________________
७५८ • परवैराग्यप्रतिपादनम् •
द्वात्रिंशिका-११/९ तृष्णाऽभावलक्षणं यथार्थाऽभिधानं परं = प्रकृष्टं तत् = वैराग्यम् । तदाह- “तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमिति (यो.सू.१-१६)"। ___ प्रथमं हि विषयविषयं, द्वितीयं च गुणविषयमिति भेदः । बहिः = बाह्यविषये वैमुख्यं भावलक्षणं = अलम्बुद्धिरूपं यथार्थाऽभिधानं प्रकृष्टं = श्रेष्ठं वैराग्यम् → 'पुरुषः शुद्धोऽनन्तः तद्विपरीता गुणा' इति विवेकख्यातावपि गुणात्मिकायां सर्वथा विरक्तः + (यो.सू. १/१६ त.वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति योगसूत्रभाष्ये व्यासः ।। __प्रकृते योगसूत्रसंवादमाह- 'तत्परमि'ति। एतद्व्याख्या मणिप्रभायां → पूर्ववैराग्यमुत्तरवैराग्ये हेतुः । तथाहि- वक्ष्यमाणयोगाङ्गाऽनुष्ठानादनतिशुद्धचित्तस्य विषयेषु दोषदर्शनाद्वशीकारसंज्ञकवैराग्ये सति गुर्वागमाऽवगतस्य पुरुषस्य या ख्यातिस्तदभ्यासाद् धर्ममेघाख्यध्यानरूपान्नितान्तविध्वस्ततमोरजोमलं चित्तं सत्त्वमात्रशेषमतिप्रसन्नं भवति । सोऽयमतिशुद्धचित्तधर्मः प्रसादो धर्ममेघस्योत्तरविधिः तस्यैव फलीभूतः, परं गुणेभ्यो वैतृष्ण्यं वैराग्यमुच्यते यं मुक्तिहेतुसाक्षात्कारं वदन्ति मोक्षविदः । यस्योदये प्रक्षीणसर्वक्लेशो विधूताऽशेषकर्माऽऽशयः कृतविवेकख्यातावप्युपेक्षकः ‘कृतं कृत्यं, प्राप्तं प्रापणीयमिति मन्यते योगी। यदनन्तरमेव चित्तमसम्प्रज्ञातसंस्कारमात्रशेपं भवति तत्परं वैराग्यम् । अपरन्तु वैराग्यं वितमस्कस्य रजोलेशमलस्य चित्तस्य धर्मो यतः प्रकृतौ लीना ऐश्वर्यमनुभवन्ति, यथोक्तं 'वैराग्यात् प्रकृतिलयः' - (यो.सू.१/१६ म.प्र.) इत्येवं वर्तते । _ 'सम्यग्ज्ञानेनाऽविद्यानिवृत्तौ च तेनैव दोपदर्शनेन तत्राप्युपेक्षारूपं वैराग्यमिति भावः, यदुत्तरं निर्विषयज्ञानप्रसादमात्ररूपोऽसम्प्रज्ञातः समाधिरिति तात्पर्यम् । अस्मिन्नेव वैराग्ये सति ऐहिककैवल्यनियम' (यो.सू.१/१६ ना.भ.) इति नागोजीभट्टः । 'सम्प्रज्ञातसमाध्यभ्यासपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः = साक्षात्कारः, तस्मादशेपगुणत्रयव्यवहारे वैतृष्ण्यं यत् तत् परं वैराग्यमित्यर्थः' (यो. सू.१/१६ यो.सु.) इति योगसुधाकरे सदाशिवेन्द्रेण प्रोक्तम् । ___ इत्थञ्च स्वभूमिकोचितकर्मकरणे प्राप्तविवेको न संसारे पुनरावर्तते, हेयहानाद्, आदेयोपादानात् गुणवैतृण्याच्च । इदमेवाऽभिप्रेत्य साङ्ख्यसूत्रे → तत्र प्राप्तविवेकस्याऽनावृत्तिश्रुतिः - (सां.सू. १/ ८३) → विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् - (सां.सू.४/२३) इत्युक्तम् । प्रथमं = वशीकारसंज्ञकं हि अपरवैराग्यं विषयविषयं = वाह्येन्द्रियार्थगोचरं, द्वितीयं च परवैराग्यं गुणविषयं = रजस्तमःप्रभृतिगुणगोचरं इति अनयोः भेदः ।
ननु पराऽपरवैराग्यमपवर्गमार्गे कथमुपयुज्यते ? इत्याशङ्कायामाह- बाह्यविषये = वाह्येन्द्रियविषयતેવા પુરુષને પ્રકૃતિના ગુણો ઉપરની = સત્ત્વ-રજસ્તમોગુણાત્મક પ્રકૃતિ ઉપરની તૃષ્ણા રવાના થવાથી ગુણવૈતૃણ્ય નામનો યથાર્થ શ્રેષ્ઠ વૈરાગ્ય ઉત્પન્ન થાય છે. યોગસૂત્રમાં જણાવેલ છે કે “પુરુષને વિવેકખ્યાતિ ઉત્પન્ન થવાથી તેને ગુણની તૃષ્ણા રવાના થાય તે પર = શ્રેષ્ઠ વૈરાગ્ય છે.” પ્રથમ અપર વૈરાગ્ય પાંચ ઈન્દ્રિયના વિષયો સંબંધી હતો, જ્યારે આ બીજી પરવૈરાગ્ય ગુણવિષયક
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org