________________
• आनुश्रविकपदव्युत्पत्तिप्रदर्शनम् •
७५७ तदाह- “दृष्टानुश्रविकविषयवितृष्ण्यस्य' वशीकारसंज्ञा वैराग्यमिति” (यो.सू.१-१५) ।।८।। तत्परं जातमुख्यातेर्गुणवैतृष्ण्यसंज्ञकम् । बहिर्वैमुख्यमुत्पाद्य वैराग्यमुपयुज्यते ॥९॥
'तदिति । जातपुंख्याते:२ = उत्पन्नगुणपुरुषविवेकख्यातेः । गुणवैतृष्ण्यसंज्ञकं = गुणेष्वपि ऽभावरूपं = इन्द्रियादिपारवश्यवैकल्यात्मकम् । तदिदमपरं वैराग्यं अष्टाङ्गयोगप्रवर्तकत्वेन वक्ष्यमाणसम्प्रज्ञातसमाधेरन्तरङ्गम्, असम्प्रज्ञातस्य तु बहिरङ्गमिति योगसुधाकरे व्यक्तम् ।
ग्रन्थकृदत्र योगसूत्रसंवादमाह- 'दृष्टाऽऽनुश्रविके'त्यादि । एतद्व्याख्या राजमार्तण्डे → द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्टः = इहैवोपलभ्यमानः शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते गुरुमुखादित्यनुश्रवः = वेदः, तत्समधिगतः = आनुश्रविकः । तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्द्धस्य या वशीकारसंज्ञा ‘ममैते वश्या, नाहमेतेषां वश्य' इति योऽयं विमर्शस्तद्वैराग्य-मुच्यते - (यो.सू.१/१५ रा.मा.) इत्येवं वर्तते । → “स्त्रियोऽन्नपानमित्यादिपु दृष्टेपु, आनुश्रविकेपु = स्वर्गादिदिव्याऽदिव्यविषयेषु विनाश-परिताप-सातिशयत्वाऽसूयादिदोषाणामभ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिर्वशीकारसंज्ञा वैराग्यमि"ति (म.प्र.१/१५) मणिप्रभाकृत् ।
योगसूत्रभाष्ये व्यासस्तु → स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविपये वितृष्णस्य स्वर्ग-वैदेह्य-प्रकृतिलयत्वप्राप्तौ आनुश्रविकविषये वितृष्णस्य दिव्याऽदिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् - (यो.सू.१/१५ भा.) इत्याचष्टे । अत्रार्थे→ ‘दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः' - इति (सां.का.२) साङ्ख्यकारिकार्थोऽप्यनुसन्धेयः । यद्वा गुरुमुखादनुश्रूयत इति अनुश्रवः = वेदः, तद्विहितो यागादिः आनुश्रविकं कर्म उच्यते । ततोऽप्यपवर्गाऽसिद्धेः तत्राऽपि वैतृष्ण्यमवसेयम् । अनेनैकान्तकर्मकाण्डबहिर्भावः सूचितः । तदुक्तं साङ्ख्यसूत्रे → नाऽऽनुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽऽवृत्तियोगादपुरुषार्थत्वम् - (सां.सू. १/८२) इति ।।११/८।।
अपरवैराग्यस्य परवैराग्यं प्रति कारणत्वात्प्रथममपरवैराग्यमभिधाय साम्प्रतं परवैराग्यमाह- 'तदिति । उत्पन्नगुण-पुरुषविवेकख्यातेः = सञ्जातसत्त्व-पुरुषाऽन्यताबोधस्य गुणेष्वपि व्यक्ताऽव्यक्तधर्मकेषु तृष्णाऽપણ ભોજન, પાણી વગેરે ઈન્દ્રિયવિષયોનું સેવન કરે જ છે. પણ તે સેવન એવા પ્રકારનું હોય છે કે તેના પરિણામમાં વિષયોથી કાયમી છુટકારો મળે છે. આમ ફળની અપેક્ષાએ = પરિણામની અપેક્ષાએ વિષયોની ગુલામી ન હોવાથી ઉપરોક્ત વિચારવિમર્શને વૈરાગ્ય કહી શકાય છે. તેથી યોગસૂત્રમાં કહેલ છે કે “દષ્ટ અને આનુશ્રવિક વિષયોમાં તૃષ્ણારહિત માણસને વશીકાર નામનો વૈરાગ્ય હોય છે. (૧૧/૮)
હવે પર વૈરાગ્યનું નિરૂપણ કરતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ - જેને પુરુષ અને પ્રકૃતિના = ગુણના ભેદનો બોધ ઉત્પન્ન થયો હોય તેવા પુરુષને પ્રકૃતિના ગુણો ઉપરની આસક્તિ ચાલી જવાથી ગુણવૈતૃણ્ય નામનો પર વૈરાગ્ય ઉત્પન્ન થાય છે. બહિર્મુખતાનો ત્યાગ ઉત્પન્ન કરાવવા દ્વારા આ વૈરાગ્ય ઉપયોગી બને છે. (૧૧)
ટીકાર્થ - જેને પુરુષ અને ગુણના = પ્રકૃતિના વિવેકનો = ભેદનો ખ્યાલ આવી ગયેલ છે
१. मुद्रितप्रतौ 'वैतृष्ण्यस्य' इति पाठः । २. हस्तादर्श '...ख्यतेः' इति त्रुटितः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org