SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ • चित्तप्रलयस्य मुक्तित्वाऽऽवेदनम् द्वात्रिंशिका - ११/३ तस्य वृत्तिसमुदायलक्षणस्य अवयविनोऽवयवभूताः पञ्चतय्यो वृत्तयः प्रकीर्तिताः । तदुक्तं - “वृत्तयः पञ्चतय्यः 'क्लिष्टाक्लिष्टाः " ( यो. सू. १-५ सां. सू. २। ३३) । क्लिष्टाः = क्लेशाक्रान्त तद्विपरीता अपि तावत्य एव । ता एवोद्दिशति - मानं = प्रमाणं, भ्रमो विकल्पः (च), निद्रा च स्मृतिरेव च । तदाह- “प्रमाण े - विपर्यय-विकल्प-निद्रा-स्मृतयः” (यो.सू.१-६) ।।३।। विकारिणि सति पुरुपो विकारीव प्रतिभाति तत् चत् । 1 ७४६ • इत्थं पादपट्केन वृत्तिनिरोधकालेऽविकारिताऽऽ लिङ्गितं वृत्तिकाले च विकारितासमेतं चित्तं निरूप्य साम्प्रतं वृत्तिं व्युत्पादयति - तस्य वृत्तिसमुदायलक्षणस्य चित्तस्य अवयविनः = अवयवित्वेनाभिमतस्य अवयवभूताः पञ्चतय्य इति, अत्रावयवार्थे तयप् प्रत्ययः पञ्च अवयवा यासां ताः पञ्चतय्यः वृत्तयः चित्तपरिणामविशेषाः । वृत्तिशब्दः वृत्तिसामान्यपरः चैत्र-मैत्रादिचित्तभेदेन वृत्तिसामान्यानां बहुत्वाद् वृत्तय इति बहुवचनम् । योगसूत्र - साङ्ख्यसूत्रयोः संवादमाह - 'वृत्तय' इत्यादि । क्लेशाऽऽक्रान्ताः = रागाद्याक्रान्ताः । रागद्वेषादिक्लेशानां हेतवः क्लिष्टा बन्धफलाः । सर्वो हि जन्तुः प्रमाणादिवृत्तिभिर्ज्ञातंप्वर्थेषु रागादिना कर्म कृत्वा सुखादिना बध्यते । अक्लिष्टाः क्लेशनाशिन्यो मुक्तिफलाः सत्त्वपुरुपाऽन्यतागोचराः । ताः खल्वभ्यास - वैराग्याभ्यां क्लिष्टवृत्तिप्रवाहमध्ये जायमानाः स्वजन्याऽक्लिष्टसंस्कारैः पुनःपुनरभ्यासेन प्रवृद्धैः क्लिष्टसंस्कारनिरोधेन क्लिष्टवृत्तिप्रवाहं निरुध्य परवैराग्येण स्वयं निरुध्यन्तं । ततः संस्कारशेषस्य चित्तस्य प्रलयो मुक्तिर्भवतीति ( म.प्र. १ / ५) मणिप्रभाकृद् व्याचष्टे । क्लिष्टाः तामस्योऽक्लिष्टाः सात्त्विक्यो राजस्यश्च । क्लिष्टाऽक्लिष्टमिश्रवृत्तेरंशाभ्यां तामसी - सात्त्विक्योरेवान्तर्भावः, 'रजो मिश्रमिति ( ) स्मृतेरिति (यो.सू.भा.ग.१/५ ) भावागणेशः । धर्माऽधर्मवृद्धिरूपक्लेशफलिकाः क्लिष्टाः सत्त्वपुरुषाऽन्यतारूपविवेकज्ञानसाधनविषयाः ख्यातिसंज्ञा अक्लिष्टाः । तत्र क्लिष्टानामक्लिष्टाभिर्निरोधोऽक्लिष्टानाञ्च परवैराग्येणेति नागोजीभट्ट आटे 'क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिप्टाः । ख्यातिविषया गुणाऽधिकारविरोधिन्योऽक्लिष्टाः । क्लिटप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तय इति । एवं वृत्ति- संस्कारचक्रमनिशमावर्तते' (यो.सू.१/५-भाष्य ) इति योगसूत्रभाष्ये व्यासर्षिराह । ताः = वृत्तय एव उद्दिशति = नाममात्रेण सङ्कीर्त्तयति- 'मानमित्यादि । योगसूत्रसंवादमाह - ' प्रमाणे 'त्यादि । सूत्रं सुगमम् । नवरं कपिल ૢ પાંચ પ્રકારની ચિત્તવૃત્તિ “ ચિત્તવૃત્તિસમુદાયસ્વરૂપ છે. મતલબ કે ચિત્ત અવયવી છે અને વૃત્તિ અવયવરૂપ છે. ચિત્તના અવયવસ્વરૂપ વૃત્તિ પાંચ પ્રકારની કહેવાયેલી છે. પાતંજલ યોગસૂત્રમાં જણાવેલ છે કે પાંચ પ્રકારની વૃત્તિઓ ક્લિષ્ટ અને અક્લિષ્ટ છે.’ ક્લિષ્ટનો મતલબ એ કે ક્લેશયુક્ત તથા અક્લિષ્ટ એટલે ક્લેશશૂન્ય. આ બન્ને પ્રકારની વૃત્તિના પાંચ/પાંચ પ્રકાર છે. તેને જ મૂળ ગાથામાં બતાવેલ છે. (૧) માન = પ્રમાણવૃત્તિ, (२) भ्रम = विपर्ययवृत्ति, (3) विद्वस्यवृत्ति, (४) निद्रावृत्ति खने (4) स्मृति = स्मरावृत्ति. पातंसयोगसूत्रमा 'प्रमाण, विपर्यय, विडल्य, निद्रा रखने स्मृति' खाम पांय वृत्ति जतावेस छे. (११/3) ..तय्यः क्लिष्टाः' इति त्रुटितः पाठः । हस्तादर्शविशेषे च 'क्लिष्टाक्लिष्टाः' पदं नास्ति । २. मुद्रितप्रतौ इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'निद्रा: स्मृ... ' इत्यशुद्धः पाठः । १. हस्तादर्श 'प्रामाण Jain Education International For Private & Personal Use Only = www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy