________________
७५४
• नानातन्त्रानुसारेण अभ्यासव्याख्या • द्वात्रिंशिका-११/७ वैराग्याभ्यां तन्निरोध इति" (यो.सू. १-१२) । तत्राभ्यासः स्थितौ = वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठे परिणामे श्रमः = यत्नः पुनः पुनस्तथात्वेन चेतसि 'निवेशनरूपः । तदाह- "तत्र स्थितौ यत्नोऽभ्यास इति" (यो.सू. १-१३)। स च चिरं = चिरकालं नैरन्तर्येण आदरेण चाश्रितो (=नैरन्तर्यादराश्रितः) दृढभूमिः = स्थिरो भवति । तदाह- ‘स तु दीर्घकाल-नैरन्तर्यसत्काराऽऽसेवितो दृढभूमि'रिति (यो.सू.१-१४) ।।७।। हि लय-विक्षेपस्वभावस्य चित्तस्य वैराग्याद् विक्षेपभङ्गे निद्रा स्यात् । तस्माद् अभ्यास-वैराग्ये लयविक्षेपनिवृत्तिरूपप्रयोजनभेदेन निरोधे कार्ये समुच्चीयेते' (म.प्र.१/१२) इत्येवं मणिप्रभायां रामानन्दो व्याचष्टे । → 'वैराग्यादभ्यासाच्च' - (सा.सू.३/३६) इति साङ्ख्यसूत्रमप्यत्राऽनुसन्धेयम् ।
ननु जपादावावृत्तिलक्षणोऽभ्यासो विधातुं पार्यते । किन्त्वत्र निरोधे को नामाभ्यासः ? इत्याशङ्कायामाह- तत्र = तयोर्मध्ये अभ्यासः = अभ्यासपदार्थस्तु वृत्तिरहितस्य = रजस्तमोवृत्तिशून्यस्य चित्तस्य = अन्तःकरणस्य स्वरूपनिष्ठे परिणामे पुनः पुनः तथात्वेन चेतसि निवेशनरूपो यत्नः = उत्साहलक्षणः प्रवृत्तिलक्षणो वा । अनादिकालीनव्युत्थानसंस्कारवशाच्चित्ताऽन्तर्गता वृत्तयः बहि: निःसरन्ति । बहिर्निगच्छन्तीनां तासां पुनः चेतसि विलीनीकरणलक्षणो यत्नोऽभ्यास इति भावः ।
योगसूत्रसंवादमाह- 'तत्रे'ति । एतद्व्याख्या राजमार्तण्डे → वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामः = स्थितिः, तस्यां यत्नः = उत्साहः = पुनः पुनः तत्त्वेन चेतसि निवेशनमभ्यास उच्यते
(रा.मा. १/१३) इत्येवं वर्तते । अत्र तत्त्ववैशारद्यां → स्थिताविति निमित्तसप्तमी व्याख्याता, यथा ‘चर्मणि द्विपिनं हन्ति' - (त.वै.१/१३) इति वाचस्पतिमिश्र आह । 'राजस-तामसवृत्तिरहितस्य सात्त्विकमात्रवृत्त्येकाग्रता = स्थितिः तत्र = तन्निमित्तं तत्सम्पादनेच्छया तत्साधनविषयानुष्ठाने या यत्नधारा सोऽभ्यास' (ना.भा.१/१३) इति नागोजीभट्टो व्याचष्टे ।
योगसूत्रभाष्ये व्यासस्तु → चित्तस्याऽवृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नः = वीर्य = उत्साहः । तत्संपिपादयिषया तत्साधनानुष्ठानं = अभ्यासः - (यो.भा.१/१३) इत्याचष्टे । अभ्यासस्यैव विशेपमाह- ‘स चेति । चिरकालं = संवत्सरैर्जन्मभिर्वाऽनेकैः दीर्घकालं, यदि चिरकालमासेव्यमानोऽपि विच्छिद्य विच्छिद्याऽऽसेव्येत तर्जुत्पद्यमानाः योगसंस्काराः समनन्तरभाविविच्छेदकालीनै
युत्थानसंस्कारैरभिभूयेरन् । अत आह- नैरन्तर्येण। इत्थमप्यनादरेण तदाश्रयणे लय-विक्षेप-कषायादयः प्रसज्येरन् । अत एवाह- आदरेण = तपो-ब्रह्मचर्य-विद्या-श्रद्धारूपसत्कारेण चाश्रितः स्थिरो भवति = दृढसंस्कारः सः व्युत्थानसंस्कारैर्नाभिभूयते किन्तु स्थितिसमर्थो भवतीत्यर्थः । अत्रैव योगसूत्रसंवादमाहવૃત્તિરહિત ચિત્તનો પોતાના સ્વરૂપમાં રહેવા સ્વરૂપ જે પરિણામ હોય તેને વિશે વારંવાર તે સ્વરૂપે મનમાં તે પરિણામને સ્થાપવારૂપ પ્રયત્ન કરવો. યોગસૂત્રમાં કહેલ છે કે કે “તેમાં અભ્યાસ = ચિત્તસ્થિતિ માટેનો પ્રયત્ન.' આ અભ્યાસનો લાંબા સમય સુધી, નિરંતર આદરસહિત આશ્રય કરવામાં આવે તો તે અભ્યાસ સ્થિર થાય છે. યોગસૂત્રકારે જ જણાવેલ છે કે – “તે અભ્યાસ જો દીર્ઘ કાળ સુધી निरंतर सा२-मारथी ४२वा भावे तो दृढभूमि = स्थि२ थाय छे.' - (११/७) १. हस्तादर्श 'निवेशेन...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org