________________
८२४
• नयभेदेनाऽऽत्मस्वरूपप्रकाशनम् • द्वात्रिंशिका-११/३० तथा च कायरोधादावव्याप्तं' प्रोक्तलक्षणम्। एकाग्रतावधौ रोधे वाच्ये च प्राचि चेतसि ।।३०।।
तथा चेति । तथा च = जैनदर्शनजयसिद्धौ च प्रोक्तलक्षणं = पतञ्जल्युक्तयोगलक्षणं (म.भा.शांति.मो.ध.२१०/३९) इति महाभारते मोक्षधर्मे प्रोक्तम्, तत्तु द्रव्यार्थादेशेनावगन्तव्यम् । द्रव्यार्थिकनयेनात्मनो ज्ञानस्वरूपत्वात् पर्यायार्थिकनयेन चात्मनो ज्ञानगुणत्वादिति विभावनीयं तत्त्वमेतत् । एतेन → चैतन्यमेवाऽस्य स्वरूपम्, अग्नेरिव औण्ण्य-प्रकाशौ । नाऽत्र गुण-गुणिविभागो विद्यते - (सं.शा. २/३/३९) इति सक्षेपशारीरककृद्वचनं, → नात्मा सर्वथा चिद्धर्मा, किन्तर्हि ? चित्स्वरूप एव — (वृ.आ.भा.४/५) इति बृहदारण्यकभाष्यकृद्वचनं, → न च चिदेकरसस्याऽऽत्मनो धर्मसम्भवः -- (वि.प्र. सं.१/१ पृ.४५) इति विवरणप्रमेयसङ्ग्रहकृद्वचनं, → परमात्माऽपि चैतन्यमात्रो, न चैतन्यधर्मकः - (ब्र.सू.प्रकाशवच्च' ३/२/१५ सूत्र भाप्य) इति विज्ञानामृतभाष्यकारवचनं, → तत्त्वाख्यानमपि लक्षणं भवति, यथा चैतन्यलक्षणः पुरुषः - (प्रदी.३/२/१२६) इति प्रदीपकारवचनं, च व्याख्यातं द्रष्टव्यम्, द्रव्यार्थाऽऽदेशाऽर्पणया स्याद्वादसाम्राज्ये तदुपपत्तेः ।
यत्तु श्वेताश्वतरोपनिषदि → साक्षी चेता केवलो निर्गुणश्च 6 (श्वे.उप.६।११) इत्युक्तं तत्तु अखण्डसन्मात्रग्राहकपरसङ्ग्रहनयार्पणयाऽनेकान्तवादसिद्धान्ते सङ्गच्छते, तन्नये द्रव्यभिन्नगुणानङ्गीकारात् ।
किञ्च ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः'(यो.सू.१/९) इति योगसूत्रमपि न सम्यक्, यतो विकल्पो न शब्दादखण्डाऽलीकनिर्भासात्मकः किन्तु 'असओ णत्थि णिसेहो' (विशेषा.१५७४) इति विशेषावश्यकभाष्यकृद्वचनात् खण्डशः प्रसिद्धानामर्थानां संसर्गारोप एव, अभिन्ने भेदनिर्भासादिस्तु नयात्मा प्रमाणैकदेश एवेति न तस्य प्रमाणबहिर्भावः सङ्गच्छते । ‘अभावप्रत्ययालम्वना वृत्तिर्निद्रा' (यो.सू.१/ १०) इत्यपि योगसूत्रवचनं न समीचीनम्, यतो निद्रा न सर्वाऽभावालम्बना, स्वप्ने करि-तुरगादिभावानामपि प्रतिभासनात् । नापि सर्वा मिथ्यैव, संवादिस्वप्नस्यापि बहुशो दर्शनात् । इत्थमेव ततः संशयनिवृत्त्युपपत्तेः । तदुक्तं योगबिन्दौ → अमुत्र संशयापन्नचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते ।। 6 (यो.बि.४२) इति । स्मृतिरपि अनुभूते यथार्थतत्ताख्यधर्मावगाहिनी, संवादविसंवादाभ्यां द्वैविध्यदर्शनादिति तिसृणामुत्तरवृत्तीनां द्वयोरेव प्रमाण-विपर्यययोर्यथायथमन्तर्भावात् पञ्चवृत्त्यभिधानं स्वरुचितप्रपञ्चार्थम्, अन्यथा क्षयोपशमभेदादसङ्ख्यभेदानामपि सम्भवादिति (यो.सू.वि.१/१०) व्यक्तं योगसूत्रविवरणे ।।११/२९।।
फलितनिष्कर्षमाह- 'तथा चेति। जैनदर्शनजयसिद्धौ सत्यां 'योगश्चित्तवृत्तिनिरोध' (यो.सू.१/२) ४ छे. भाम विल्यात्म बुद्धि ५५॥ मात्मानो ४ गु छ- मेम नही थाय छे. (११/२८)
ગાથાર્થ :- તેમ જ કાયનિરોધ વગેરેમાં પાતંજલ યોગલક્ષણ અવ્યાપ્તિ દોષથી ગ્રસ્ત બને છે. તથા જો “માત્ર એકાગ્રતા અને નિરોધ - આ બન્નેમાં સાધારણ એવો રોધ એ યોગ છે.” આમ કહો તો पूर्व वित्तमा अध्याति भावशे. (११/30)
ટીકાર્થ:- ૨૯ મા શ્લોકમાં જણાવ્યા પ્રમાણે જૈનદર્શનનો વિજય સિદ્ધ થતાં જૈનદર્શનના સિદ્ધાન્તો પાતંજલ વિદ્વાનોએ માન્ય કરવા પડશે. જૈનદર્શનમાં કાયનિરોધ, વચનનિરોધ વગેરેને પણ શૈલેશી વગેરે १. हस्तादर्श 'व्यव्याप्तं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org