________________
• निश्चय-व्यवहारोपयोगप्रकारप्रकाशनम् •
७३७ तदनुसारेण च प्रशमरतौ उमास्वातिवाचकोत्तमैरपि → द्रव्यं कषाय-योगावुपयोगो ज्ञान-दर्शने चेति । चरित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य ।। - (प्र.रति.१९९) इत्युक्त्या योगात्मा दर्शित एव तथापि प्रकृते स नोपादेयः, तस्य मनोवाक्कायव्यापाररूपत्वात् प्रक्रान्तस्य च मोक्षयोजकात्मव्यापाररूपत्वादित्युपलक्षणादेव योगपरिणतात्मरूपो योगो ग्राह्यः ।
इदञ्चात्रावधेयम्- येषां तु धीमान्द्याद् भूयो भूयः श्रूयमाणोऽपि नैश्चयिको देहाद्यात्मभेदो न बुद्धिमुपारोहति तैस्तु ‘उपवासाद् वरं भिक्षा' इति न्यायेन व्यवहारनयाभिप्रेतदेहाद्यात्माऽभेदावलम्बनेन परपीडापरिहारादिसमाराधनतः तदावरणकर्मविगमात् प्रज्ञालाभे 'शालिसमृद्धौ कोद्रवाऽशनत्यागः' इति न्यायेन त्याज्यैव देहाद्यात्माभेदधीः। इत्थञ्च → निश्चय-व्यवहाराभ्यां योगा बहुविधाः शुभाः । स्वाधिकारेण संसेव्या विश्वस्थसर्वमानवैः ।। - (म.गी.१६/९) इति महावीरगीतावचनानुसारेण स्वभूमिकौचित्यतः व्यावहारिकनैश्चयिक-शुभ-शुद्धाऽन्यतरभावानुविद्धविहितसदनुष्ठानपरायणतया भाव्यं मोक्षाकाङ्क्षिभिः । प्रकृते → भावं तिविहपयारं सुहासुहं सुद्धमेव णायव्वं । असुहं च अट्टरुदं सुहं धम्मं जिणवरिंदेहिं ।। सुद्धं सुद्धसहावं अप्पा अप्पम्मि तं च णायव्वं । इदि जिणवरेहिं भणियं जं सेयं तं समायरह ।।
- (भा.प्रा.७६,७७) इति भावप्राभृतगाथायुगलमपि परिभावनीयम् ।
अथ कदा शुद्धभेदनयोदितविशुद्धाऽऽत्मतत्त्वाभिव्यक्तिरिति चेत् ? अखिलौदयिकभावगोचरममत्वपरिमोचनावस्थायामिति गृहाण । तदर्थमेव शुद्धभेदनयाभिप्रायोऽदर्शि ग्रन्थकृताऽत्र । तदा भिक्षुद्वात्रिंशिकायां वक्ष्यमाणरीत्या (भाग-७, पृ.१८५३) नोपसर्गपरिषहादिभ्यः काऽपि भीतिः, न वा शत्रावपि द्वेषः, न वा कुत्रापि खेदादिः किन्तु स्वभावसंवित्तिरेव केवलेति ध्येयम् । प्रकृतार्थे च→ बध्यते मुच्यते जीवः, सममो निर्ममः क्रमात् । तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ।। एकोऽहं निर्ममः शुद्धो, ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा, मत्तः सर्वेऽपि सर्वथा ।। दुःखसन्दोहभागित्वं, संयोगादितो देहिनाम् । त्यजाम्येनं ततः सर्वं, मनोवाक्कायकर्मभिः ।। न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ।।
6 (इष्टो.२६-२९) इति इष्टोपदेशकारिका अपि संवेगपरतया परिभावनीयाः शुद्धाऽऽत्मतत्त्वाऽपरोक्षानुभूतिकाङ्क्षिभिः । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां → साक्षीभूय स्थितस्यैव पश्यतो भवनाटकम् । स्वभावसुखसंवित्तिः कर्तृभावे तु सङ्गरः ।। परभावास्ततस्त्याज्या, ग्राह्याः स्वाभाविका गुणाः । स्वभावसुखमग्नस्य, संसारः किं करिष्यति ।।
- (वै.क.स्त.५/६९५,६९६) इत्यलं प्रसक्ताऽनुप्रसक्तेन ।।१०/३१।।
વિશેષાર્થ :- દ્રવ્ય અને પરિણામ વચ્ચે કથંચિત ભેદ છે તેમ જ કથંચિત્ અભેદ છે. કેવલભેદગ્રાહક નયની મર્યાદામાં રહીને જ્યારે નિરૂપણ થાય ત્યારે તે બન્ને વચ્ચે ભેદને પ્રધાન બનાવાય છે. તથા કેવલઅભેદનયની મર્યાદામાં રહીને જ્યારે નિરૂપણ થાય ત્યારે તે બન્ને વચ્ચે અભેદને મુખ્ય કરાય છે. પારમાર્થિક પ્રયોજનને લક્ષમાં રાખીને નયપ્રધાન ધર્મદશના શાસ્ત્રમાં બતાવાય છે. માટે એકાંતવાદને म 05 म१.४४१ नथी. (१०/३१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org