________________
आत्मनो बुद्धिगुणतोपपादनम्
पुमान् = पुरुषः बुद्धिगुणः स्यात्, बुद्ध्युप 'लब्धि - ज्ञानानामनर्थान्तरत्वात् । तस्याश्चाऽनेकरूपत्वात् परिणामित्वयोगतः । आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः ।।
← (शा.वा.स. ३/३९-४० ) इति । 'अन्ये = जैना:' । शिष्टं स्पष्टम् । प्रकृति-प्रधानयोरनर्थान्तरतैव साङ्ख्य-पातञ्जलानां मत इत्यवधेयम् । तन्निरुक्तिश्च द्वादशारनयचक्रवृत्तौ प्रक्रियन्ते विकाराः तत इति प्रकृतिः । प्रधीयन्तेऽस्मिन् महदादय इति प्रधानम् ← ( द्वा.न.च.वृ. पृष्ठ - ३३८) इत्येवं श्रीसिंहसूरिगणिक्षमाश्रमणैरुक्तेत्यवधेयम् ।
•
કહો
१. मुद्रितप्रतौ 'बुद्धिलब्धि ...' इति पाठः ।
Jain Education International
=
उपयोगः, ज्ञानं, विषयेन्द्रियसम्पर्कात्
किञ्चैवं पुरुषः बुद्धिगुणः स्वीकर्तुं योग्यः स्यात्, पुरुषस्य चिद्रूपताया भवद्दर्शने स्वीकृतत्वात् बुद्ध्युपलब्धि- ज्ञानानां च अनर्थान्तरत्वात् पर्यायशब्दत्वात् । तदुक्तं कुन्दकुन्दस्वामिना समयसारे → बुद्धी ववसाओ वि य अज्झवसाणं मदी य विन्नाणं । एक्कट्ठमेव सव्वं चित्तं भावो य परिणामो ।। ← ( स.सा. २७१ ) इति । तदुक्तं विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरिभिरपि संवेदनं, प्रत्यय इति तावदनर्थान्तरम् ← (वि. आ. भा. ४९ ) इति । एतेन प्रथमं बुद्धिः, ततो लब्धिः पश्चाच्च ज्ञानमुपजायते ← इति निरस्तम् । तदुक्तं न्यायसूत्रेऽपि बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ← ( न्या. सू. १/१/१५ ) इति । तेषाञ्चाऽऽत्मलक्षणत्वं चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी अ । ईहा मई वियक्का जीवस्स उ लक्खणा एए ।। ← (द.वै.नि. २२४) इत्येवं दशवैकालिकनिर्युक्तौ भद्रबाहुस्वामिभिः दर्शितम् । तदुक्तं भगवदाचार्येण अपि सायणसंहिताभाष्ये → चेतनो ज्ञानवान् बुद्धिमान् ← (सा.सं.भा. १/२/१-१/२/७ पृ.१५) इति ।
एतेन बुद्धेः प्रकृतिगुणता निरस्ता, पुरुषस्य चिद्रूपत्वे ज्ञानरूपताया बुद्धिरूपतायाश्चाऽनायासेन सिद्धेः ‘चिती संज्ञाने’ इति वचनाच्चैतन्य-विज्ञानयोरेकत्वस्याऽऽपन्नत्वात्, अन्यथा कथं 'बुद्ध्यध्यवसितमर्थं पुरुपश्चेतयत' इति भवदीयागमवचनमुपपद्येत ? तदुक्तं योगबिन्दी 'बुद्ध्यध्यवसितस्यैवं कथमर्थस्य चेतनम् । गीयते तत्र नन्वेतत् स्वयमेव निभाल्यताम् । । ' ( यो . बि. ४४८ ) इति । ततश्च बुद्धि - पुरुषयोः गुणगुणिभावेन कथञ्चिदभेद एवाभ्युपगन्तुमर्हति । बुद्धि-पुरुषयोः सर्वथैव भेदे 'सा बुद्धिः तमेवाऽऽत्मानं विपयेणावच्छिनत्ती' त्यत्र न किमपि नियामकं पश्यामः । तस्माद् बुद्धिरेव रागादिपरिणताऽऽत्मस्थानेऽभिषिच्यतामिति प्रागुक्तमेव ( द्वा. द्वा. ११/२४ पृष्ठ-८०६) युक्तम् ।
ननु रागादिपरिणतपुरुपस्य बुद्धिरूपत्वे बुद्धेः क्षणिकतयाऽऽत्मनोऽपि क्षणिकत्वापत्तौ बन्धमोक्षव्यवस्थाभङ्गः कृतनाशाऽकृताऽऽगमप्रसङ्गश्च प्रसज्येत इति चेत् ? मैवम्, सर्वथाऽऽत्मनोऽनित्यत्वाऽनभ्युपगमात् क्षणिकत्वाऽऽपत्तिर्नाऽस्माकं बाधिका, न वा बन्ध - मोक्षव्यवस्थाभङ्गप्रसङ्गो, न वा कृतनाशाऽकृताऽभ्यागमप्रसङ्गो लब्धप्रसरो जैनदर्शने । न चैवमनिर्वचनीयत्वमात्मनः स्यादिति शङ्कनीयम्, स हि कथञ्चित् द्रव्यरूपतामाश्रित्य ध्रुवः = द्रव्यतः = ध्वंसाऽप्रतियोगी, कथञ्चित् = पर्यायतः ज्ञानादिगुणमवलम्ब्य अध्रुवश्च = ध्वंसप्रतियोगी च । द्रव्यत्वेनाऽऽत्मत्वेन वा नित्य आत्मा તથા બુદ્ધિ એ આત્માનો ગુણ થશે. કારણ કે બુદ્ધિ કહો, ઉપલબ્ધિ કહો, જ્ઞાન કહો કે ચેતના આ બધા પર્યાયવાચક શબ્દો છે. સાંખ્ય વિદ્વાનો ‘વિષયસંબંધ પછી પ્રથમ બુદ્ધિ થાય. પછી
=
•
For Private & Personal Use Only
८१९
=
www.jainelibrary.org