचक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org