________________
• केवलज्ञाने शक्तिरूपेण विषयसन्निधानम् • ___ शून्यवादिमतप्रवेश इति भावः ।।२६।। काल्पनिकत्वमापद्येत । तस्य तथात्वाऽऽपत्तौ = तुच्छत्वाऽऽपत्तौ ईष्यमाणायान्तु शून्यवादिमतप्रवेशः = पातञ्जलानां सर्वशून्यवादिमाध्यमिकमतप्रवेशप्रसङ्गः ।
किञ्च ‘सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्याऽपरिणामित्वात्' (यो.सू. ४/१८) इति योगसूत्रमपि प्लवते, ज्ञानरूपस्य चित्तस्याऽऽत्मनि धर्मितापरिणामः सदा सन्निहितत्वेन तस्य सदाज्ञातत्वेऽप्यनुपपन्नः, शब्दादीनां कादाचित्कसन्निधानेनैव व्यञ्जनाऽवग्रहादिलक्षणेन ज्ञाताऽज्ञातत्वसम्भवात् । अत एव केवलज्ञाने शक्तिविशेषेण विषयाणां सदा सन्निधानात् ज्ञानाऽवच्छेदकत्वेन सदाज्ञातत्वमबाधितमिति तु पारमेश्वरप्रवचनप्रसिद्धः पन्थाः ।
यदपि 'द्रष्ट-दृश्योपरक्तं चित्तं सर्वार्थम्' (यो.सू.४/२३) इति योगसूत्रं तत्र वयन्तु स्याद्वादिनो ब्रूमः → अग्निरूपात्मके प्रकाशे संयोगं विनाऽपि यथा स्वतः प्रकाशकत्वं तथा चैतन्येऽपि प्रतिप्राणि पराऽनपेक्षतयाऽनुभूयमाने, अन्यथाऽनवस्था-व्यासङ्गाऽनुपपत्त्यादिदोषप्रसङ्गात् । परप्रकाशकत्वं च तस्य क्षयोपशमदशायां प्रतिनियतविषयसम्बन्धाऽधीनम् । क्षायिक्यां च दशायां सदा तन्निरावरणस्वभावाऽधीनम् । तच्चैतन्यं रूपादिवत्सामान्यवदस्पन्दात्मकानुपादानकारणत्वेन गुण इति गुण्याश्रित एव स्यात् । यश्च तस्य गुणी स एवात्मा। निर्गुणत्वं च तस्य सांसारिकगुणाऽभावापेक्षयैव न अन्यथा, तस्य स्वाभाविकाऽनन्तगुणाऽऽधारत्वात् । बिम्बभूतचितेः निर्लेपत्वाऽभ्युपगमे च तत्प्रतिबिम्बग्राहकत्वेन बुद्धौ प्रकाशस्याऽनुपपत्तिः, बिम्बप्रतिबिम्बभावसम्बन्धस्य द्विप्ठत्वेन द्वयोरपि लेपकत्वतौल्यात् । उपचरितविम्बत्वोपपादने चोपचरितसर्वविषयत्वाद्युपपादनमपि तुल्यमिति नयाऽऽदेशविशेषपक्षपातमात्रमेतत् + (यो.सू.४/२३ वि.) इति योगसूत्रविवरणे प्रकृतग्रन्थकृतोक्तम् । अत्र मदीयं पद्यम्ग्राह्यत्वं ग्राहकत्वञ्च द्वे शक्ती तेजसो यथा । पृथगिव स्थिते तद्वत्, ज्ञानानां तु स्वभावतः ।।
एतेन दर्पणे मुखप्रतिबिम्बस्थानीयो बुद्धौ ‘अहमिति पुरुषोपरागो मुखरक्ततासंसर्गस्थानीयो ‘घट' इत्यादिर्विषयोपरागो बिम्बचलनावेशस्थानीयः ‘करोमी ति व्यापाराऽऽवेश इत्यंशत्रयकल्पनमपास्तम् । सम्बन्धसामान्यस्यातिप्रसञ्जकत्वात् सम्बन्धविशेषस्य च तादात्म्याऽतिरिक्तस्य युक्तिरिक्तत्वादमूर्तस्याऽऽत्मनः प्रतिबिम्बादिकल्पनाया बालक्रीडाप्रायत्वादिति (अ.स.परि.१।६ पृ.११२) व्यक्तमुक्तं ग्रन्थकृता अष्टसहस्रीतात्पर्यविवरणे ।।११/२६ ।। “આ ઘટ છે, તે પટ છે.” ઈત્યાદિ પ્રસિદ્ધ વ્યવહારના વિષયને પણ કોઈ માણસ કાલ્પનિક માને તો તેની સામે પાતંજલ વિદ્વાનો કશું બોલી નહિ શકે. મતલબ કે ઘટાદિવ્યવહારના વિષયને પણ કાલ્પનિક માનવો પડશે. અને જો આવું થાય તો શૂન્યવાદી બૌદ્ધના મતમાં પાતંજલ વિદ્વાનોએ ગોઠવાઈ જવું પડે. માટે પાતંજલ વિદ્વાનોની ઉપરોક્ત માન્યતા બરાબર નથી. એવું અહીં ગ્રંથકારશ્રીનું તાત્પર્ય છે.(૧૧/૨૬)
વિશેષાર્થ:- સાંખ્યદર્શન અને પાતંજલ યોગદર્શનમાં ચિત્તવૃત્તિનિરોધકાલ પૂર્વે દ્રષ્ટાનું સ્વરૂપઅવસ્થાન સંભવી ન શકે. કારણ કે ત્યારે ચિત્તગત અભિવ્યંગ્ય ચિત્શક્તિની અભિવ્યક્તિના દેશના આશ્રયભૂત એવા પુરુષમાં બુદ્ધિગત સુખાદિના ભોગનો ઉપચાર થતો હોવાથી પુરુષ ઉપચરિતપણે સુખાદિનો ભોક્તા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org