________________
७७४
• चितेरप्रतिसक्रमस्थापनम् . द्वात्रिंशिका-११/१५ नन्वेवं कथं विषयव्यवहारः ? इत्यत्राऽऽहअङ्गाऽङ्गिभावचाराभ्यां चितिरप्रतिसङ्कमा । द्रष्ट-दृश्योपरक्तं तच्चित्तं सर्वाऽर्थगोचरम् ।।१५।।
'अङ्गे'ति। चितिः = पुरुषरूपा चिच्छक्तिः अङ्गाऽङ्गिभावचाराभ्यां = परिणाम-परिणामिभावगमनाभ्यां अप्रतिसङ्क्रमा = अन्येनाऽसङ्कीर्णा । यथा हि गुणाः स्वबुद्धिगमनलक्षणे परिदृश्यते । किन्तु भावागणेशवृत्ति-नागोजीभट्टवृत्त्यादौ 'बुद्धिबुद्धे'रित्यादिपाठस्यापि दर्शनात् सोऽपि सम्यगेवेति ध्येयम् । तदुक्तं नागोजीभट्टवृत्तौ 'यदि वृत्तिः चित्तान्तरेण गृह्यते तदा बुद्धिबुद्धेः चित्तवृत्तीनामतिप्रसङ्गः = अनवस्था। अगृहीताया बुद्धेः बुद्धिग्रहणाऽसामर्थ्यात् । तथात्वे त्वाद्याया अपि तादृश्या एव विपयग्राहकत्वं स्यादिति व्यर्था तत्कल्पना स्यात्' (यो.सू. ४।२१ ना.भ.) इत्यादि ।
ननु चित्तस्य चित्तान्तरग्राह्यत्वमते सन्तु द्वित्राः त्रिचतुराः पञ्चपा वा चित्तात्मानो ग्राह्या इति नानवस्थेति चेत् ? मैवम्, ग्राहकचित्तस्याऽनिश्चये ग्राह्यचित्ताऽनिश्चयात् 'गेहे घटो दृष्टो न वा ?' इति संशये 'न दृष्ट' इति व्यतिरेकनिश्चये चाऽर्थनिश्चयाऽदर्शनेन ज्ञानचित्ताऽनिश्चयस्यार्थाऽनिश्चयाहेतुत्वात् तत्तदनन्तचित्तानामनुभवे चाऽनन्तचित्तस्मृतीनां सङ्करश्च प्राप्नोति स्मृत्यानन्त्यादशक्यग्रहत्वाद् ग्राहकाऽभावाच्च ‘इयं नीलचित्तस्मृतिः' इति विभागो न स्यादित्यर्थः । चित्तानां समत्वाद् दीपानामिव ग्राहकत्वाऽसम्भवश्च । अतः साक्षिवेद्यं चित्तमिति सिद्धमिति मणिप्रभाकृत् रामानन्दः । प्रकृते →
यथा जलस्थ आभासः स्थलस्थेनाऽवदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ।। एवं त्रिवृदऽहङ्कारो भूतेन्द्रिय-मनोजयैः । स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ।।
- (क.दे.सं.३/१२-१३) इति कपिल-देवहूतिसंवादकारिके अपि स्मर्तव्ये ।।११/१४ ।।
ननु एवं = बुद्धेः स्वप्रकाशकत्वाऽभावे वुद्ध्यन्तरेण चाऽसंवेदने कथं = केन प्रकारेण अयं विषयव्यवहारः = घटादिविषयकव्यवहारः स्यात् ? इत्यत्र आशङ्कायां सत्यां पूर्वपक्षी आह- ‘अङ्गे'ति । अप्रतिसङ्क्रमा = अन्येन विपयादिना असङ्कीर्णा = अननुविद्धा, अपरिणामिनीति यावत्, । प्रतिसक्रमो हि द्विविधो भवति - परिणाम-परिणामिभावलक्षणः विपयदेशगमनात्मकश्च । आद्योदाहरणमाहयथा हि गुणाः = सत्त्व-रजस्तमोऽभिधानाः समानाऽवस्थाऽऽपन्नप्रकृतिस्थानीयाः स्वबुद्धिगमनलक्षणे
અહીં એક પ્રશ્ન ઉપસ્થિત થાય કે “જો ચિત્ત સ્વપ્રકાશ્ય ન હોય તો પછી “આ ઘટ છે”, “આ પટ છે ઈત્યાદિ વ્યવહાર કઈ રીતે થઈ શકશે ?’ તો આ પ્રશ્નનો જવાબ આપતા પાતંજલ વિદ્વાનો કહે છે કે
ગાથાર્થ :- ચિતિશક્તિ અંગાંગીભાવ પામવા દ્વારા અપ્રતિસંક્રમવાળી છે. તેથી દ્રષ્ટા અને દશ્યથી ७५२.5 थयेस यित्त साविषय छे. (११/१५)
ટીકાર્થ :- પુરુષ ચિતિશક્તિસ્વરૂપ = ચૈતન્યમાત્ર છે. પરિણામ-પરિણામીભાવ પામવા દ્વારા તે અન્ય પદાર્થથી સંકીર્ણ બનતો નથી. (કારણ કે તે કૂટસ્થ ધ્રુવ અપરિણામી તત્ત્વ છે. પુરુષ કોઈનો પરિણામ નથી. માટે તેનામાં કોઈનો અંગભાવ નથી. તથા પુરુષનો કોઈ પરિણામ પણ નથી. એટલે પુરુષમાં કોઈનો અંગીભાવ = પરિણામીભાવ પણ નથી. અર્થાત જેમાં કોઈની અપેક્ષાઓ અંગગીભાવ = પરિણામપરિણામીભાવ હોય ત્યાં અંગમાં અંગીનું ઉપસંક્રમણ = ગમન હોય છે. જ્યારે પ્રસ્તુતમાં ચિતિશક્તિમાં = પુરુષમાં પરિણામપરિણામીભાવ જ નથી. તેથી અંગાંગીભાવ પામવા વડે તેમાં કોઈનો પ્રતિસંક્રમ થતો નથી. કોઈથી પુરુષ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org