________________
८२२ • योगसूत्राणां समीक्षणम् •
द्वात्रिंशिका-११/२९ ज्ञस्वभावस्यात्मनो ज्ञानावरणीयप्रतिबद्धस्वभावत्वादऽशेषपदार्थमजानतोऽप्यपगताऽशेषज्ञानावरणस्य ज्ञस्वभावत्वादेवाशेषज्ञेयपरिच्छेदकत्वमभ्युपगन्तव्यम् । जयन्तभट्टेन अपि न्यायमञ्जर्यां → अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वाद् मलानामागन्तुकत्वाद् मलनिबर्हणहेतोश्च यथोक्तस्य सम्भवात् तदावरणापाये सति स्वतः सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात् सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते - (न्या.मं.आणिक-९/मोक्षप्रक. ) इत्येवं 'केचने'त्युक्त्या जैनमतसमर्थनमकारि । युक्तञ्चैतत्, न हि प्रतिबन्धशून्यो ज्ञो ज्ञेये सति न प्रवर्तते । तदुक्तं योगबिन्दौ → 'ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात् कथमप्रतिबन्धकः?।।' (यो.बि.४३२) इति । तदुक्तं द्वाद-शारनयचक्रे अपि → अस्य ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं सर्वज्ञता। तन्निरतिशयं क्वचित् प्राप्नोति, तारतम्य-युक्तत्वात्, पर्वतोन्नतिवत, क्षेत्रप्रमाणवत; प्रत्यवगमकात्मकत्वात, खद्योतादितारतम्यवृत्तोद्योतवत् + (द्वा.न. च.पृ.२१४) इति । अधिकन्तु हारिभद्रीयावश्यकनियुक्तिवृत्तितः (आ.नि.६२८ हा.वृ.) विज्ञेयम् । अन्यच्चाधिकं क्लेशहानोपायद्वात्रिंशिकाविवरणे (भाग.६/पृ.१७५७) वक्ष्यामः । ___एतेन विवेकजं सर्वविषयकं ज्ञानमुत्पन्नमपि सत्त्वगुणत्वेन निवृत्ताऽधिकारायां प्रकृतौ प्रविलीयमानं नाऽऽत्मानमभिस्पृशतीत्यात्मार्थशून्यनिर्विकल्पचिद्रूप एव मुक्तौ व्यवतिष्ठत इति अपास्तम्, चित्त्वाऽवच्छेदेनैव सर्वविषयकत्वस्वभावकल्पनात्, अर्थशून्यायां चिति मानाऽभावाद्, बिम्बरूपस्य चित्सामान्यस्याऽविवर्तस्य कल्पनेऽचित्सामान्यस्यापि तादृशस्य कल्पनापत्तेः, व्यवहारस्य बुद्धिविशेषधर्मेरेवोपपत्तेः । यदि चाऽचित्सामान्यनिष्ठ एवाऽचिद्विवर्त कल्प्यते तदा तुल्यन्यायाच्चिद्विवर्तोऽपि चित्सामान्यनिष्ठ एवाभ्युपगन्तुं युक्तो न तु चिदचिद्विवर्ताधिष्ठानमेव कल्पयितुं युक्तम्, नयाऽऽदेशस्य सर्वत्र द्रव्ये तुल्यप्रसरत्वादिति (यो. सू.वि.३/५५) इति व्यक्तमुक्तं पातञ्जलयोगसूत्रविवरणे ग्रन्थकृता ।।
किञ्च, त्रिगुणात्मकस्य प्रधानस्यैकत्वे सति नित्यत्वे कक्षीक्रियमाणे नैव महदाद्यारम्भोऽपि युज्यते । तदुक्तं द्वादशारनयचक्रे मल्लवादिसूरिभिः साक्षेप-परिहारं → नित्यमेव त्र्यात्मकमिति चेत् ? तथापि सुतरां तथा, एकत्वनित्यत्वात् प्रकाश-प्रवृत्ति-नियमकार्यभेदाऽभावादनारम्भः वैषम्यनिर्मूलता च, उभयस्य चाऽभावः - (द्वा.न.च.पृष्ठ-१४) इति । मुद्गलोपनिषदि तु → तस्माद् विराडित्यनया पादनारायणाद् हरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ।। - (मु.५) इत्येवं प्रकृत्यादेर्जन्यत्वोक्तेः → नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिः द्विविधा - (द्वा.द्वा.११/१६, पृ.७७९) इति प्रागुक्तमपास्तम् । __ किञ्च ..प्रकृतेर्महान् ततोऽहङ्कारः' इत्यादिप्रक्रियायामप्यैकमत्यं परेषां नास्ति । तथाहि- साછે. પરંતુ જ્ઞાન ગુણવાળો માનવો યોગ્ય નથી. કારણ કે પુરુષને ચૈતન્યસ્વરૂપ માનવાથી જ વિષયપ્રકાશનનું સામર્થ્ય સંભવી શકે છે. તેથી બુદ્ધિની વૃત્તિમાં પુરુષનું પ્રતિબિંબ પડતાં બુદ્ધિ = અંતઃકરણ = ચિત્ત ચેતનતુલ્ય થાય છે. આમ બુદ્ધિવૃત્તિમાં ચિતૂછાયા સંક્રાન્ત થવાથી બુદ્ધિને ઘટાદિ પદાર્થનું જ્ઞાન થાય છે. અને બુદ્ધિની साथे तात्म्यअध्यासना दीधे पुरुषने ५९ विषयमान थाय छे. भाटे 'पुरुषस्य चैतन्यम्' (शो ४ मा જણાવ્યા મુજબ, આ રીતે વિકલ્પાત્મક બુદ્ધિગુણવાળા પુરુષને માનવો યુક્ત નથી. વિષયપ્રકાશન કરવા માટે બહિર્મુખ વ્યાપાર જોઈએ. તથા પોતાનું પ્રકાશન કરવા માટે અંતર્મુખ વ્યાપાર જોઈએ. એક જ કાળમાં અંતર્મુખ વ્યાપાર અને બહિર્મુખ વ્યાપારનો વિરોધ હોવાથી બુદ્ધિ જ્યારે બહિર્મુખ વ્યાપાર દ્વારા ઘટાકાર પરિણામને પામે છે ત્યારે અંતર્મુખ વ્યાપાર આવી શકતો નથી. ૧૪ મા શ્લોકમાં આ વાત જણાવી ગયા છીએ. માટે વિકલ્પાત્મક બુદ્ધિ ગુણવાળો આત્મા માની ન શકાય. આવું પાતંજલ વિદ્વાનોનું કથન છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org