________________
८०६
• अतिरिक्तपुरुषससिद्धेर्विकल्पत्रयकवलितत्वम् • द्वात्रिंशिका-११/२४ तत् = तस्माद् बुद्धिः पुंसः = पुरुषस्य एव नाम स्यात्। 'च = पुनः तत्त्वाऽन्तरव्ययः = अहंकारादितत्त्वोच्छेदः२ स्यात् ।।२४।।
एतेन → आब्रह्म स्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् - (सां.सू.३/४७) इति, → कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् + (सां.सू.३/५१) इति च साङ्ख्यसूत्रमपि निरस्तम्, कर्मणो जडप्रवर्तकत्वे घटादेरपि प्रधानस्येव चेष्टावत्त्वं स्यादिति दिक् ।
तस्मात् = बुद्धिभिन्नाऽऽत्माऽसिद्धेः बुद्धिः पुरुषस्यैव = रागादिपरिणतस्यात्मन एव नाम स्यात् । तदुक्तं स्याद्वादकल्पलतायां → बुद्धिरेव रागादिपरिणतात्मस्थानेऽभिषिच्यताम् । तस्या लयश्च रागादिलय एव इति तत्रैव मुक्तिरिति ध्रुवम् + (शा.वा.स. ३/३१/वृ. पृ.११३) इति ।
युक्तञ्चैतत्, इत्थमेव बुद्ध्यादेः चेतनत्वप्रतीतिसङ्गतेः । न च चेतनसंसर्गादचेतनस्याऽपि वुद्ध्यादेः चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैवेति वाच्यम्, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गात्, चेतनसंसर्गाऽविशेपात् । शरीराद्यसम्भवी वुद्ध्यादेरात्मना साकं संसर्गविशेपोऽस्तीति चेत् ? स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात् ? तददृष्टकृतत्वादिविशेपस्य शरीरादावपि भावात् । ततो नाऽचेतना ज्ञानादयः स्वसंविदितत्वात्, अनुभववत् । स्वसंविदितास्ते, परसंवेदनाऽन्यथाऽनुपपत्तेरिति (अ.स.परि.१।६ ।पृ.१०३।२।३) व्यक्तमुक्तं विद्यानन्देन अष्टसहस्याम् ।
किञ्च परार्थाश्चक्षुरादय इत्युक्तं, तत्रापि (१) आधेयाऽतिशयो वा परः साध्यत्वेनाऽभिप्रेतः, (२) यद्वाऽविकार्यनाधेयाऽतिशयश्च, (३) आहोस्वित्सामान्येन चक्षुरादीनां पारार्थ्यमात्रं साध्यत्वेनाभिप्रेतम्? इति विकल्पत्रयम् । नाद्यः, सिद्धसाधनात्, अस्माभिरपि चक्षुरादीनां विज्ञानोपकारित्वेनाऽभ्युपगमात् । न द्वितीयः, विरुद्धत्वात्, साध्यविपर्ययेण दृष्टान्तहेत्वोर्व्याप्तत्वेन प्रतीतेः । अविकारिण्युपकारस्याऽशक्यक्रियत्वेन पारा
•ऽयोगाच्च । न तृतीयो, यथाकथञ्चित्पारार्थ्यस्य सर्वैरभ्युपगमात् । न च चित्तमपि साध्यधर्मित्वेनोपात्तमिति तदपरस्य परस्य साध्ये प्रवेशान्न सिद्धसाधनम्, अपरस्याऽविकारिण उपकार्यत्वाऽसम्भवात्, चक्षूरूपाऽऽलोकमनस्काराणामपरचक्षुरादिकदम्वकोपकारित्वस्यैव न्याय्यत्वाद्विज्ञानस्य चानेककारणकृतोपकाराऽध्यासितस्य संहतत्वं कल्पितमविरुद्धमेवेति न किञ्चिद्विचार्यमाणं साङ्ख्यदर्शने चारिमाणमञ्चतीति व्यक्तमुक्तं ग्रन्थकृद्भिः साङ्ख्यवार्ताचर्वणाऽवसरे अनेकान्तव्यवस्थायाम् (अ.व्य.पृ.३९ व्यवहारनयप्रतिपादने)।
दोपान्तरं समुच्चिनोति- 'पुनः अहङ्कारादितत्त्वोच्छेदः स्यात् ।।११/२४ ।। તે સત્ત્વાદિ ગુણો દ્વારા સંપન્ન થયેલો સુખ-દુઃખનો ભોગવટો સફળ થઈ જશે. અર્થાત્ સત્ત્વાદિ ગુણધર્મોનું ભોગાદિ સ્વરૂપ ફળ બુદ્ધિ દ્વારા જ ચરિતાર્થ થઈ જશે. આ પ્રમાણે માનવાથી બુદ્ધિથી અતિરિક્ત એવો આત્મા સિદ્ધ નહિ થાય. તેથી બુદ્ધિથી ભિન્ન કોઈ આત્માની સિદ્ધિ નહિ થાય. તેથી બુદ્ધિ એ જ પુરુષનું બીજું નામ બની જશે. અર્થાત્ બુદ્ધિ કહો કે પુરુષ કહો કે આત્મા કહો - ફક્ત નામભેદ છે, અર્થભેદ નહિ. આમ સિદ્ધ થશે. તેમ જ પાતંજલ યોગદર્શનકારને માન્ય અહંકાર વગેરે તત્ત્વનો ५९॥ ७२छेद थ शे.(११/२४) १. 'च'शब्दो मुद्रितप्रतौ नास्ति, परं मूलादर्श विद्यते, आवश्यकश्चेत्यस्माभिः गृहीतः । २. हस्तादर्श 'तत्त्वव्यवच्छेद' इति पाठः । ३. हस्तादर्श 'तथात्' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org