SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ नित्यताद्वैविध्यविचारः चित्तस्याऽपि तदनापत्तेः प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेः । नुपपत्तेः । अत्रैव हेतुमाह- प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेः मिथो विरुद्धनानापरिणामोपलब्धेरनित्यत्वापत्तेः । न च त्रिगुणात्मकस्य चित्तस्य परिणामित्वेऽप्यनित्यता पातञ्जलानां सम्मता । तदुक्तं योगसूत्रभाष्ये व्यासेन द्वयी चेयं नित्यता- कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यता गुणानाम् । यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वाऽनभिघातान्नित्यत्वम् ← (यो.सू. भा. ४ / ३३) इति । साङ्ख्यसूत्रे हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् (सां.सू. १ ।१२४), प्रकृतिपुरुषयोरन्यत् सर्वमनित्यम् ← (सां.सू. ५ / ७२ ) इति वदता कपिलेन अपि प्रकृतेर्नित्यतैव व्यतिरेकमुखेनाऽऽविष्कृता । प्रकृतिरुच्यतां गुणा वा, चित्तं वा, न तत्रास्ति पारमार्थिकः कश्चिदर्थभेदः । ' परिणामित्वस्योभयत्र तुल्यत्वेऽपि चित्तस्य न सर्वथोच्छेदापत्तिः किन्त्वात्मन एवे 'ति त्वर्धजरतीयन्यायग्रस्तत्वात् शपथमात्रप्रत्येयम् । अथैवं पुरुपे कर्तृत्व- भोक्तृत्वादेः पारमार्थिकत्वाऽभ्युपगमेऽतिरिक्ततत्सिद्ध्यनापत्तिरेव महद् दूषणमिति चेत् ? न, पारमार्थिक-कर्तृत्वाद्याश्रयत्वेऽपि परमार्थतोऽहङ्कारविविक्तत्वेन पञ्चविंशतितमत्वं पुरुपस्याऽनाविलमेव । इत्थमेव पुरुषः प्रकृतिस्थो वै भुङ्क्ते यः प्राकृतान् गुणान् । अहङ्कारविविक्तत्वात् प्रोच्यते पञ्चविंशकः ।। ← (शि.गी. १७/११ ) इति शिवगीतावचनोपपत्तेः । तदुक्तं भगवद्गीतायां अपि उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः । । ← (भ.गी.१३/२२) इति । प्रत्युत कर्मकर्तृत्व-तत्फलभोक्तृत्वाऽनभ्युपगमे आत्मन एवाऽसिद्धिः प्रसज्येत । इदमेवाभिप्रेत्य शास्त्रवार्तासमुच्चये श्रीहरिभद्रसूरिभिः यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः ।। ← (शा.वा. १/९० ) इति दर्शितम् । कत्ता भोत्ता जीवं मन्नहु ← (सं.र.शा.) इति संवेगरङ्गशालावचनतात्पर्यमपि पर्यायार्थिक- द्रव्यार्थिकनयाऽनुवेधेन प्रमाणाऽर्पणया विभावनीयमत्र क्रियां विना न कर्म स्यात् न कर्तारं विना क्रिया । भोक्ता क्रियाफलस्यैव चेतनोऽस्ति सनातनः ।। ← (अर्ह. ग. २१ / ६ ) इति अर्हद्गीतावचनमप्यत्र न विस्मर्तव्यम् । एतेन पारमार्थिकमात्मनः कर्तृत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः । परिणामित्वाच्चाऽनित्यत्वे तस्याऽऽत्मत्वमेव न स्यात् । न ह्येकस्मिन्नेव समये एकेनैव रूपेण परस्परविरुद्धाऽवस्थाऽनुभवः सम्भवति । तथाहि यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृत्वं न तस्यामेवावस्थायां दुःखाऽनुभवितृत्वम् । अतोऽवस्थानां नानात्वात् तदभिन्नाऽवस्थावतोऽपि नानात्वं, नानात्वे च परिणामित्वान्नात्मत्वं, તો સિદ્ધ જ છે. (આમ પરિણામી હોવાથી ચિત્તનો પણ સર્વથા ઉચ્છેદ માનવો પડશે. કહેવાનો આશય એ છે કે ‘પાતંજલ મતાનુસાર ચિત્ત પરિણામી હોવા છતાં જેમ તેનો સર્વથા ઉચ્છેદ નથી થતો તેમ આત્મા પરિણામી બનવા છતાં પણ તેનો સર્વથા આત્મત્વરૂપે પણ વિનાશ થતો નથી' એમ કહી શકાય છે. માટે કૃતિ વગેરે ગુણધર્મો પણ આત્મામાં પારમાર્થિક અસ્તિત્વ ધરાવે છે, નહિ કે ઔપચારિક અસ્તિત્વ - આટલું અત્યાર સુધીની ચર્ચાથી ફલિત થાય છે. આવું ન માનો તો ચિત્તનો સર્વથા ઉચ્છેદ થવાની સમસ્યા ઊભી જ છે.) Jain Education International 1 • = = For Private & Personal Use Only ७९५ www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy