________________
राजमार्तण्डोक्तिनिराकरणम्
न, अनुभूयमानक्रमिकैकोपयोगस्वभावत्वेन तदविरोधादिति ।। २९ ।।
ऽऽभासादुपचारेण पुरुषे विपयग्रहणसामर्थ्यमापद्यते, न तु वुद्धिवृत्तिमन्तरेण । बुद्ध्युपहितविपयग्रहणसामर्थ्येनाऽऽत्मनो निर्विकल्पचिद्रूपत्वमेव युज्यते । सैव चिद्रूपता स्वयं मुक्तौ व्यवतिष्ठते । तदुक्तं भोजेन राजमार्तण्डे मोक्षदशायान्तु सकलग्राह्यग्राहकलक्षणव्यवहाराऽभावाच्चैतन्यमात्रमेव तस्यावशिष्यते । तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन, यस्माद् विपयग्रहणसमर्थत्वमेव चितेः (= पुरुषस्य ) रूपं नाऽऽत्मग्राहकत्वम् । तथाहि - अर्थश्चित्या गृह्यमाणः 'अयमिति गृह्यते, स्वरूपं गृह्यमाणं 'अहमि 'ति, न पुनर्युगपद्बहिर्मुखताऽन्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम् । अत एकस्मिन् समये व्यापारद्वयस्य कर्तुमशक्यत्वात् चिद्रूपतैवावशिष्यते । अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेपु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येवं युक्तम् ← (यो.सू.४/३४- रा. पृ.२१३) इति । इत्थं आत्मनः कूटस्थनित्यत्वेन मुक्ताविव संसारेऽपि चिद्रूपत्वमनाविलम् ।
E
ग्रन्थकारस्तन्निरस्यति- 'ने'ति । 'अयं घटः, घटमहं जानामीत्यादिरूपेण अनुभूयमानक्रमिकैकोपयोगस्वभावत्वेन तदविरोधात् अन्तर्मुख-वहिर्मुखव्यापारद्वयविरोधविरहात् । युगपत्तदुभयोपगम एव विरोधाऽवकाशः । क्रमेण व्यापारद्वयोपगमे विरोधप्रच्यवात् । न चैवं ज्ञानद्वयाऽऽपत्तिः, क्रमिकव्यापारद्वयाऽनुस्यूतैकोपयोगाऽङ्गीकारात्, 'मुहूर्त्तमात्रमहमेकविकल्पपरिणत एवाऽऽसमि 'त्यबाधित-स्वारसिकाऽनुभवादिवलेन (स्याद्वादकल्पलता-४/११२) उपयोगस्याऽन्तर्मुहूर्त्तमानकालत्वात् । इत्थमेवावग्रहेहापायादिसम्भवात् । तदुक्तं श्रीहेमचन्द्रसूरिभिः विशेषाऽऽवश्यकभाष्यवृत्ती निश्चयोपायमुखेन घटादिके वस्तुनि अवग्रहेहाऽपायरूपतयाऽन्तर्मुहूर्त्तप्रमाण एवोपयोगो जायते ← (वि. आ. भा. १८८ वृत्ति) इति । प्रदीर्घाऽध्यवसायस्य धारावाहिकतया समर्थने, स्थूलकालमादाय 'पश्यामीति प्रत्ययस्य भ्रान्तत्वे तदैक्यप्रत्यभिज्ञायाश्च तज्जातीयाऽभेदविपयकत्वे, घटादौ वर्तमानताप्रत्यय- प्रत्यभिज्ञयोरपि तथात्वे बौद्धसिद्धान्तप्रवेशाऽऽपातादित्यधिकं स्याद्वादकल्पलतायाम् (शा.वा.४/११२-स्या.क.पृष्ठ१७१) ।
८२१
वस्तुतो धारावाहिबुद्धिरप्येकैव । वेदान्तिभिरपि यावद् घटस्फुरणं तावद् घटाकारान्तःकरणवृत्तिरेकैव न तु नानेत्यङ्गीक्रियते । तदुक्तं वेदान्तपरिभाषायां सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः ← (वे. परि. पृष्ठ-३४) इति यथातन्त्रं भावनीयम् ।
यच्च
मोक्षदशायान्तु सकलग्राह्य-ग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते । तच्चेतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन ← (यो.सू.रा. ४ / ३४ ) इति राजमार्तण्डे भोजेनोक्तं तदसत् ज्ञानस्य सर्वविषयकत्वस्वभावत्वेन निःशेषप्रतिबन्धकाऽपगमे सति सर्वविषयकत्वाऽऽवश्यकत्वात् । સમાધાન :- આ શંકા વ્યાજબી નથી. કારણ કે એક જ ઉપયોગ હોવા છતાં વિષયપ્રકાશ અને સ્વપ્રકાશ બન્નેનો ક્રમિક અનુભવ કરવાનો સ્વભાવ માનવાથી વિરોધ આવતો નથી. (૧૧/૨૯) * જ્ઞાન આત્માનો ગુણ છે જૈન ડ્ર
વિશેષાર્થ :- જ્ઞાન દ્વારા જ વિષયવ્યવસ્થા થાય છે. જો જ્ઞાનને આત્માનો ગુણ માનવામાં ન આવે તો વિષયપ્રકાશનનું સામર્થ્ય આત્મામાં સંગત ન થઈ શકે. માટે આત્મા જ્ઞાનગુણવાળો હોવો જોઈએ. પરંતુ આ બાબતનો ઈન્કાર કરતા પાતંજલ વિદ્વાનો એમ કહે છે કે પુરુષને ચિત્સ્વરૂપ - જ્ઞાનસ્વરૂપ માનવો યુક્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-