________________
• शुद्धनयाभिमतात्मतत्त्वाभिव्यक्तिविचारः •
७३१ योगगुणसमभिव्याप्ततया ततोऽधिकत्वेन प्रतीयमानत्वात्तैस्तादात्म्याऽसम्भवात् । तदुक्तं समयसारे → जीवस्स णत्थि वण्णो णवि गंधो णवि रसो णवि य फासो । णवि रूपं ण सरीरं णवि संठाणं णवि संहणणं ।। णेव य जीवट्ठाणा ण गुणट्ठाणा य अस्थि जीवस्स । जेण दु एदे सव्वे पुग्गलदव्वस्स परिणामा ।। ववहारेण दु एदे जीवस्स हवंति वण्णमादीया । गुणठाणंता भावा ण दु केई णिच्छयणयस्स ।। एएहिं य संबंधो जहेव खीरोदयं मुणेदव्यो । ण हुंति तस्स ताणि दु उवओगगुणाधिगो जम्हा ।।
6 (स.सा.५०,५५-५६-५७) इति । एतेन → अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ - (व्या.प्र.१/३) इति व्याख्याप्रज्ञप्तिसूत्रमपि व्याख्यातम् । तदुक्तं नेमिचन्द्राचार्येण अपि बृहद्र्व्यसङ्ग्रहे → मग्गण-गुणठाणेहि य चउदसहि हवंति तह असुद्धणया । विण्णेया संसारी सव्वे सुद्धा हु सुद्धणया ।। - (बृ.द्र.सं.१३) इति । यथोक्तं योगसारप्राभृतेऽपि →
सर्वे भावाः स्वभावेन स्व-स्वभावव्यवस्थिताः । न शक्यन्तेऽन्यथाकर्तुं ते परेण कदाचन ।। नाऽन्यथा शक्यते कर्तुं मिलद्भिरिव निर्मलः । आत्माऽऽकाशमिवाऽमूर्त्तः परद्रव्यैरनश्वरः।।
- (यो.सा.प्रा.९/४६-४७) इति । ततश्च सर्वदैव सर्वत्रैव सर्वथैव स्वत एव आत्म-पुद्गलयोः स्व-स्वशुद्धभावैककर्तृत्वम् । इदमेवाभिप्रेत्य अध्यात्मबिन्दौ → सर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्चं जीवः कुर्यात् तत्कथं वस्तुतोऽयम् ?।। 6 (अ.बि.१/ २२) इत्युक्तम् । यथोक्तं अध्यात्मसारे → कर्ताऽपि शुद्धभावानामात्मा शुद्धनयाद् + (अ.सा.१८/ ८१) इति 'शुद्धभावानां = निरुपाधिकस्वकीयपरिणामानाम्', परभावानां कर्तृत्वाऽसम्भवात् तेषामात्मा साक्ष्येव केवलः। तदुक्तं ज्ञानसारे → स्वभावसुखमग्नस्य जगत्तत्त्वावलोकिनः। कर्तृत्वं नान्यभावानां साक्षित्वमवशिष्यते ।। - (ज्ञा.सा.२/२) इति । स्वशुद्धभावकर्तृत्वादेव परभावाऽकर्तृत्वं ज्ञाप्यते, स्वकीयपरकीयभावद्वयकर्तृत्वस्यैकस्मिन्नसम्भवात् । यथोक्तं अध्यात्मसारे → क्रियाद्वयं हि नैकस्य द्रव्यस्याभिमतं जिनैः - (अ.सा.१८/९८) इति । ___ इत्थमेव → जारिसिया सिद्धप्पा भवमल्लियजीवा तारिसा होंति - (नि.सा.४७) इति नियमसारवचनोपपत्तेः । एतदनभ्युपगमे जीवस्याऽजीवत्वं स्यात्, स्याद्वाऽजीवस्य जीवत्वम् । न चैतदिष्टम्, यथोक्तं स्थानाङ्गसूत्रे → ण एवं भूतं वा भव्वं वा भविस्सति वा- जं जीवा अजीवा भविस्संति, अजीवा वा जीवा भविस्संति - (स्था.सू.१०/१०/७०४) इति व्यवहितकारिकायामेव(पृ.७२७)दर्शितम् । एतेन → जीवा णो वड्ढंति, नो हायंति, अवट्ठिआ + (भ.सू.५/८) इति भगवतीसूत्रवचनमपि व्याख्यातम् । इत्थञ्च तयोः स्वस्वशुद्धभावजननेनैव कृतार्थत्वं सिध्यति । ___ निश्चयतः सर्वेषां भावानां स्वात्मैकनिष्ठत्वादेव न परभावकर्तृत्वसम्भवः । अत एव शब्दसमभिरूद्वैवम्भूतनयाभिप्रायेण स्थानाङ्गवृत्तौ अभयदेवसूरिभिः → न हि स्वस्वभावं विहाय परभावाधिकरणा भावाः कदाचनाऽपि भवन्ति - (स्था.३/३/सू.१९९ वृ.) इत्युक्तम् । तदुक्तं अनुयोगद्वारसूत्रे अपि → तिण्हं सद्दनयाणं आयभावे वसइ - (अनु.द्वा.१४५) इति । → सर्वोऽपि स्व-स्वभाव एव निवसति, तत्परित्यागेनान्यत्र तस्य निःस्वभावताप्रसङ्गात् + (अनु.द्वा.वृत्ति-पृष्ठ-२०८) इति अनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org