SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७८० भोगद्वैविध्योपदर्शनम् प्रतिबिम्बात्मको भोगः । अन्यत्रापि हि प्रतिबिम्बे (आदर्श) प्रतिबिम्ब्यमानच्छायासदृशच्छायान्तरोद्भव भोगो भेदाऽग्रहात् = अत्यन्तसान्निध्येन विवेकाऽ - एव प्रतिबिम्बशब्देनोच्यते । पुंसि पुनः अयं ग्रहणाद् व्यपदिश्यते । = · द्वात्रिंशिका-११/१७ • सत्त्वनिष्ठचिदुपरक्तिः तस्या अभिव्यक्तिः प्रतिबिम्बात्मको भोगः उच्यते । यथोक्तं राजमार्तण्डे शुद्धमाद्यं चित्तसत्त्वमेकतः प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविपयाकारेण चित्तेनोपढौकितस्वाकारं चित्सङ्क्रान्तिवलात् चेतनायमानं वास्तवचैतन्याऽभावेऽपि सुख-दुःखभोगमनुभवति । स एव भोगोऽत्यतसन्निधानेन विवेकाऽग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिश्यते । अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तं 'सत्त्वतप्यत्वमेव पुरुपतप्यत्वम्' इति ← (रा.मा. ४ / २३) । मणिप्रभायां तु → नित्योदितायाः कूटस्थचिच्छक्तेः चित्तसत्त्वाऽभिव्यङ्ग्या चित्प्रतिविम्वरूपा सुखादिसारूप्यमापन्ना चिच्छक्तिः भोग इत्युच्यते । स द्विविधश्च भोगः, चिदवसानतारूप एकः, परिणामलक्षणोऽपरः । तत्राऽभिव्यङ्ग्या चिच्छक्तिराद्यः पुरुषस्य भोगः, अपरः सुखादिपरिणामो वुद्धेः प्राप्तचैतन्यायाः ← (म.प्र.४/२३) इत्युक्तमित्यवधेयम् । एतेन चिदवसानो भोगः ← (सां.सू.१/१०४) इति साङ्ख्यसूत्रमपि व्याख्यातम्, पुरुपस्वरूपे चैतन्ये पर्यवसाना यस्यैतादृशी भोगसिद्धिरित्यर्थः । बुद्धेर्भोगस्य व्यावर्तनाय चिदवसान इति । अतोऽर्थोपरक्तवृत्तिप्रतिविम्वाऽवच्छिन्नं स्वरूपचैतन्यमेव भानं (भानात्मकं ) पुरुषस्य भोगः, प्रमाणस्य च फलमिति निष्कर्षः (सां.प्र. भा. १/१०४) साङ्ख्यप्रवचनभाष्ये विज्ञानभिक्षुणा दर्शितः । प्रकृते ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ।। = प्रकृतित्वं ततः स्पष्टं सत्त्वादिगुणसाम्यतः । तस्यामाभाति चिच्छाया दर्पणे प्रतिविम्ववत् ।। ← (रा.गी.७/३६-३७) इति रामगीतादर्शितं वशिष्ठमतमपि यथातन्त्रमनुसन्धेयम् । अन्यत्रापि हि आदर्शादौ प्रतिबिम्बे, शिष्टं स्पष्टम् । तदुक्तं राजमार्तण्डे 'अन्यत्रापि प्रतिविम्वे प्रतिविम्व्यमानच्छायासदृशछायोद्भवः प्रतिविम्वशब्देनोच्यते । एवं सत्त्वेऽपि पौरुपंयचिच्छायासदृशचिदभिव्यक्तिः प्रतिसङ्क्रान्तिशब्दार्थः ← ( रा.मा. ४ / २३ ) इति । 'हृदयावच्छिन्नचित्ते तदवच्छिन्नचैतन्यस्याऽ विभागेनाऽविभक्तिरेव प्रतिविम्वितत्वमिति नागोजीभट्टः (ना.भ. ४ / २३) । સત્ત્વપ્રધાન ચિત્તમાં અભિવ્યક્ત થાય છે. આ અંતઃકરણમાં અભિવ્યક્ત ચિત્ છાયા એ અંતઃકરણનો જ ગુણધર્મ છે. અંતઃકરણમાં આ રીતે જે નવી ચિત્ છાયાની અભિવ્યક્તિ થાય છે તે પ્રતિબિંબસ્વરૂપ ભોગ છે. અન્યત્ર પણ દર્પણ વગેરેમાં પ્રતિબિંબ્યમાનની (= જેનું પ્રતિબિંબ પડી રહેલ છે તેની છાયા જેવી નવી અન્ય છાયા પ્રગટ થવી તે જ પ્રતિબિંબ શબ્દથી કહેવાય છે. (મતલબ એ છે કે અરીસામાં બાહ્ય ધટાદિ પદાર્થની છાયા જેવી અન્ય છાયા ઉદ્ભવે તે ઘટાદિનું પ્રતિબિંબ કહેવાય છે તેમ સાત્ત્વિક ચિત્તમાં પુરુષની ચિત્ છાયા જેવી બીજી ચિત્ છાયા ઉદ્ભવે છે તેને પુરુષનું પ્રતિબિંબ કહેવામાં કોઈ વાંધો ઉઠાવી ન શકે.) પુરુષ અને બુદ્ધિ અત્યંત નજીક હોવાના કારણે તે બન્ને વચ્ચે રહેલા ભેદનું વિવેકનું ભાન પુરુષને ન થવાથી પુરુષમાં ભોગનો વ્યવહાર કરાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy