________________
• चिच्छायासङ्क्रमस्य ज्ञानकारणता •
७६७ अत्र स्वसिद्धान्ताऽऽशयं प्रकटयन् पूर्वपक्षी शङ्कतेननु चित्तस्य वृत्तीनां सदा ज्ञाननिबन्धनात् । चिच्छायासंक्रमावेतोरात्मनोऽपरिणामिता ।।१३।।
नन्विति । ननु चित्तस्य वृत्तीनां प्रमाणादिरूपाणां सदा = सर्वकालमेव । ज्ञाननिबन्धनात् = 'परिच्छेदहेतोः चिच्छायासक्रमाद् हेतोः = लिङ्गात् आत्मनोऽपरिणामिताऽनुमीयते । इदमुक्तं भवति-पुरुषस्य चिद्रूपस्य सदैवाऽधिष्ठातृत्वेन सिद्धस्य यदन्तरङ्गं निर्मलं ज्ञेयं सत्त्वं तस्याऽपि सदैव व्यवस्थितत्वात्तद्येनाऽर्थेनोपरक्तं भवति तथाविधस्य दृश्यस्य चिच्छायासंक्रान्तिसद्भावात् सदा ज्ञातृत्वं सिद्धं भवति ।
श्लोकाऽष्टकेन पातञ्जलाः प्रत्यवतिष्ठन्ते- ननु चित्तस्य वृत्तीनां प्रमाणादिरूपाणां शान्त-घोर-मूढस्वरूपाणां सुख-दुःख-मोहात्मिकानां वा सर्वकालमेव परिच्छेदहेतोः = अवबोधकारणात् चिच्छायासङ्घमात् = पुरुपलक्षणायां चितिशक्तौ बुद्धिवृत्त्युपरागात् लिङ्गात् = अपरिणामित्वसाध्यकाऽनुमितिहेतोः सकाशात् यद्वा चित्तवृत्तिषु प्रमाणादिलक्षणासु पुरुषप्रतिविम्वात्मकस्य चिच्छायासक्रमस्य ज्ञानकारणस्य सर्वदा सत्त्वात् आत्मनोऽपरिणामिता अनुमीयते = अनुमानप्रमाणेन साध्यते । प्रकृतेऽनुमानप्रयोगस्त्वेवम् पुरुषोऽपरिणामी, सार्वदिकचिच्छायासक्रमात्, यन्नैवं तन्नैवं यथा घटः । चिच्छायासङ्क्रमस्य सार्वदिकत्वात् सर्वदा सर्वासां चित्तवृत्तीनां पुरुषेण ज्ञातता सिध्यति । ___ एतदेव समर्थयति- चिद्रूपस्य = चिन्मयस्य पुरुषस्य सदैव सर्वासां चित्तवृत्तीनां अधिष्ठातृत्वेन = स्वामित्वेन रूपेण सिद्धस्य ज्ञेयं यद् अन्तरङ्गं = तन्मयीभावेन सन्निहितं अतीन्द्रियं निर्मलं = स्वच्छं सत्त्वं = निर्मलसत्त्वपरिणामलक्षणं चित्तं (राजमार्तण्ड-१/२) उभयमुखाऽऽदर्शस्थानीयं तटस्थं तस्यापि निर्मलसत्त्वस्य सदैव व्यवस्थितत्वात् = पुरुपे तन्मयीभावेनाऽवस्थितत्वात् तत् निर्मलसत्त्वप्रधानमन्तःकरणं इन्द्रियप्रणालिकया येनाऽर्थेन उपरक्तं = यदर्थाऽऽकारोपहितं भवति तथाविधस्य = सत्त्वे स्वाकारसमर्पकस्य दृश्यस्य अर्थस्य चिच्छायासक्रान्तिसद्भावात् = चिच्छक्तौ बुद्धिवृत्तिसमुपरागसत्त्वात् सदा सर्वासां चित्तवृत्तीनां ज्ञातृत्वं पुरुषे सिद्धं भवति। इदमत्र तात्पर्यम्- यथा भूपतिः प्रधानाऽमात्य-सेनापत्यादौ स्वाऽऽज्ञाद्वारा प्रजा अधितिष्ठति तथा
( ૭ દીર્ઘ પૂર્વપક્ષ હ. ગાથાર્થ - ચિત્તની વૃત્તિઓમાં જ્ઞાનનું કારણ બને એવો ચિછાયાસંક્રમરૂપ જ્ઞાપક હેતુ સર્વદા હોવાથી આત્માનું અપરિણામીપણું સિદ્ધ થાય છે. (૧૧/૧૩)
ટીકાર્થ:- ચિત્તની પ્રમાણ-વિપર્યય વગેરે વૃત્તિઓમાં જ્ઞાનનિમિત્તભૂત એવા સર્વકાલીન ચિટૂછાયાસંક્રમાત્મક = પુરુષપ્રતિબિંબસ્વરૂપ જ્ઞાપક હેતુથી (= અનુમિતિજનક લિંગથી) આત્માની અપરિણામિતાનું અનુમાન થાય છે. કહેવાનો આશય એ છે કે ચૈતન્યસ્વરૂપ પુરુષ હંમેશા ચિત્તવૃત્તિઓના અધિષ્ઠાતારૂપે સિદ્ધ છે. તેમ જ પુરુષનું જોય એવું જે અંતરંગ નિર્મલ સત્ત્વ = ચિત્ત પણ હંમેશા હાજર છે. તે કારણે તે નિર્મલ સત્ત્વ જે અર્થથી = વિષયથી ઉપરંજિત થાય છે તેવા પ્રકારના દેશ્ય પદાર્થ સંબંધી ચિતૂછાયાની સંક્રાન્તિ થવાથી પુરુષ સદા જ્ઞાતારૂપે સિદ્ધ થાય છે. १. मुद्रितप्रतौ 'परि...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org