SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ • द्विविधयोगविमर्श: ।। अथ पातञ्जलयोगलक्षणद्वात्रिंशिका ।।११।। स्वकीयं योगलक्षणमन्यदीययोगलक्षणे विचारिते सति स्थिरीभवतीति तदर्थमयमारम्भःचित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः । द्रष्टुः स्वरूपावस्थानं यत्र' स्यादविकारिणि ।। १ ।। चित्तेति । पतञ्जलिस्तु चित्तवृत्तिनिरोधं योगमाह । तथा च सूत्रं -" योगश्चित्तवृत्तिनिरोध ( योगसूत्र १ - २ ) " इति । तत्र चित्तपदार्थं व्याचष्टे - द्रष्टुः पुरुषस्य स्वरूपे चिन्मात्ररूपतायां यस्मिन् स्यात् अविकारिणि = व्युत्पन्नविवेकख्यातेश्चित्सङ्क्र अवस्थानं (=स्वरूपावस्थानं) यत्र = - * नयलता परतन्त्रोदिते योगलक्षणे सुपरीक्षिते । यथावस्थितयोगीयलक्षणं सुदृढं भवेत् ।।१।। 'स्वकीयं योगलक्षणं जानानः परोक्तानि योगलक्षणानि परीक्षेते 'त्युक्तम् । अतोऽधुना परकीययोगलक्षणपरीक्षार्थमुपक्रमते- 'चित्ते 'ति । प्रथमं तावच्छ्लोकदशकेन परोक्तयोगलक्षणकथनं तदुत्तरञ्च तत्परीक्षणं पुनः पूर्वपक्षमतोपदर्शनं श्लोकाष्टकेन तदुत्तरञ्च पुनः तत्परीक्षणमस्यां पातञ्जलयोगलक्षणद्वात्रिंशिकायामित्यवधेयम्। पतञ्जलि: योगसूत्रकारः तुः पूर्वोक्तापेक्षया विशेषद्योतनार्थः, तमेव द्योतयतिचित्तवृत्तिनिरोधं योगमाह । पातञ्जलयोगसूत्रसंवादमाह - 'योग' इत्यादि । अत्र " चित्तस्य = अन्तःकरणस्य वक्ष्यमाणा या वृत्तयस्तासां निरोधः = निवर्तनं योग इत्यर्थः । इदञ्च चित्ते निवर्तनं जीवनयोनियत्नवदतीन्द्रियः प्रयत्नविशेषः चित्तनिग्रहरूपो वृत्तिविलयहेतुः, न तु वृत्त्यभाव एव वक्ष्यमाणसंस्कारजनकत्वस्यानुपपत्तेः, अभावस्य संस्कारजनकत्वेऽतिप्रसङ्गादिति । अत्र सर्ववृत्तिनिरोधाऽवचनेन सम्प्रज्ञातयोगोऽपि सङ्गृहीतः । योगो हि द्विविधः सम्प्रज्ञातोऽसम्प्रज्ञातश्च । अत्राऽऽद्यो ध्येयातिरिक्तवृत्तिनिरोधः । अन्त्यस्तु सर्ववृत्तिनिरोधः । वृत्तिनिरोधस्तूभयसाधारणः” ← (यो. सू. १ / २ भा.) इति भावागणेशः । विस्तरतस्तु सम्प्रज्ञातादियोगो वक्ष्यते योगविवेकद्वात्रिंशिकायाम् ( द्वा. द्वा. २० /१-१३, पृ.१३२५,१३४५) । इदानीं ग्रन्थकारः चित्त-वृत्ति-निरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदार्थं व्याचष्टे द्रष्टुः दृष्टिस्वरूपस्य पुरुषस्य आत्मनः चिन्मात्ररूपतायां निर्विषयचिन्मात्ररूपतायां अवस्थानं = स्थितिः = = ७४१ १. हस्तादर्शे '...न्यचीय...' इत्यशुद्धः पाठः । २ हस्तादर्शे यस्मात्' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only ♦ પાતંજલયોગલક્ષણ દ્વાત્રિંશિકા પ્રકાશ જૈનેતરદર્શનમાં બતાવેલ યોગનું લક્ષણ વિચારવામાં આવે, તેની પરીક્ષા કરવામાં આવે તો જૈન દર્શનમાં બતાવેલ યોગનું લક્ષણ સ્થિર થાય છે. તે માટે આ ૧૧મી બત્રીસીનો આરંભ થાય છે. ગાથાર્થ ઃ- પતંજલિઋષિ કહે છે કે ‘ચિત્તવૃત્તિનો નિરોધ એ યોગ છે.’ જે અવિકારી હોતે છતે દૃષ્ટા પુરુષનું સ્વરૂપમાં અવસ્થાન થાય છે તે ચિત્ત છે. (૧૧/૧) = ટીકાર્થ :- પતંજલિ યોગનું લક્ષણ ‘ચિત્તવૃત્તિનિરોધ’ કહે છે. પાતંજલ યોગસૂત્રમાં જણાવેલ છે કે ‘યોગ એટલે ચિત્તવૃત્તિનો નિરોધ' આ યોગલક્ષણમાં ચિત્ત, વૃત્તિ અને નિરોધ -આ ત્રણ શબ્દ રહેલા છે. * ચિત્તની બે અવસ્થા તેમાંથી સૌ પ્રથમ ચિત્તપદાર્થની ગ્રંથકારશ્રી વ્યાખ્યા કરે છે કે દૃષ્ટા એવા પુરુષનું 1 આત્માનું www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy