________________
७३६
अरुन्धतन्यायेन निश्चयप्राप्तिः
द्वात्रिंशिका - १०/३१
=
स्तदादिना ( = शुद्धभेदनयादिना ) । इत्थं उक्तरीत्या व्युत्पादनं युक्तम् । नयसारा = नयप्रधाना हि देशना शास्त्रे प्रवर्तते । अन्यथा तु 'योगपरिणत आत्माऽपि योग इतीष्यत एव, चरणाऽऽत्मनोऽपि भगवत्यां प्रतिपादनादिति भावः || ३१ ॥
•
गृहीतभेदग्राहकनयप्रभृतिना, आदिपदेन विकलादेशादिग्रहणम्, उक्तरीत्या 'योगो व्यापारात्मकः स्मृतः, परिणामा विवर्तन्ते जीवस्तु न कदाचन' इत्यादिप्रकारेण व्युत्पादनं निरूपणं युक्तं = युक्तिसङ्गतम्, हिः = यस्मात् कारणात् शास्त्रे नयप्रधाना = सुनयमुख्या देशना = प्ररूपणा प्रवर्तते बाहुल्येन, न तु स्वरूपतः प्रमाणप्रधाना ।
इदञ्चारुन्धतीन्यायेनाऽवसेयम् । यथाऽरुन्धतीनिदर्शनावसरे सौक्ष्म्यात्प्रथममेवाऽरुन्धती दर्शयितुं न पार्यते । अतो बह्वीषु तारास्वमुख्यासु अरुन्धतीत्वेनोपदर्शितासु अन्ते मुख्याऽरुन्धती दर्शयितुं शक्यते तथैवात्राऽपि श्रोतृभूमिकाभेदेन व्यवहारनिरूपणानन्तरं निश्चयमताऽऽविष्करणं यथागममवसेयम् । प्रकृते → आत्मा येन न ज्ञातो नैगमादिनयैर्महान् । सर्वयोनिषु संसारे भ्राम्यति दुःखवेदक: ।। ← (कृ.गी. १२८) इति कृष्णगीतावचनमपि न विस्मर्तव्यम् । आणाइसुद्धं वयणं विभज्जे ← (सूत्र.१/१४/२४) इति सूत्रकृताङ्गोक्त्यनुस्मरणतो जिनाज्ञादिशुद्धस्य वचनस्य श्रोतृभूमिकानुसारेण भाष्यमाणस्य फलतः प्रमाणदेशनात्वमेवेति तु ध्येयं नय-प्रमाणस्वरूप- हेतु-फलविभावननिपुणैः ।
अन्यथा =
अभेदयादिना योगदेशनायां तु योगपरिणतः = योगपरिणामोपेत आत्मापि योगः = योगपदप्रतिपाद्य इतीष्यत एव । न चागमे योगात्मनोऽनुक्तत्वात्कथं योगपरिणतस्यात्मनो योगत्वोक्तिः सङ्गच्छेतेति शङ्कनीयम्, चरणात्मनोऽपि भगवत्यां = व्याख्याप्रज्ञप्तौ प्रतिपादनात् । यथा चरणपरिणत आत्मा चरणात्मा उच्यते तथा योगपरिणत आत्माऽपि योगात्मा = योगस्वरूप इति वक्तुं युज्यत एव इति भावः । प्रकृते च विषयविभागव्यवस्थापनपरयोः →
पुग्गल - कम्मादीनं कत्ता ववहारदो दु निच्छयदो । चेदण-कम्माणादा सुद्धणया सुद्धभावाणं ।। ववहारा सुह- दुक्खं पुग्गल - कम्मफलं पभुंजेदि । आदा णिच्छयणयदो चेदणभावं खु आदस्स || ← (बृ.द्र. सं. ८- ९) इति बृहद्रव्यसङ्ग्रहगाथयोः, ववहारेणुवदिस्सइ णाणिस्स चरित्तं दंसणं णाणं । ण वि णाणं, ण चरित्तं, ण दंसणं जाणगो सुद्धो ।। ← ( स.सा. ७) इति समयसारगाथायाश्च तात्पर्यमवधातव्यं नयविषयविभागव्यवस्थापननिपुणैः ।
=
=
यद्यपि भगवत्यां → कहविहा णं भंते आया पण्णत्ता ? गोयमा ! अट्ठविहा आया पण्णत्ता | तं जहा - (१) दवियाया, (२) कसायाया, (३) योगाया (४) उवओगाया, (५) णाणाया, (६) दंसणाया, (७) चरित्ताया, (८) वीरियाया ← ( भग.श.१२ उ. १० सू.४६७ ) इत्येवं योगात्माऽपि कण्ठत उक्तः । વ્યુત્પાદન નિરૂપણ કરવું તે યુક્તિસંગત જ છે. કારણ કે શાસ્ત્રમાં નયપ્રધાન દેશના પ્રવર્તતી હોય छे. जाडी तो અભેદનયની વિવક્ષા કરવામાં આવે તો યોગપરિણત આત્મા યોગ કહેવાય- એવું શાસ્ત્રકારોને ઈષ્ટ જ છે. માટે તો ચારિત્રાત્મા, યોગાત્મા, કષાયાત્મા ઈત્યાદિરૂપે ભગવતીસૂત્રમાં આઠ પ્રકારના આત્માનું પ્રતિપાદન કરેલ છે જ. (૧૦/૩૧)
१. मुद्रितप्रती 'अन्यथाऽनुयोग...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org