________________
८२३
• जगत्सृष्टिप्रक्रियावैविध्यम् । ङ्ख्यसूत्रे → सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः । प्रकृतेर्महान्, महतोऽहङ्कारः, अहङ्करात् पञ्च तन्मात्राणि उभयमनिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि, 6 (सां.सू.१ ६१) इत्येवं प्रकृत्यादिकार्याणि दर्शितानि इति पूर्वं (पृ.७८५)दर्शितमेव । पातञ्जलानामपीयमेव प्रक्रियाऽभिमताऽविशेपेण । परं साङ्ख्य-पातञ्जलेभ्यो विलक्षणैव प्रक्रिया आथर्वणरहस्यभूतायां नारायणपूर्वतापिनीयोपनिषदि → प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा जायते । ब्रह्मणः सकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रियकर्मेन्द्रियाणि मनोबुद्धि-चित्ताऽहङ्कारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशतितत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् + (ना.पू.ता.५/४) इत्येवं दर्शिता ।
गणेशोत्तरतापिन्युपनिषदि तु → पुरातनो गणेशो निगद्यते । स आद्यः सोऽक्षरः सोऽनन्तः सोऽव्ययो महान् पुरुषः । तच्छुद्धं तच्छबलम्। ततः प्रकृति-महत्तत्त्वानि जायन्ते । ततश्चाऽहङ्कारादिपञ्चतन्मात्राणि जायन्ते । ततः पृथिव्यप्तेजोवाय्वाकाशपञ्चमहद्भूतानि जायन्ते । पृथिव्या औषधय
ओपधीभ्योऽन्नम् । अन्नाद् रेतस्ततः पुरुषः ततः सर्वं ततः सर्वं जगत् + (गणे.२/४) इत्येवं प्रक्रिया प्रदर्शिता । आथर्वणीयायां महोपनिषदि तु → तस्मिन् (=नारायणे) पुरुषाः चतुर्दशाऽजायन्त एका कन्या । दशेन्द्रियाणि मन एकादशम्। तेजो द्वादशम् । अहङ्कारस्त्रयोदशः । प्राणाश्चतुर्दश आत्मा । पञ्चदशी बुद्धिः । पञ्च तन्मात्राणि पञ्च महाभूतानि । स एष पञ्चविंशकः पुरुषः - (आ.महो.१) इत्येवं पञ्चविंशतितत्त्वप्रक्रिया प्रोक्ता । अन्यत्र चान्यथैवेति प्रकृतिप्रभृतिप्रक्रिया कल्पितैवेति दिक् । ___ यदपि मुक्तावन्तःकरणविरहात् तन्त्रे ज्ञाननिषेध उक्त इति तदपि न, प्रक्षीणदोपस्य मुक्तावस्थायामन्तःकरणस्याऽनावश्यकत्वात्, ज्ञाननिषेधस्तु आवृतज्ञानाऽपेक्षया बोध्यः । एतेन → निर्गुणत्वान्न चिद्धर्मा ८ (सां.सू. १/१४६) इति साङ्ख्यसूत्रं निराकृतमवगन्तव्यम् । यथोक्तं योगबिन्दौ → निमित्ताऽभावतो नो चेन्निमित्तमखिलं जगत् । नाऽन्तःकरणमिति चेत् ? क्षीणदोषस्य तेन किम् ? ।। चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृताऽपेक्षया भवेत् ।।
6 (यो.बि. ४५३,४५६) इति । एतेन → ज्ञानं नैवाऽऽत्मनो धर्मो न गुणो वा कथञ्चन (सौ.पु.११/२५) इति सौरपुराणवचनमपि प्रत्याख्यातम्, आत्मनो जडत्वापत्तेः । तदुक्तं द्वादशारनयचक्रे → चेतनो झुपयोगलक्षणः, तदभावादचेतनः स्यात् + (द्वा.न.च.पृ.४८१) इति । अधिकन्तु क्लेशहानोपायद्वात्रिंशिकायां (भा.६/पृ.१७५३) वक्ष्यामः ।
यत्तु 'यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ।।'
પરંતુ મહોપાધ્યાયજી મહારાજ કહે છે કે આ વાત વ્યાજબી નથી. આનું કારણ એ છે કે – જૈન દર્શનમાં ઉપયોગનું પ્રમાણ અંતર્મુહૂર્ત કાલ છે. અંતર્મુહૂર્તકાળ સુધી એક ઉપયોગ ટકી શકે છે. તેથી “આ ઘડો છે અને આ ઘડાને હું જાણું છું.” આ પ્રમાણે ક્રમસર બહિર્મુખવ્યાપાર અને અન્તર્મુખવ્યાપાર દ્વારા પર અને સ્વ બનો અનુભવ ક્રમસર થઈ શકે છે. એકીસાથે અન્તર્મુખ અને બહિર્મુખવ્યાપાર એક આત્મામાં માનીએ તો વિરોધનું ઉલ્કાવન કરી શકાય. પરંતુ જૈન દર્શન ક્રમિક બે વ્યાપાર સ્વીકારે છે. તથા ક્રમિક બે વ્યાપાર માનવા છતાં બે ઉપયોગને- બે જ્ઞાનને માનવાનો પ્રસંગ પણ નહિ આવે. કારણ કે અંતર્મુહૂર્ત કાળ સુધી એક ઉપયોગ ટકી શકે છે. અવગ્રહ, ઈહા, અપાય અને ધારણા - આ ક્રમથી એક જ જ્ઞાન અંતર્મુહૂર્ત સુધી ટકી રહે છે. - આ વાત વિશેષાવશ્યક ભાષ્ય વગેરેમાં બતાવેલી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org