________________
• प्रमाणस्वरूपप्रकाशनम्
·
आसां क्रमेण लक्षणमाह
=
मानं ज्ञानं यथार्थं स्यादतस्मिंस्तन्मतिर्भ्रमः । पुंसश्चैतन्यमित्यादौ विकल्पोऽवस्तुशाब्दधीः ।।४।। मानमिति । मानं यथार्थं तद्वति तदवगाहि ज्ञानं स्यात् । तदाह - "अविसंवादि ज्ञानं प्रमाणमिति” (रा.मा. १ / ७) । भ्रमोऽतस्मिन् = तदभाववति तन्मतिः, यदाह- “विपर्ययो देवहूतिसंवादे तु संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ।। ← (क.दे.सं. २/ ३० ) इत्येवं पञ्च बुद्धिवृत्तयो दर्शिता इत्यवधेयम् ।।११ / ३।।
आसां वृत्तीनां क्रमेण उद्देशक्रममवलम्ब्य लक्षणमाह- 'मानमिति । तदाह भोजदेवः राजमार्तण्डे 'अविसंवादि ज्ञानं प्रमाणमिति । तत्त्ववैशारद्यां पातञ्जलयोगसूत्रभाष्यटीकायां वाचस्पतिमिश्रस्तु 'अनधिगततत्त्वबोधः पौरुपेयो व्यवहारहेतुः प्रमा, तत्करणं = प्रमाणम्' ← (यो.सू. १/७ त.वै. पृ. २९) इत्याह । योगसुधाकरे च वृत्तावज्ञातार्थाऽवगाही चितिशक्तेः प्रतिविम्वः प्रमा, तत्करणं वृत्तिः प्रमाणम् ← (यो.सू.१/७ यो. सु. पृ. ११ ) इत्युक्तम् ।
भ्रमः = भ्रमपदप्रतिपाद्यः तदभाववति = तच्छून्ये तन्मतिः तत्प्रकारकधीः । अतस्मिंस्तदेवेति विपर्ययः ← (प्र.मी.१/७ ) इति प्रमाणमीमांसायां श्रीहेमचन्द्रसूरयः । अतस्मिंस्तद्ग्रहो भ्रान्तिः ← ( प्र . समु. ) इति प्रमाणसमुच्चये दिङ्नागः । ग्रन्थकृदत्र योगसूत्रसंवादमाह - 'विपर्यय' इति । प्रकृतसूत्रं राजमार्तण्डे “अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः, यथा शुक्तिकायां रजतज्ञानम् । अतद्रूपप्रतिष्ठमिति तस्यार्थस्य यद्रूपं तस्मिन् रूपे न प्रतितिष्ठति, तस्याऽर्थस्य यत् पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत् । संशयोऽपि अतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानं यथा स्थाणुर्वा पुरुषो वा ?” ( रा.मा. १/८) इत्येवं विवृतम् । 'मिथ्ये 'त्यस्य विवरणं अतद्रूपप्रतिष्ठमिति भासमानरूपाऽभाववद्विशेप्यकमित्यर्थः, यद्वाऽतद्रूपप्रतिष्ठमित्यस्य बुद्धिविपयाऽऽकारसमानाऽऽकारविपयप्रतिष्ठं नेत्यर्थः, भ्रमस्थले बुद्धिवृत्त्याकारस्यैव विपये आरोप इति सिद्धान्तात् ← ( ना.वृ. १ / ८) इति नागोजीभट्टः ।
=
७४७
=
अन्नपूर्णोपनिषदि
भ्रमः पञ्चविधो भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः 11 आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकम् । शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः ।।
આ પાંચ વૃત્તિઓના ક્રમસર લક્ષણ બતાવે છે.
ગાથાર્થ :- માન એટલે યથાર્થ જ્ઞાન. તેવા પ્રકારે જે પદાર્થ ન હોય તેમાં તેવા પ્રકારે બુદ્ધિ થવી તે ભ્રમ કહેવાય. ‘પુરુષનું ચૈતન્ય' ઈત્યાદિ સ્થળે અવસ્તુવિષયક જે શાબ્દબોધ થાય તે વિકલ્પ કહેવાય.(૧૧/૪)
ટીકાર્થ :- (૧) અમુક ચોક્કસ પ્રકારના ગુણધર્મથી યુક્ત એવા પદાર્થમાં તે ગુણધર્મ રૂપે તે પદાર્થનું જ્ઞાન થવું તે યથાર્થ જ્ઞાન = માન = પ્રમાણ કહેવાય. પાતંજલ યોગસૂત્રની રાજમાર્તંડ ટીકામાં જણાવેલ છે કે ‘અવિસંવાદી જ્ઞાન પ્રમાણ છે.' તથા જે ગુણધર્મ જે પદાર્થમાં ન રહ્યો હોય તે પદાર્થનો તે ગુણધર્મવિશિષ્ટરૂપે બોધ થવો તે ભ્રમ કહેવાય. પાતંજલ યોગસૂત્રમાં જણાવેલ છે કે ‘ચોક્કસગુણધર્મશૂન્યમાં તે ગુણધર્મયુક્તરૂપે મિથ્યાજ્ઞાન થાય તે વિપર્યય = વિપર્યાસ = भ्रम हेवाय. 'आा हुई छेडे माणस?"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org