SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ८२९ • विक्षिप्ते चित्ते योगारम्भाऽऽवेदनं . वस्तुतो योगविशेषप्रारम्भकालेऽपि कर्मक्षयरूपफलाऽन्यथाऽनुपपत्त्या व्यवहारेणाऽपि योगसामान्यसद्भावोऽवश्याभ्युपेय इति 'प्रागुक्ताव्याप्तिर्वज्रलेपायितैव । नैगमनयाऽनुगृहीतनिश्चयनयेन तु प्रतिसमयं शिवक-स्थासाद्यभिन्नत्वेन रूपेण घटो जायत एव । अत एव कुलालादीनामाद्यक्षणे 'अहं घटं करोमी'त्याद्यनाहार्य-स्वारसिकाऽनुभवोऽपि सङ्गच्छते । अतः क्रियावैयर्थ्यप्रसङ्गोऽपि न सावकाशः, विद्यमाने हि वस्तुनि पर्यायविशेपाऽऽधानद्वारेण कथञ्चित्करणक्रियादिसाफल्योपपत्तेः । सर्वथाऽसति तु नेदं सम्भवति । वस्तुतः योगविशेषप्रारम्भकालेऽपि = अध्यात्म-भावनायोगाऽऽरम्भसमयेऽपि कर्मक्षयरूपफलाऽन्यथानुपपत्त्या = औचित्यपालनाद्यभिव्यङ्ग्य-कर्मनिर्जरालक्षणफलस्य योगानङ्गीकारेऽघटमानत्वेन व्यवहारेणाऽपि = व्यवहारनयेनाऽपि विक्षिप्तादिचित्तवतोऽपुनर्बन्धकादेः तात्त्विको योगसामान्यसद्भावः अवश्याभ्युपेयः । योगस्यैव कर्मक्षयकारणत्वात् कर्मक्षये सति तत्सद्भावोऽविगानेन सिध्यतीति भावः । अत एव योगबिन्दौ अपि → अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपः + (यो.वि.३६९) इत्युक्तम् । 'अयं = योगः'। यथा चैतत्तथा भावयिष्यतेऽग्रे (पृ.१२९६)। एतेन यः क्लेशहान्यहेतुत्वाद् विक्षिप्ते चेतसि वर्तमानस्य समाधेर्योगबहिर्भावो योगवार्तिककृतोक्तः सोऽपि निरस्तः प्रत्येतव्यः । यत्तु वाचस्पतिमिश्रेण तत्त्ववैशारद्यां 'विक्षिप्ते चेतसि समाधिः कादाचित्कः सद्भूतविषयः चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात् ? यतस्तद्विक्षेपोपसर्जनीभूतः । विपक्षवर्गाऽन्तर्गतस्य हि स्वरूपमेव दुर्लक्षम्, प्रागेव कार्यकरणम् (त.वै.१/१/पृ.४) इत्युक्तम्, तदसत्, यतः स्वल्पपरिमाणमपि रजोगुण्ठितमपि रत्नं रत्नमेवोच्यते, तत्कार्यकारि च भवत्येव तद्वदेव विक्षिप्तचित्तसमाधिपक्षेऽपि विज्ञेयम् । अन्यथा तज्जसंस्काराणां व्युत्थानसंस्कारव्याघातकत्वमेव न स्यात् । न चैतदिष्टं भवताम्, तदुक्तं राजमार्तण्डे → इह चतुर्विधः चित्तस्य परिणामः । (१) व्युत्थानं, (२) समाधिप्रारम्भः, (३) एकाग्रता, (४) निरोधश्च । तत्र क्षिप्त-मूढे चित्तभूमी व्युत्थानम् । विक्षिप्ता भूमिः सत्त्वोद्रेकात् समाधिप्रारम्भः । निरुद्धैकाग्रते च पर्यन्तभूमी । प्रतिपरिणामञ्च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते (रा.मा. १/१८) इति । ननु समाधिप्रारम्भजानां संस्काराणामेकाग्रताजनितैः संस्कारैः प्रत्याहन्यमानत्वान्न योगत्वमिति चेत्? न, एवं सति एकाग्रताजनितसंस्काराणां निरोधजनितैः संस्कारैः हन्यमानत्वात्केवलं निरोधस्यैव योगत्वं स्यात्, सत्त्वोद्रेकेऽपि विक्षिप्ते चेतसि समाध्युपयोगित्वं न स्यात्, स्यादेव तर्हि → सात्त्विकानां नराणां हि नारीणामपि तादृशाम् ।। चित्तेप्वेव प्रकाशेत ह्यात्मज्ञानं तथैव च । पूर्णस्वरूपं धर्मस्य नात्र - વાસ્તવમાં તો વિશિષ્ટ પ્રકારના યોગના પ્રારંભ સમયે પણ કર્મનિર્જરાસ્વરૂપ ફળ તો પ્રાપ્ત થાય જ છે. જો તે સમયે યોગ ન માનવામાં આવે તો કર્મનિર્જરારૂપ ફળ અસંગત બની જાય.માટે વ્યવહારનયથી પણ ત્યારે યોગસામાન્યની હાજરી માનવી આવશ્યક છે. તેથી એકાગ્ર ચિત્તની પૂર્વે અધ્યાત્મ વગેરેથી શુદ્ધ થયેલ ચિત્તમાં પાતંજલમાન્ય યોગલક્ષણની (૩૦મા શ્લોકમાં બતાવેલી) અવ્યાપ્તિ જડબેસલાક જ બનશે. १. हस्तादर्श ‘प्रागुक्तातिव्या...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy