________________
• स्फटिकप्रतिबिम्बविमर्शः •
७४३ आपन्ने विषयाकारं यत्र चेन्द्रियवृत्तितः । पुमान् भाति तथा चन्द्रश्चलन्नीरे चलन् यथा ।।२।।
'आपन्न' इति । यत्र चेन्द्रियवृत्तितः = इन्द्रियवृत्तिद्वारा विषयाकारमापन्ने = विषयाकारपरिणते सति पुमान् = पुरुषः तथा भाति यथा चलन्नीरे चलन् चन्द्रः स्वगतधर्माऽध्यारोपाऽधिष्ठानत्वेन
योगकालेऽननिवृत्तिं प्रदर्श्य कूटस्थनित्यस्यापि पुरुपस्याऽयोगकाले = व्युत्थानदशायामौपाधिकमनर्थयोगं दर्शयति योगे लोकानां प्रवृत्तये- 'आपन्न' इति । यद्यपि निर्विकारा चितिशक्तिः सदा स्वरूप एवावतिष्ठते तथापि निरोधादन्यत्र यत्र च = यस्मिन् हि अन्तःकरणे वृत्तिषूत्पद्यमानासु इन्द्रियवृत्तिद्वारा = ज्ञानेन्द्रियगतविषयाऽऽकारवृत्तिद्वारेण विषयाऽऽकारपरिणते सति वृत्तिमबुद्ध्यविवेकात् पुरुषः तथा = वृत्त्याकाररूपेण भाति । वृत्तिषु चितिच्छायायां प्रतिबिम्बितायां तदविवेकात्तादात्म्याऽऽपन्नेव चितिशक्तिर्भवति जपारक्त इव स्फटिकः । तदुक्तं कूर्मपुराणे → यथा संलक्ष्यते रक्तः केवलस्फटिको जनैः । रजकाद्युपधानेन तद्वत्परमपुरुषः ।। (कू.पु.उ.२/२८) इति । सौरपुराणे अपि → यथा हि केवलो रक्तः स्फोटिको लक्षयते जनैः । रक्ताद्युपधानेन तद्वत् परमपुरुषः ।। ( (सौ.पु.११/२१) । इत्युक्तम् । → कुसुमवच्च मणिः - (सां.सू.२ ॥३५) इति साङ्ख्यसूत्रमपि प्रकृते योज्यम् । ततश्च पुरुषस्याऽलिप्तत्वसिद्धिरनाविला। यथोक्तं अन्नपूर्णोपनिषदि → स्फटिकः प्रतिबिम्बेन यथा नाऽऽयाति रञ्जनम्। तज्ज्ञः कर्मफलेनान्तस्तथा नाऽऽयाति रञ्जनम् ।। (अन्न.५/९८) इति । एतेन → जलस्य चलनादेव चञ्चलत्वं यथा रवेः । तथाऽहङ्कारसम्बन्धादेव संसार आत्मनः ।। - (वरा.३/२०) वराहोपनिषद्वचनमपि व्याख्यातम् ।
ग्रन्थकृदुदाहरणान्तरेण प्रकृतमेव विशदयति- यथा = येन प्रकारेण चलन्नीरे = परिचलज्जले चलन् चन्द्रः = प्रतिबिम्बचन्द्रः स्वगतधर्माऽध्यारोपाऽधिष्ठानत्वेन = स्वनिष्ठचञ्चलत्वादिधर्माऽऽरोपाऽऽधारात्मना प्रतीयते = ज्ञायते । वृत्तीनां सुख-दुःख-मोहात्मक-घटाद्याकारतया चैतन्यमपि तत्प्रतिबिम्बवशात् तद्रूपमिव प्रतिभासत इत्यर्थः । अत एव पुरुषस्य तदविवेकात् 'सुखी दुःखी मूढोऽस्मीति वृत्तितादात्म्यभ्रम उत्पद्यते । તેથી “ચેતન હું કર્તા છું.” આવું અભિમાન નીકળી જતાં અંતઃકરણ = ચિત્ત વૃત્તિશૂન્ય = અવિકારી બની જાય છે. અર્થાત્ ચિત્તવૃત્તિનો નિરોધ થાય છે. આમ ચિત્ત અવિકારી થતાં પુરુષ વૃત્તિનિરોધ સમયે પોતાના નિર્વિષયચિન્માત્ર સ્વરૂપમાં રહે છે. આ રીતે ચિત્તનું વૃત્તિનિરોધકાલીન સ્વરૂપ બતાવી દીધા ५छी अंथ॥२श्री वृत्तिलीन यित्तनुं स्व३५, ३१ पोरे मागणना दम तापे छ.(११/१)
ગાથાર્થ - ઈન્દ્રિયવૃત્તિ દ્વારા જે વિષયાકારને પામે છતે પુરુષ તેવા પ્રકારે પ્રતીત થાય છે, જેમ ચાલતા પાણીમાં ચંદ્ર હલન-ચલન કરતો જણાય છે તેમ, “તે પદાર્થ ચિત્ત કહેવાય છે- આટલો અર્થ त्री दोमांथी महोवो.(११/२)
ટીકાર્થ:- ઈન્દ્રિયવૃત્તિ દ્વારા વિષયાકારથી જે પરિણત = વ્યાપ્ત થયે છતે પુરુષ તેવા પ્રકારે ભાસે છે, લાગે છે, તે ચિત્ત છે. જેમ પાણી પવનના લીધે હલન-ચલન કરતું હોય તો પાણીમાં પ્રતિબિંબિત થયેલ ચંદ્ર પણ હલન-ચલન કરતો જણાય છે તેમ ચિત્ત જે વૃત્તિઓથી પરિણત થાય તે પ્રકારે પુરુષ જણાય છે. અર્થાત્ જલગત હલન-ચલન વગેરે ધર્મનો અધ્યારોપ = સમારોપ = આરોપ થવાના १. मुद्रितप्रतौ 'द्वरा' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org