________________
८००
• कूटस्थश्रुतिप्रयोजनोपदर्शनम् • द्वात्रिंशिका-११/२३ बुद्ध्या सर्वोपपत्तौ च मानमात्मनि मृग्यते । संहत्यकारिता मानं पारार्थ्यनियता च न ।।२३।।
बुद्ध्येति । बुद्ध्या = महत्तत्त्वेन सर्वोपपत्तौ = सकललोकयात्रानिर्वाहे च सति आत्मनि कगतमूलनिजपरिणामाऽव्ययवत् । एतेन → जपाकुसुमसम्पर्कात् स्फटिको लोहितो यथा । गुणत्रयादिसम्पर्कात् तथाऽऽत्माऽपि जडो भवेत् ।। - (रा.गी.४/२४) इति रामगीतावचनमपि प्रत्याख्यातम्, यादृशं लौहित्यं स्फटिके तादृशजडत्वापादनस्येष्टत्वात् ।
यद्वा कूटस्थत्वश्रुतेः अविशिष्टोपलब्धिपरतयाऽप्युपपत्तिः सम्भवति । तदुक्तं सर्वसारोपनिषदि → ब्रह्मादि-पिपीलिकादिपर्यन्तं सर्वप्राणिबुद्धिष्वविशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते - (स.सा.४) इति । ___ वस्तुतस्तु सूक्ष्माणामपि चित्तवृत्तीनां निरोधायाऽऽत्मनः कूटस्थत्वश्रुति-मनन-निदिध्यासनादिकमुपयुज्यते न तु परिणामिस्वभावनिषेधार्थम्, स्वविषयबाधेन विपर्ययत्वापत्तेः । प्रकृते → प्रकाशयन्तमन्तःस्थं ध्यायेत् कूटस्थमव्ययम् । ध्यायन्नास्ते मुनिश्चैव चाऽऽसुप्तेरामृतेस्तु यः ।। जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।
6 (पै.३/२-३) इति पैङ्गलोपनिषद्वचनं, → प्रकाशयन्तमन्तःस्थं ध्यायेत् कूटस्थमव्ययम् - (यो.कुं.३/२६) इति योगकुण्डल्युपनिषद्वचनं, → अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा । तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ।। - (अष्टा.गी.१८/५१) इति च अष्टावक्रगीतावचनमप्यनुसन्धेयम् । सम्मतञ्चेदमस्माकमपि । तदुक्तं अध्यात्मगीतायामपि → देहादिजडभावेषु साक्षिभावेन वर्तनम्। भवेद् यदा तदाऽऽत्माऽसौ जीवन्मुक्तः प्रभुः स्वयम् ।। (अ.गी.१४) इति भावनीयम् । एतेन → निर्लेपकं निरपायं कूटस्थमचलं ध्रुवम् + (यो.शि.३/२१) इति योगशिखोपनिषद्वचनमपि व्याख्यातम्, तस्य शुद्धद्रव्यार्थिकनयानुसारिध्यानयोगोपयोगित्वात् । यथोक्तं कृष्णगीतायामपि → शुद्धात्मरूपमादाय नामरूपादिविस्मृतिः । कर्तव्याऽऽत्मोपयोगेन सदसत्सु विवेकिना ।। (कृ.गी.८६) इति भावनीयं विमुक्ताभिनिवेशैः ।
यत्तु योगसूत्रभाष्ये → यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते स हि तत्फलस्य भोक्तेति । एवं बन्ध-मोक्षौ बुद्धावेव वर्तमानौ पुरुपे व्यपदिश्यते, स हि तत्फलस्य भोक्तेति इत्येवं (यो.सू.भा.२/१८) व्यासेनोक्तं तदसत्, सदैव संसारदशायां मोक्षदशायाञ्चात्मन एकरूपत्वे बन्ध-मुक्तिफलभोक्तृत्वस्यौपचारिक-बन्ध-मोक्षव्यपदेशनिमित्तस्य विरहात्तत्र तद्व्यपदेशानुपपत्तेः । न हि निर्निमित्तमौपचारिकव्यपदेशमिच्छन्ति मनीषिणः ।।११/२२ ।।
किञ्च 'बुद्ध्ये'ति । महत्तत्त्वेन कृत्याद्याश्रयेण निरुक्तरीत्या सकललोकयात्रानिर्वाहे सति आत्मતદુપરાંત પાતંજલયોગદર્શનમાં એક દોષ એ આવે છે કે -
ગાથાર્થ - બુદ્ધિ દ્વારા જ જો બધું સંગત થઈ જતું હોય તો આત્માને સ્વીકારવાનું કોઈક પ્રમાણ શોધવાની જરૂર પડશે. પારાÁવ્યાપ્ય સંહત્યકારિતા પણ આત્મસાધક હેતુ નથી. (૧૧/૨૩)
ટીકાર્થ:- વળી, જો કૃતિ, ભોગ વગેરે ગુણધર્મોના આશ્રય તરીકે બુદ્ધિને સ્વીકારીને સર્વ લોક १. हस्तादर्श 'नियातानि च' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org