SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पुरुषप्रतिबिम्बोपपादनम् यत्तु “व्यापकस्याऽतिनिर्मलस्य चाऽऽत्मनः कथं सत्त्वे प्रतिबिम्बनमिति” तन्न, व्यापकस्याप्याकाशस्य दर्पणादावपकृष्टनैर्मल्यवति च जलादावादित्यादीनां प्रतिबिम्बदर्शनात्, स्वस्थितचिच्छायासदृशचिच्छायाऽभिव्यक्तिरूपस्य प्रतिबिम्बस्य प्रतिबिम्बान्तरवैलक्षण्याच्चेति ( राजमार्तण्ड- ४ / २३) भोजः ।।१७।। यत्तु प्रतिबिम्वनं नामाऽनिर्मलस्य नियतपरिणामस्य निर्मले दृष्टम्, यथा 'मुखस्य दर्पणे'; न तु सर्वव्यापिनोऽतिनिर्मलस्याऽपरिणामिनः । अतो व्यापकस्य = विभुद्रव्यस्य अतिनिर्मलस्य = अतिस्वच्छस्य अपरिणामिनः चात्मनः कथं सत्त्वे पुरुपाऽपेक्षयाऽपकृष्टनैर्मल्यवति बुद्धेः सात्त्विकपरिणाम प्रतिबिम्बनं प्रतिसङ्क्रान्तिः ? इति, व्यापकस्यापि = सर्वगतस्यापि आकाशस्य दर्पणादौ प्रतिविम्वदर्शनात् । एतेनाऽनवच्छिन्नस्य नास्ति प्रतिसङ्क्रान्तिरिति निरस्तम् । अपकृष्टनैर्मल्यवति सूर्याद्यपेक्षया न्यूननैर्मल्यवति जलादौ उत्कृप्टनैर्मल्यवतां आदित्यादीनां प्रतिबिम्बदर्शनात् = प्रतिसङ्क्रान्त्युपलम्भात् । एतेनाऽत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे प्रतिसङ्क्रामतीति प्रतिषिद्धम् । तन्त्र, तदुक्तं साक्षेप परिहारं राजमार्त्तण्डे ननु प्रतिविम्वनं नाम निर्मलस्य नियतपरिमाणस्य निर्मले दृष्टम्, यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्याऽपरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात् पुरुपादनिर्मले सत्त्वे कथं प्रतिविम्वनमुपपद्यते ? उच्यते, प्रतिविम्वनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि । यैव सत्त्वगताया अभिव्यङ्ग्यायाः चिच्छक्तेः पुरुपस्य सान्निध्यादभिव्यक्तिः सैव प्रतिविम्बनमुच्यते । यादृशी पुरुपगता चिच्छक्तिः तच्छाया तथाऽऽविर्भवति । यदप्युक्तमत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे प्रतिसङ्क्रामतीति तदप्यनैकान्तिकम्, नैमर्त्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसङ्क्रान्ताः समुपलभ्यन्ते । यदप्युक्तम्- 'अनवच्छिन्नस्य नास्ति प्रतिसङ्क्रान्ति:' इति तदप्ययुक्तम्, व्यापकस्याप्याकाशस्य दर्पणादौ प्रतिसङ्क्रान्तिदर्शनात् । एवं सति न काचिदनुपपत्तिः प्रतिविम्वदर्शनस्य ← ( रा. मा. ४ / २३ ) इति । अथैवं सत्त्वे पुरुपप्रतिविम्बस्वीकारेऽपि 'अयं घट' इतिवत् 'अयं सुखी'त्यनुभव एव स्यात्, न तु 'अहं सुखी'ति चेत् ? न, स्वस्थितचिच्छायासदृशचिच्छायाऽभिव्यक्तिरूपस्य = पुरुपनिप्ठचैतन्यच्छायातुल्याऽऽविर्भावात्मकस्य प्रतिबिम्बस्य सुखादिभोगविपयस्य प्रतिबिम्बाऽन्तरवैलक्षण्यात् चिदनुपरक्त = · १. मुद्रितप्रतौ 'सदृशचिच्छाया' पदं नास्ति । Jain Education International = • = * પુરુષપ્રતિબિંબવાદ વિચાર # यत्तु । हीं जेवी खेड शंडा यह शडे छे “खात्मा तो अतिव्याप अने अत्यंत निर्माण छे. જ્યારે સત્ત્વગુણપ્રધાન ચિત્ત આત્મા જેટલું વ્યાપક અને નિર્મળ નથી. તો પછી આત્માનું પ્રતિબિંબ સત્ત્વપ્રધાન અંતઃકરણમાં કઈ રીતે સંભવે ?” ć પરંતુ આ શંકા વ્યાજબી નથી. કારણ કે વ્યાપક એવા પણ આકાશનું નાનકડા દર્પણમાં પ્રતિબિંબ પડે છે. તથા સૂર્ય કરતાં અપકૃષ્ટ નિર્મળતા ધરાવતા પાણીમાં અતિનિર્મળ એવા સૂર્ય વગેરેનું પ્રતિબિંબ દેખાય જ છે. તેથી અતિવ્યાપક અને સર્વથા સ્વચ્છ એવા પુરુષનું અપકૃષ્ટ નિર્મળતાયુક્ત સત્ત્વગુણપ્રધાન અંતઃકરણમાં પ્રતિબિંબ માનવામાં વાંધો ઉઠાવવો એ વ્યાજબી નથી. વળી, બીજી મહત્ત્વની વાત તો એ છે કે પુરુષમાં રહેલ ચિછાયા જેવી ચિત્કાયાની અંતઃકરણમાં અભિવ્યક્તિ થવા સ્વરૂપ જે પ્રતિબિંબ છે તે અન્ય દર્પણગત ઘટાદિપ્રતિબિંબ કરતાં વિલક્ષણ છે. માટે પુરુષનું પ્રતિબિંબ ચિત્તમાં માની શકાય છે. - આવું પાતંજલ યોગસૂત્રની રાજમાર્તંડ વ્યાખ્યામાં ભોજરાજર્ષિ કહે છે. (૧૧/૧૭) For Private & Personal Use Only ७८१ = www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy