________________
वृत्तिनिरोधेऽभ्यासस्योपयोगः
द्वात्रिंशिका - ११/१०
=
'निरोध' इति । 'निरोधे = चित्तवृत्तिनिरोधे अभ्यासः पुनर्दृढां = अतिशयितां स्थिरतां `अवस्थितिलक्षणां जनयन् परमानन्दनिष्यन्दस्य = अतिशयितसुखार्णवनिर्झरभूतस्य शान्त श्रोतसः = शान्तरसप्रवाहस्य प्रदर्शनात् (= परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् ) उपयुज्यते इत्यन्वयः, तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनाऽयोगात् ।
=
→ चित्तमेव हि संसारः तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ।। ← (शा.१/३,मैत्रा.६/३४) इति शाट्यायनीयोपनिषद् -मैत्रायण्युपनिषदोर्वचनात् चित्तशुद्धिकृते चित्तवृत्तिनिरोधं प्रति पराऽपरवैराग्यस्योपकारकत्वमुक्त्वाऽधुनाऽभ्यासस्य तत्रोपयोगमाह - 'निरोध' इति । चित्तवृत्तिनिरोधे = अन्तःकरणनिष्ठसत्त्वरजस्तमोमयवृत्तिप्रतिरोधं प्रति अभ्यासः = विवेकदर्शनाऽभ्यासो हि अतिशयितां व्युत्थानसंस्कारानभिभूतां अवस्थितिलक्षणां स्थिरतां जनयन् उत्पादयन् अतिशयितसुखार्णवनिर्झरभूतस्य = निरतिशयसुखसागरच्युताऽल्पप्रवाहस्थानीयस्य शान्तरसप्रवाहस्य प्रदर्शनात् = प्रकर्षेण द्योतनात् 'उपयुज्यते' इति पूर्वतन श्लोकगतपदस्यात्र अन्वयः = सम्बन्धः कार्यः । तत्रैव = परमानन्दनिष्यन्दसदृशशान्तरसप्रवाह एव सुखेन लीनस्य = सुखमग्नस्य मनसः = चेतसः अन्यत्र = तत इतरत्र गमनाऽयोगात्, स्वहेतावेव निरुद्धवृत्तिकं चित्तं विलीयत इति कृत्वा । तदुक्तं मैत्रायण्युपनिषदि मैत्रेय्युपनिषदि च यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यते ।। ← (मैत्रा. ६/३४, मैत्रे. १/४/३ ) इति । चित्तनाशाच्चेन्द्रियविजयोऽपि परेपामभिमतः । तदुक्तं वाल्मीकिरामायणे चित्तनाशाद् विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि । क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा ।। ← ( वा. रा. ६४ /७३) इत्यादिकं यथातन्त्रमनुसन्धेयम् ।
इत्थञ्च चित्तवृत्तिनिरोधे अभ्यास- वैराग्ययोर्हेतुताऽनाविला । तदुक्तं भगवद्गीतायां असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ।। ← (भ.गी. ६ / ३५) इति । योगसूत्रभाष्ये व्यासेनापि वैराग्येण विषयश्रोतः खिलीक्रियते, विवेकदर्शनाऽभ्यासेन विवेकश्रोत उद्घाट्यते इत्युभयाऽधीनः चित्तवृत्तिनिरोधः ← (यो.सू. १/१२ भा. पृ.४६ ) इत्युक्तम् । → ग्रहीतृ - ग्रहण - ग्राह्यरूपषड्विंशतितत्त्वाऽभ्यासो वशीकाराख्यमपरं वैराग्यञ्च सम्प्रज्ञातयोगसाधनम् । तत्र च वैराग्यं साक्षादेव वृत्तिनिरोधकारणम् । अभ्यासस्तु समाधिरूपाङ्गद्वारा ← (यो.सा.सं. २/पृ.३०) इति तु योगसारसङ्ग्रहे विज्ञानभिक्षुः ।
प्रकृते
वैराग्याद् बुद्धिविज्ञानाऽऽविर्भावो भवति । अभ्यासात् तज्ज्ञानं क्रमेण परिपक्वं भवति । परिपक्वविज्ञानात् जीवन्मुक्तो भवति ← (त्रि.पा.म. ५ / ६ ) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनमपि સ્વરૂપ શાંતપ્રવાહ દેખાડવાથી ઉપકારી થાય છે. (૧૧/૧૦)
ટીકાર્થ :- વળી, ચિત્તવૃત્તિનિરોધવિષયક અભ્યાસ અત્યંત બળવાન એવી સ્થિરતાને = અવસ્થિતિને ઉત્પન્ન કરતો અત્યંત સુખસાગરના ઝરણા સમાન શાંતરસના પ્રવાહને પ્રકૃષ્ટ રીતે દેખાડવાથી ચિત્તવૃત્તિનિરોધમાં ઉપકારી થાય છે. કારણ કે શાંતરસપ્રવાહમાં સુખપૂર્વક મગ્ન થયેલું મન બીજે ક્યાંય
७६०
•
=
..
=
१. मुद्रितप्रतौ 'निरोधचि..' इत्यशुद्धः पाठः । २ हस्तादर्शे 'अवस्थित.' इति पाठः । ३ मुद्रितप्रतौ ' श्रान्त' इति अशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org