________________
द्वात्रिंशिका - ११/१३
परिणामित्वे त्वात्मनश्चिच्छायासङ्क्रमस्याऽसार्वदिकत्वात् सदा ज्ञातृत्वं न स्यादिति । तदिदमुक्तं- "सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्याऽपरिणामित्वादिति” ( यो. सू. ४-१८) ।। १३ ।। पुरुषः चित्ते स्वप्रतिबिम्बसङ्क्रान्तिद्वाराऽखिलं जगदधितिष्ठिति । अत्र पुरुषोऽधिष्ठाता, प्रतिबिम्बं अधिष्ठानं, चित्तं पुरुपेण साक्षादधिष्ठितं जगच्च परम्परयेति विशेषः । यद्यपि जगत्कर्तृत्वं प्रकृतावेव तथाऽपि सा स्वसङ्क्रान्तपुरुषप्रतिबिम्बमृते न किञ्चिदपि कर्तुं समर्थेति पुरुपे प्रकृतिगतं जगत्कर्तृत्वमुपचर्यते । इदमेव पुरुषस्य जगदधिष्ठातृत्वम् । तदुक्तं साङ्ख्यप्रवचनभाष्ये यथा हि महाराजः स्वयमव्याप्रियमाणोऽपि सैन्येन करणेन योद्धा भवति आज्ञामात्रेण प्रेरकत्वात् तथा कूटस्थोऽपि पुरुषश्चक्षुराद्यखिलकरणैर्दृप्टा वक्ता सङ्कल्पयिता चेत्येवमादिर्भवति, संयोगाख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वाद् अयस्कान्तमणिवत् ← (सां.प्र.भा. २ / २९ - पृष्ठ . ३७५ ) इति । यथा योधैः कृतं युद्धं तत्स्वामिन्युपचर्यते तेषां तदधिष्ठितत्वात् तथेदमपि प्रतिपत्तव्यम् ।
तदुक्तं साङ्ख्यसूत्रे तत्सन्निधानादधिष्ठातृत्वं मणिवत् ← (सां. सू. १ / ९६ ) इति । यथाऽयस्कान्तमणेः सान्निध्यमात्रेण शल्यनिष्कर्षकत्वं न सङ्कल्पादिना तथैवाऽऽदिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्तत्त्वरूपेण परिणमनम् । इदमेव च स्वोपाधिस्रष्टृत्वमिति सांख्यप्रवचनभाष्ये (सां.प्र. भा. १ / ९६ ) विज्ञानभिक्षुः । एतेन सृष्टिरपि व्याख्याता ।
प्रकृतमुच्यते - सदैव पुरुषसन्निहिते प्रकृतिविकारभूते जडे निर्मलसत्त्वप्रधानेऽन्तःकरणाऽपराभिधाने चित्ते भयमुखदर्पणस्थानीये पुरुषप्रतिविम्बमेकतः सङ्क्रामति अन्यत्र पार्श्वे च घटादि -सुखादिवाह्याभ्यन्तरविषयप्रतिविम्बं सङ्क्रामति । यदर्थभानमिष्टं तदर्थाऽऽकारवृत्तीनां तत्र व्यापारत्वेऽपि चित्तगतासु घटादि- सुखाद्याकारासु वृत्तिपु पुरुषप्रतिविम्वसङ्क्रान्तौ सत्यामेव तासां चित्तवृत्तीनां ज्ञानरूपता भवति । ततश्च चित्तस्य घटादि - सुखादिभानं भवति । अत एव चित्तवृत्तिनिष्ठचिच्छायासङ्क्रमस्य ज्ञाननिवन्धत्वमुपपद्यते । दर्पणवन्निर्मलतया पुरुपेऽपि घटादि-सुखाद्याकारचित्तवृत्तिसङ्क्रान्तौ सत्यां पुरुषस्य घटादिसुखादिभानं भवति । इत्थं सदा स्वसन्निहितचित्तवृत्तिज्ञातृत्वमपरिणामिनि पुरुषे सिध्यति निराबाधम् । एतेन चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः । सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।। ← (ते. बिं. ४/५३) इति तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम् ।
आत्मनः परिणामित्वे तु चिच्छायासङ्क्रमस्य = पुरुपप्रतिविम्बात्मकस्य उपरागस्य चित्तवृत्तिगतस्य असार्वदिकत्वात् = कादाचित्कत्वात् सदा सकलचित्तवृत्तीनां ज्ञातृत्वं न स्यात् । ततश्च विद्यमानाऽपि चित्तवृत्तिर्न ज्ञायेत पुरुषेण । तदा च पुरुषस्य “अहं सुखी न वा ? दुःखी न वा ? इच्छामि न वा ?” इत्यादिसंशयः स्यात् । एतादृशश्च संशयो न दृश्यते । अतो वृत्तेरज्ञातसत्ता नास्ति । ततश्च पुरुषोऽपरिणामीत्यायातमिति (यो.सू. ४/१८ वा.) योगवार्तिके विज्ञानभिक्षुः ।
७६८
पातञ्जलमतेऽर्थभानप्रक्रियाप्रकाशनम्
•
=
प्रकृते योगसूत्रसंवादमाह - 'सदे 'ति । एतद्व्याख्या राजमार्तण्डे भोजेन या एताश्चित्तस्य प्रमाणજો આત્મા પરિણામી હોય તો આત્મામાં ચિછાયાસંક્રમ સાર્વદિક નહિ પણ કાદાચિત્ક બની જાય. તો પછી પુરુષ સદા જ્ઞાતા બની ન શકે. પરંતુ યોગસૂત્રમાં તો જણાવેલ છે કે → ‘ચિત્તવૃત્તિનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org