________________
• योगसूत्रभाष्यनिराकरणम् •
८०५ ___ धर्माणां साश्रयत्वव्याप्तेश्च बुद्ध्यैव सफलत्वात् नैवमात्मा कश्चिदतिरिक्तः सिध्येदिति भावः।
एतेन → यद्यपि सामान्येन परार्थमात्रत्वेन व्याप्तिर्गृहीता तथापि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति । यथा चन्दनवनाऽऽवृते शिखरिणि विलक्षणाद् धूमाद् वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति + (यो.सू.भा. ४/२४) इति राजमार्तण्डे भोजोक्तिरपास्ता, असंहतपराऽप्रसिद्ध्या साध्याऽसिद्धेः, सत्त्वादिनिष्ठस्य संहत्यकारित्वस्य परार्थत्वाऽभावव्याप्य-स्वार्थत्वसाहित्योपलब्धेर्हेतोर्विरुद्धत्वाच्च । न ह्येकस्मिन्नेव समये एकेनैव रूपेण स्वार्थत्व-परार्थत्वलक्षणविरुद्धकार्यकारित्वमेकान्तवादिमते सम्भवति । __ किञ्च भोक्तृत्वादिकमपि तन्मते बुद्धावेव वर्तत इति उपचरितभोक्तृत्वशालिनः पुरुषस्य कल्पनाऽपि नाऽऽवश्यकी । एतेन → यश्च भोगेनाऽपवर्गेण चार्थेनार्थवान् पुरुषः स एव परः - (यो.सू.भा.४/ २४) इति योगसूत्रभाष्यकृद्वचनमपि प्रत्याख्यातम्, अपरिणामित्वात् निर्धर्मत्वाच्च पुरुषस्य भोगाऽपवर्गाभ्यामर्थवत्त्वाऽसम्भवात्, तत्त्ववादे औपचारिकभोगादेरनुपयोगाच्चेत्याशयेन ग्रन्थकृदाह- धर्माणां साश्रयत्वव्याप्तेरिति । यो यो धर्मः स स साश्रयकः यथा नीलरूपं घटाऽऽश्रयकम् । धर्माश्च भोगादय इति तेपामप्याश्रयेण भवितव्यम् । स च पुरुपो न भवितुमर्हति, तस्य निर्धर्मकत्वात् । अतो बुद्धेरेव तदाश्रयतया भाव्यम् । ततः सत्त्वादिगुणाऽऽरब्धानां भोगादीनां बुद्ध्यैव सफलत्वात् = निष्ठितप्रयोजनत्वात् नैवमात्मा कश्चित् बुद्ध्यादितः अतिरिक्तः सिध्येत् ।
एतेन पुरुपस्य भोगाऽपवर्गार्थं प्रकृतिः प्रवर्तत इत्यपि प्रत्यस्तम् । न हि प्रत्याख्याताऽशनादिकं पुरुषमुद्दिश्य प्रेक्षावान् कश्चित् सूदादिमहता प्रबन्धेन रसवतीं निष्पादयेत् । अनेन → पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद् राज्ञः - (सां.सू.३/१६) इति साङ्ख्यसूत्रं निरस्तम्, परमार्थतः पुरुषस्याऽभोक्तृत्वेन संसृतेर्निष्प्रयोजनत्वानतिक्रमाच्च ।
एतेन → प्रकृति-महदादिकं परार्थं = स्वेतरस्य भोगाऽपवर्गफलकं, संहतत्वात्, शयनाऽऽसनादिवदित्यनुमानेन प्रकृतेः परोऽसंहत एव पुरुषः सिध्यति, तस्याऽपि संहतत्वेऽनवस्थाऽऽपत्तेः (सां.प्र.भा. १/६६) इति साङ्ख्यप्रवचनभाष्यकृद्वचनमपि प्रत्याख्यातम्, परमार्थतः सर्वत्र स्वप्रयोजनव्याप्तप्रवृत्तेरेवोपलम्भात्, → न वा अरे ! सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय सर्वं प्रियं भवति - (बृ.आ.उप.२/४/५) इति बृहदारण्यकोपनिषद्वचनव्याघाताऽऽपत्तेश्च । 'आत्मनस्तु' = 'स्वस्य तु' इत्यर्थः, न तु 'पुरुपस्य स्वव्यतिरिक्तस्य तु' इत्यर्थः कार्यः । પરાર્થત્વ સિદ્ધ થશે તેમાં ઘટકભૂત પરપદાર્થ પણ સશરીરી = સાવયવ સિદ્ધ થશે, અસંહત = નિર્ધર્મક = નિરવયવ = અવયવઅનારબ્ધ એવો નહિ. મતલબ કે સંહત્યકારિત્વ હેતુના બળથી પાતંજલ વિદ્વાનોને જે અસંહત = નિરવયવ પુરુષની સિદ્ધિ કરવી છે તે નહિ થઈ શકે.
વળી, દરેક ગુણધર્મોને પોતાનો આશ્રય હોય છે. તેવો નિયમ ઘટનું નીલરૂપ વગેરે સ્થળોમાં સિદ્ધ છે. તેથી સત્ત્વ વગેરે ગુણોના આશ્રયરૂપે બુદ્ધિ જ સિદ્ધ થશે. બુદ્ધિને જ તેનો આશ્રય માનવાથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org