________________
प्रकृतेः कर्मस्थानीयत्वद्योतनम्
द्वात्रिंशिका - ११/२९
८१८
प्रधानभेदे चैतत्स्यात्' कर्म 'बुद्धिगुणः पुमान् । स्याद्ध्रुवश्चाऽध्रुवश्चेति जयताज्जैनदर्शनम् । । २९ ।। ‘प्रधाने’ति । उक्तदोषभिया प्रधानभेदे चाऽभ्युपगम्यमाने आत्मभोगाऽपवर्गनिर्वाहकं एतत् कर्म स्यात् ।
नायं दोष इति वक्तव्यम्, नष्टाया बुद्धेः मुक्त्यवच्छेदकत्वाऽसम्भवात् । तदुक्तं स्याद्वादकल्पलतायां → “ तद्बुद्ध्यवच्छेदेन मुक्तत्वं नान्यबुद्ध्यवच्छेदेन” इत्यपि क्षीणाया बुद्धेरनवच्छेदकत्वादनुद्धोप्यम्, बुद्धियोगेन पुरुषस्य संसारित्वे तस्यैव मोक्षप्रसङ्गाच्च ← (शा.वा.स. ३/३५ वृ. पृ.११८) इति ।
वस्तुतस्तु प्रकृतेर्मोक्षोऽसम्भवी 'प्रकृतिवियोगो मोक्ष' इति वचनात्, अन्यथा प्रकृतिस्वरूपविलयाऽऽपत्तेः । पुरुषे तु तद्व्यापारद्वारा तन्निवृत्तिर्युज्येताऽपि न तु स्वस्मिन् स्वनिवृत्तिः सम्भवति घटे घटनिवृत्त्यदर्शनात्, अप्रसक्तस्याऽप्रतिषेधात् । यथोक्तं शास्त्रवार्तासमुच्चये मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत् ? । स्वरूपविगमाऽऽपत्तेः तथा तन्त्रविरोधतः ।। ← (शा. वा. स. ३/३६) इति । ।११/२८ ।। नन्वेकमुक्तावन्यमुक्त्यापत्तिनिवारणाय नव्यसाङ्ख्यैः प्रधानमपि नानैवाङ्गीक्रियत इत्याशङ्कायामाह 'प्रधाने 'ति । प्रधानभेदे = प्रधानतत्त्वनानात्वे चाऽभ्युपगम्यमाने भवद्दर्शनेऽपि यः पुरुषः प्रधानान्मुक्तः स मुक्तिभाक्, यश्च प्रधानादमुक्तः सोऽमुक्त' इत्येवं व्यवहारोपपत्तिः स्यात् । किन्त्वेवं सति आत्मभोगाऽपवर्गनिर्वाहकं एतत् प्रधानतत्त्वं हि जैनदर्शनस्वीकृतं कर्म एवाऽदृष्ट-प्रकृत्यविद्याद्यपराऽभिधानं स्यात् । तच्च प्रकृति-प्रधानाऽव्यक्ताद्यपराऽभिधानं कर्म स्वविपाकप्रदर्शनोत्तरं कृतार्थत्वान्नाऽवस्थातुं शक्नोति । ततश्च कृतार्थस्याऽहङ्कारादेरिव तस्याऽपि निवृत्तिः स्वीकर्तव्यैव पातञ्जलैः, अन्यथा अहङ्कारं महति, महद् अव्यक्ते, अव्यक्तं पुरुषे क्रमेण विलीयते ← ( पै.३ / ९) इति पैङ्गलोपनिषद्वचनाऽनुपपत्तेः । ततश्चप्रकृतेर्नित्यत्वैकान्तसिद्धान्तोऽप्यसङ्गत एव ।
•
-
इत्थञ्चाभ्युपगन्तव्यमेवाऽकामेनाऽपि यदुत यदुदये भुक्तिः यद्विगमे च मुक्तिस्तत् कर्मैव भोगाऽपवर्गनिर्वाहकम् । कर्मप्रकृतितो मुक्तिरपि चैवं पुरुपस्यैव स्यात्, न तु प्रकृतेः । कर्मणो नानात्वात् परिणामित्वाच्च भव-भवविगमव्यवस्थोपपत्तेः । तदुक्तं शास्त्रवार्तासमुच्चये
अत्रापि पुरुषस्याऽन्ये मुक्तिमिच्छन्ति वादिनः । प्रकृतिं चाऽपि सन्यायात्कर्मप्रकृतिमेव हि ।।
.
ગાથાર્થ :- જો પ્રકૃતિ અનેક માનો તો તે પ્રકૃતિ સંસાર-મોક્ષના નિર્વાહક કર્મ (અદૃષ્ટ) સ્વરૂપ જ બનશે અને પુરુષ બુદ્ધિસ્વરૂપ ગુણવાળો થશે. તે અપેક્ષાએ નિત્ય અને અનિત્ય-ઉભયસ્વરૂપ થશે. આ રીતે જૈન શાસન જયવંતુ થશે. (૧૧/૨૯)
* અનેકવિધ પ્રકૃતિની ર્મસ્થાને ગોઠવણ #
ટીકાર્થ :- ઉપર જણાવેલ દોષોના ડરથી જો પાતંજલ વિદ્વાનો પ્રકૃતિને અનેક માને તથા તે રીતે સંસાર અને મોક્ષની સંગતિ કરે તો તે પ્રકૃતિ બીજું કોઈ તત્ત્વ નહિ પણ જૈનદર્શનને માન્ય કર્મતત્ત્વ સ્વરૂપ જ બનશે. કહેવાનો આશય એ છે કે દરેક આત્મામાં અલગ-અલગ પ્રકૃતિ માનો અને તેને આત્માથી ભિન્ન માનો તો જૈન લોકો જેને કર્મ કહે છે તે જ આવીને ઊભું રહે છે. પ્રકૃતિ કહો કે કર્મ કહો - એકનું એક જ છે. કારણ કે આત્મભિન્ન અનેક કર્મનો સ્વીકાર કરવાથી આત્માનો ભોગ સંસાર અને મોક્ષ સંગત થઈ શકે છે.
=
१. हस्तादर्शे 'स्याक...' इति त्रुटितः पाठः । २. हस्तादर्शे 'बुद्धिः गु..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org