________________
• अनुलोम-प्रतिलोमपरिणामद्योतनम् ।
७८५ प्रातिलोम्यत उभे शक्ती स्वाभाविके = तत्त्वतः स्वभावसिद्धे, पुमर्थे सतीति शेषः । न त्वन्यत् । ___ महदादि-महाभूतपर्यन्तः खल्वस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणाऽनुप्रवेशद्वारेणाऽस्मितान्तः प्रतिलोमः परिणामः । शक्ती पुमर्थस्य कर्तव्यत्वं = प्रकृतेः पुरुषाऽर्थकर्तव्यतोच्यते । तत्त्वतः = परमार्थतः स्वभावसिद्धे = सहजे, पुमर्थे = पुरुपार्थेऽनिप्ठिते सतीति शेषः, अन्यथा मुक्त्यनुपपत्तेः । न त्वन्यत् निरुक्ताऽध्यवसायादिलक्षणं पुरुपाऽर्थकर्तव्यत्वम् । ___महदादिमहाभूतपर्यन्तः = महत्तत्त्वाऽहङ्कार-पञ्चतन्मात्रैकादशेन्द्रियलक्षणपोडशकगण-पृथिव्यादिपञ्चमहाभूतपर्यवसानः त्रयोविंशतिसङ्ख्याकः खलु अस्याः = प्रकृतेः बहिर्मुखतया = कार्याभिव्यक्तिप्रवणतया अनुलोमः परिणामः । तथाहि → सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽहङ्कारः, अहङ्कारात्पञ्चतन्मात्राण्युभयमिन्द्रियं, तन्मात्रेभ्यः स्थूलभूतानि - (सां.सू.१/६१) इति साङ्ख्यसूत्रदर्शितरीत्या प्रकृतेः महत्तत्वं बुद्ध्यपराभिधानं, ततोऽहङ्कारः प्रादुर्भवति, सात्त्विकाऽहङ्कारात्पञ्च ज्ञानेन्द्रियाणि चक्षुरादीनि जायन्ते, रजोगुणप्रधानादहङ्कारात् पञ्च कर्मेन्द्रियाणि पाणि-पादादीन्युपजायन्ते, सत्त्व-रजोगुणवहुलादहङ्कारात् मन आविर्भवति तामसाऽहङ्काराच्च पञ्च तन्मात्राणि शब्दादीनि प्रादुर्भवन्ति, तन्मात्रेभ्यश्च पृथिव्यादीनि पञ्च महाभूतानि सजायन्ते । इत्थं महाभूतपर्यन्तं जगन्निप्पाद्य प्रकृतिर्हि भोगलक्षणमाद्यं पुरुपप्रयोजनमनुलोमशक्तिद्वारा सम्पादयति । इदमेवाभिप्रेत्योक्तं साङ्ख्यकारि-कायामीधरकृष्णेन → प्रकृतेर्महांस्ततोऽहङ्कारः तस्माद् गणश्च पोडशकः । तस्मादपि पोडशकात् पञ्चभ्यः पञ्च भूतानि ।। - (सां.का.२२) इति ।
प्रतिलोमं व्याख्यानयति- पुनः स्वकारणाऽनुप्रवेशद्वारेण = स्व-स्वोपादानकारणेपु लयद्वारा अस्मितान्तः प्रतिलोमः = प्रतिप्रसवः परिणामः प्रोच्यते पातञ्जलैः नाशपदेन च लोकैः व्यवह्रियते । एतेन → नाशः = कारणलयः - (सां.सू.१/१२१) इति साङ्ख्यसूत्रमपि व्याख्यातम् । तदुक्तं महाभारतेऽपि शान्तिपर्वणि → यस्माद् यदभिजायेत तत् तत्रैव प्रलीयते । लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ।। - (म.भा.३०६/३१) इति । महाभारते अपि चोक्तं → यद् यस्माज्जायते भूतं तत्र तत् प्रविलीयते । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् - (म.भा.अ.मे.४२/४) इति । तथा चोक्तं देवलस्मृतौ अपि → यो यस्मादुत्पद्यते स तस्मिन् लीयत - (दे.स्मृ.६/६४) इति ।
अथ प्रकृतमुच्यते । अस्मिता हि क्लेशविशेपः, तदुक्तं योगसूत्रे ‘अविद्याऽस्मिता-राग-द्वेपाऽभिनिवेशाः क्लेशाः' (यो.सू.२/३) इति । तत्र च क्लेशात्मको बुद्धि-पुरुपयोरेकताऽभिमानोऽस्मितेत्युच्यते । यथोक्तं योगसूत्रे ‘दृग्दर्शनशक्त्योरेकात्मतैवाऽस्मिता' (यो.सू. २/६) इति । योगसारसङ्ग्रहे विज्ञानभिक्षुस्तु → भूमिकाक्रमेण स्थूल-सूक्ष्माऽऽनन्दानां स्वरूपाणि दोपवहुलानि साक्षात्कृत्य तेभ्यो विरज्य तत्रैवाऽऽलम्बने છે તે જ પ્રકૃતિમાં રહેલી પુરુષાર્થકર્તવ્યતા છે. પુરુષાર્થકર્તવ્યતા આ સિવાય બીજું કાંઈ જ નથી. અનુલોમનો અર્થ છે મહતું = બુદ્ધિ તત્ત્વથી માંડીને પંચ મહાભૂત સુધી પ્રકૃતિનો બહિર્મુખ પરિણામ. તથા ફરીથી પોતાના કારણમાં પ્રવેશ કરવા દ્વારા અસ્મિતા સુધીનો અંતર્મુખી પરિણામ તે પ્રતિલોમ પરિણામ.
..... चिह्नद्वयमध्यगतः पाठो हस्तादर्श नास्ति । १. हस्तादर्शविशषे 'स्वाभाविके' इति पदं नास्ति । Jain Education International For Private & Personal Use Only
www.jainelibrary.org