________________
७६५
किं चात्मनोऽव्याप्रियमाणस्य भोगसम्पादनार्थमेव प्रकृतिः प्रवर्तत इति भवतामभ्युपगमः । तदुक्तं- “ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्य: ( यो . सू. २ - २० ) । तदर्थ एव दृश्यस्यात्मेति” (यो.सू.२-२१) । जडायाश्च तस्याः पुमर्थस्य कर्तव्यत्वमयुक्तिमत् । “पुरुषार्थो मया कर्तव्य" पुरुषान् प्रत्यविशेषत्वस्य न्याय्यत्वात्, अन्यथा सर्वथैकत्वव्याहतेरिति भावः 1
प्रकृतदोषभयान्नव्यसाङ्ख्यैः नूतनपातञ्जलैश्च प्रकृतेर्नानात्वकक्षीकाराद्दोषान्तरमावेदयति- 'किञ्चे 'ति । आत्मनः = पुरुषस्य अव्याप्रियमाणस्य = सर्वथा निष्क्रियस्य भोगसम्पादनार्थमेव = सुख-दुःखान्यतराऽनुभवप्रापणकृते एव प्रकृतिः = प्रधानं प्रवर्तते व्याप्रियत इति भवतां पातञ्जलानां अभ्युपगमः
=
सिद्धान्तः । प्रकृते योगसूत्रसंवादमाह - 'द्रष्टे'ति, ' तदर्थ' इति च । एतद्व्याख्या राजमार्तण्डे → द्रष्टा = पुरुष: दृशिमात्रः = चेतनामात्रः । मात्रग्रहणं धर्म-धर्मिनिरासार्थम् । केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति । स शुद्धोऽपि परिणामित्वाद्यभावेन सुप्रतिष्ठोऽपि प्रत्ययाऽनुपश्यः । प्रत्ययाः =
विषयोपरक्तानि ज्ञानानि । तानि अनु = अव्यवधानेन प्रतिसङ्क्रमाद्यभावेन पश्यति । एतदुक्तं भवति- जातविपयोपरागायामेव बुद्धौ सन्निधिमात्रेणैव पुरुषस्य द्रष्टृत्वमिति । दृश्यस्य प्रागुक्तलक्षणस्याऽऽत्मा यत्स्वरूपं स तदर्थः तस्य पुरुषस्य भोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेण प्रयोजनम् । न हि प्रधानं प्रवर्तमानमात्मनः किञ्चित्प्रयोजनमपेक्ष्य प्रवर्तते किन्तु पुरुषस्य भोक्तृत्वं सम्पादयितुम् ← ( यो. सू. २- २०/२१ रा.मा.) इत्येवं वर्तते ।
=
•
प्रकृतौ पुरुषार्थकर्तव्यत्वाऽयोगः
=
=
•
=
=
ईशप्रेरणाप्रेरिता प्रकृतिः पुरुषभोगादिकृते जगद्रूपतया परिणमतीत्याशयः पातञ्जलानाम् । इदमेव मनसिकृत्य भावागणेशोऽपि तस्य द्रष्टुः अर्थः = प्रयोजनं भोगाऽपवर्गावेव प्रयोजनं यस्य स तदर्थः । तथा च द्रष्टुर्भोगापवर्गप्रयोजनकमेव दृश्यस्यात्मा स्वरूपं कार्यकारणात्मकं गुणत्रयं न स्वार्थम् ← (यो.सू.२/२१ भा.ग.) इत्याचष्टे । परार्था बुद्धिः संहत्यकारित्वात् ← (यो.सू.भा.२/२०) इति योगसूत्रभाष्ये व्यासो व्याचष्टे । 'बुद्धिः खलु क्लेश-कर्म-वासनादिभिर्विपयेन्द्रियादिभिश्च संहत्य पुरुषार्थमभिनिर्वर्तयन्ती परार्था' (त.वै. २ / २०) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः ।
अत्राऽऽपादयितुं ग्रन्थकार आह- जडायाश्च तस्याः = प्रकृतेः पुमर्थस्य पुरुषार्थस्य कर्तव्यत्वं= करणीयत्वं पुरुषप्रयोजनकर्तव्यत्वं = पुरुषभोगसम्पादकत्वं पुरुपभोक्तृत्वसम्पादनमिति यावत् अयुक्ति
અતિપ્રસિદ્ધ છે.
=
મૈં પ્રકૃતિગત પુરુષાર્થર્તવ્યતા અસંગત હૈં
किं चा. । वणी, पातंभ्स योगहर्शनारना मतानुसार, आत्मा तो सर्वथा निष्क्रिय छे, सर्वहा વ્યાપારશૂન્ય છે, સર્વત્ર પ્રવૃત્તિરહિત છે, પ્રયત્નવિહીન છે. તેથી તે સુખ-દુઃખના અનુભવ માટે પ્રવર્તતો નથી. પરંતુ અક્રિય એવા આત્માને સુખાદિનો અનુભવ કરાવવા માટે પ્રકૃતિ = પ્રધાન તત્ત્વ પ્રવર્તે છે. યોગસૂત્રમાં જણાવેલ છે કે ‘દષ્ટા પુરુષ તો ચૈતન્યમાત્ર છે. તે શુદ્ધ હોવા છતાં પ્રત્યય ઉપરાંગવાળી ચિત્તવૃત્તિ (અનુ =) થયા પછી જ તે પુરુષ જુએ છે.' (અર્થાત્ ઘટાદિ બાહ્ય વિષયો તેમજ સુખાદિ આંતર પદાર્થનો પ્રકાશ કરે છે. મતલબ કે વાસ્તવમાં તો ઘટ-પટાદિ આકારસ્વરૂપ
વિષયના
Jain Education International
For Private & Personal Use Only
1=
www.jainelibrary.org