SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कूटस्थत्वश्रुतिसङ्गतिः • किं च कूटस्थत्वश्रुतेः शरीरादिभेदपरत्वेनाप्युपपत्तेरिति सम्यग्विभावनीयम् ।।२२।। शिवगीतावचनं, हंसशब्दोदितो ह्येष कूटस्थ: ← ( रा.गी. १५ / ६५ ) इति कूटस्थः प्रत्यगात्माख्यः ← (रा.गी. ३ / १० ) इति च रामगीतावचनम् असङ्गो ह्ययमात्मा ← (नृ. उत्त. ९/६ ) इति नृसिंहोत्तरतापनीयोपनिषद्वचनं, → असङ्गः ← ( सुबा. १३ / १ ) इति सुबालोपनिषद्वचनं, ‘असङ्गो ह्ययं पुरुषः’ (बृ.आ. ४/३/१६) इति बृहदारण्यकोपनिषद्वचनं, 'असङ्गोऽयं पुरुषः' (सां. सू. १/१५ ) इति साङ्ख्यसूत्रं च व्याहन्येतेति चेत् ? मैवम्, दर्शितायाः कूटस्थत्वश्रुतेः = पुरुषकौटस्थ्यप्रतिपादकश्रुतेः शरीरादिभेदपरत्वेन शरीरेन्द्रि-यमनःप्रभृतिप्रतियोगिकात्मानुयोगिकभेदबोधकत्वेन अपि उपपत्तेः न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः । अज्ञो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।। वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।। नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयत्यापो न शोषयति मारुतः ।। ← (भ.गी.२/२३) इति भगवद्गीतावचनान्यप्यत्र संवदन्ति । = ७९९ एतेन कूटस्थोऽक्षरसंज्ञितः ← ( ना. उत्त. ३/४ ) इति नारायणोत्तरतापिनीयोपनिषद्वचनम्, → कूटस्थो दोषवर्जितः ← (अन्न. ५/७५, जा.द.१०/२) इति अन्नपूर्णोपनिषत् - जाबालदर्शनोपनिषद्वचनम्, 'कूटस्थमचलं ध्रुवं' (त्रि.म.ना. ७/७, यो. शि. ३/२१, भ.गी. १२ / ३) इति त्रिपाद्विभूतिमहानारायणोपनिषद्-योगशिखोपनिषद्-भगवद्गीतावचनं, 'कूटस्थं सत्त्वरूपं' (गोपा. २ / ३३) इति गोपालोत्तरतापिन्युपनिषद्वचनं, 'कूटस्थोऽहम्' (ते. बिं.६/६२ ) इति तेजोबिन्दूपनिषद्ववचनं नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ← ( अ.पू. ५/७५, कू.पु.२/२/२२) इति अन्नपूर्णोपनिषत् - कूर्मपुराणयोश्च वचनं व्याख्यातमवसेयम् । पातञ्जलयोगसूत्रविवरणे प्रकृतग्रन्थकृता कौटस्थ्यन्त्वात्मनो यच्छ्रुतिसिद्धं तदितराऽवृत्तिस्वाभाविकज्ञानदर्शनोपयोगवत्त्वेन समर्थनीयम् । 'निर्धर्मकत्वं चितः कौटस्थ्यमित्युक्तौ तत्र प्रमेयत्वादेरप्यभावप्रसङ्गात् । तथा च ' सच्चिदानन्दरूपं ब्रह्म' ( अद्वयतारकोपनिषद् - ६ ) इत्यादेरप्यनुपपत्तिः । असदादिव्यावृत्तिमात्रेण सदादिवचनोपपादने च चित्त्वमप्यचिद्व्यावृत्तिरेव स्यादिति गतं चित्सामान्येनापि ← (यो.सू.वि. ३/५५-पृ. ३९) इति यदुक्तं तदप्यत्रानुसन्धेयं पर्यायार्थादेशपरतया । यत्तु सत्त्वादिगुणपरिणामाऽऽधाने पुरुषस्य प्रकृतिवत् जडत्वाऽऽपत्तेः कूटस्थत्वसिद्धिरिति तन्न, कथञ्चित्परपरिणामसम्भवेऽपि स्वीयमूलपरिणामाऽप्रच्यवात्, जपाकुसुमसन्निधाने रक्तिमाधानेऽपि स्फटि સમસ્યા ઃ- આત્માને પરિણામી નિત્ય માનવામાં આવે તો ‘આત્મા ફૂટસ્થ નિત્ય છે.' આવા શાસ્ત્રવચનની અસંગતિ થઈ જશે એનું શું ? સમાધાન :- ના, આ દલીલ પણ વ્યાજબી નથી. કારણ કે આત્મામાં ફૂટસ્થતાનું પ્રતિપાદન કરનારા ઉપનિષદ્વચનોની સંગતિ તો તે વચનોને શરીરાદિભેદપરક માનવાથી પણ થઈ શકે છે. (કહેવાનો આશય खे छे } 'खात्मा ड्रूटस्थ नित्य छे.' आनो अर्थ 'आत्मा शरीर, इन्द्रिय वगेरेथी भिन्न छे. भाटे शरीर, ઈન્દ્રિય વગેરે હણાવા છતાં આત્માનો નાશ થતો નથી.' આવો કરવામાં આવે તો પણ તેની સંગતિ થઈ શકે છે.) આ મુજબ સારી રીતે વિચારવાની પાતંજલ વિદ્વાનોને ભલામણ ગ્રંથકારશ્રી કરે છે. (૧૧/૨૨) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy