________________
७७६
• चित्तस्य सर्वार्थग्रहणसमर्थनम् • द्वात्रिंशिका-११/१५ ___ (द्रष्ट-दृश्योपरक्तं =) द्रष्ट-दृश्याभ्यामुपरक्तं = द्रष्टरूपतामिवाऽऽपन्नं गृहीतविषयाऽऽकारपरिणाम
ततश्च घटादिविषयकव्यवहारोऽप्यनाविल इति सिद्धम् । अविशिष्टता च परस्परं प्रतिबिम्बनादुभयोरेव विषयाऽऽकारत्वं तत्साम्यमित्युक्तं भवति । अप्रतिसञ्चाराया अपि चितिशक्तेः स्वीयबुद्धिवृत्तिदर्शनं बुद्धिवृत्त्याऽऽकारतापत्त्यैव भवतीत्यर्थः । अयं भावो - ज्ञातुः सञ्चारो न साक्षादेव ज्ञाने हेतुः किन्तु अर्थाऽऽकारताहेतुः सन्निकर्पद्वारा, अन्यथा स्वप्नादौ मनःसञ्चाराऽभावेनार्थभानाऽयोगात् । अतो विभुत्वेनैव सर्वत्र सन्निकृष्टस्यात्मनः सञ्चारो नाऽपेक्ष्येत इति । सम्पत्तिशब्दग्रहणञ्च पुरुषस्य पारमार्थिकाऽऽकारप्रतिपेधार्थम् । यथा हि विषयाऽसन्निकर्षकालेऽपि स्वप्नादौ तद्भानायाऽगत्या चित्तस्य तदाकारः परिणाम इष्यते, नैवं पुरुषस्य चित्तवृत्त्यभावेऽपि तद्भानं भवति येन पुरुपेऽपि वृत्त्याकारः परिणामः इप्येत । किन्तु स्फटिके सन्निकृष्टजपालौहित्यस्येव चित्तवृत्तेः प्रतिबिम्बमेव लाघवादिष्यते, उभयत्राऽऽकाराख्यपरिणामकल्पने गौरवात्, स्फटिकदर्पणादेः स्वप्रतिबिम्वितवस्तुप्रकाशकत्वस्य सिद्धत्वाच्चेति (यो.वा.४/२२ पृ.४४२) योगवार्तिके विज्ञानभिक्षुः व्याचप्टे ।
एतेन → निसङ्गेऽपि उपरागः, अविवेकात् (सां.सू.६/२७), जपा-स्फटिकयोरिव नोपरागः किन्त्वभिमानः - (सां.सू.६/२८) इति साङ्ख्यसूत्रयुगलमपि व्याख्यातम्, यथा जपास्फटिकयो।परागः, किन्तु जपाप्रतिविम्ववशादुपरागाऽभिमानमात्रं, 'रक्तः स्फटिक' इति । तथैव बुद्धि-पुरुपयोर्नोपरागः, किन्तु बुद्धिप्रतिबिम्बवशादुपरागाभिमानोऽविवेकवशादित्यर्थः । अत उपरागतुल्यतया वृत्तिप्रतिबिम्ब एव पुरुपोपराग इति सूत्रद्वयपर्यवसितोऽर्थः (सा.प्र.भा.६/२८) इति साङ्ख्यप्रवचनभाष्ये विज्ञानभिक्षुः। तदुक्तं योगवाशिष्ठे अन्नपूर्णोपनिषदि च → तस्मिंश्चद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ।। ( (यो.वा.उपशम.९१/११३ + अन्न.४/७१) इति पूर्वोक्तं(पृ.७४४)स्मर्तव्यम् ।
एतेन चितिशक्तिरसङ्क्रान्ता सती कथं बुद्धिवृत्तिं पश्यतीति प्रत्यस्तम्, यथा निर्मले जलेऽसङ्क्रान्तोऽपि चन्द्रमाः सङ्क्रान्तप्रतिबिम्वतया सङ्क्रान्त इव, एवमत्राऽप्यसङ्क्रान्ताऽपि सङ्क्रान्तप्रतिबिम्बा चितिशक्तिः सङ्क्रान्तेव भवति तेन बुद्ध्यात्मत्वमापन्ना बुद्धिवृत्तिमनुपततीति तामनुकारेण पश्यतीति तत्त्ववैशारद्यां (यो.सू.२/२०/त.वै.पृ.२१३) वाचस्पतिमिश्रो व्याचप्टे । 'चिच्छायाग्राह्यत्वसम्बन्धेन चिदुपरक्तं चित्तं चिद्वेद्यमिति मणिप्रभाकृत् (म.प्र. ४/२२) । तदेवं दृश्यत्वेन चित्तस्य परिणामिनः तदतिरिक्तः पुमानपरिणतिधर्मोपपादितः ।
___ साम्प्रतं निरुक्तरीत्या स्वसंविदितं चित्तं सर्वाऽर्थग्रहणसामर्थ्येन सकलव्यवहारक्षम भविष्यतीत्याह द्रष्टदृश्याभ्यां = पुरुष-तदितरविषयाभ्यां उपरक्तं = समर्पिताऽऽकारं द्रष्टुरूपतामिवापन्नं = पुरुषात्मत्वमिव થયેલ (= પ્રતિબિંબિત થયેલ = અંગગીભાવ વિના માત્ર પોતાનું પ્રતિબિંબ ત્યાં રહેલ છે તેવી) ચિતિશક્તિ બુદ્ધિસમાન થાય છે. આમ પરિણામ-પરિણામીભાવ કે વિષયદેશગમન વિના જ કેવળ બુદ્ધિવૃત્તિમાં પોતાનું પ્રતિબિંબ રહેવાથી ચિતિશક્તિ બુદ્ધિ જેવી બનતાં પુરુષને સ્વભોગ્ય એવી બુદ્ધિનું સંવેદન થઈ શકે છે. બુદ્ધિવિષયક સંવેદનની સંગતિ થતાં ઘટાદિનો તથા ઘટાદિવિષયક જ્ઞાનનો વ્યવહાર પણ થઈ શકશે.
હ ઉભયમુખીદર્પણતુલ્ય ચિત્ત છે ચિત્ત તો ઉભયમુખી દર્પણ જેવું હોવાથી એક તરફ ચિત્ત દષ્ટા એવા પુરુષથી ઉપરક્ત = ઉપરંજિત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org