________________
७३०
• विभावपरिणामानामनित्यत्वम् • द्वात्रिंशिका-१०/३० ततो विभावानां = मिथ्यात्वगुणस्थानादारभ्याऽयोगिगुणस्थानं यावत् प्रवर्तमानानामोपाधिकभावानां अनित्यभावेऽपि (=विभावाऽनित्यभावेऽपि) स्वभाववान् = आत्मा नित्यः, तस्योपाध्यजनितत्वात् ।
"उपाधिनिमित्तका अप्यात्मनो भावास्तद्रूपा' एव युज्यन्ते” इति चेत् ? सत्यम्, शुद्धनय
वौद्धानामपि सम्मतमिदम् । तदुक्तं सुत्तनिपाते → कम्मुणा वत्तितो लोको - (सु.नि.३५/६१) इति । प्रकृते च → विचिन्त्यमेतद् भवताऽहमेको न मेऽस्ति कश्चित् पुरतो न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव अहं पुरस्तादहमेव पश्चात् ।। - (आचाराङ्गवृत्तौ उद्धृतोऽयं श्लोकः) इत्यपि सूक्तिरत्राऽनुयोज्या। ततः = जीवस्थानाधुपाधीनां कर्मजन्यत्वात् औपाधिकभावानां = कर्मोदयजन्यभावानां जीवस्थान-गुणस्थान-मार्गणास्थान-योगस्थान-लेश्यास्थान-बन्धस्थानोदयस्थानाऽध्यवसायस्थानाऽनुभागस्थान-सङ्क्लेशस्थान-विशुद्धिस्थानादीनां अनित्यभावेऽपि = ध्वंसप्रतियोगित्वेऽपि स्वभाववान् = स्वकीयानन्तापरोक्षज्ञानानन्दादिभावशाली आत्मा नित्यः = ध्वंसप्रतियोगिताशून्यः, औपाधिकभावानां बाह्यत्वान्न तद्भेदे आत्मभेदसम्भवः ।
तस्य = आत्मनः स्वतो लब्धात्मलाभतया उपाध्यजनितत्वात् = कर्मोदयाऽजन्यत्वात् । अत एव हर्षवर्धनोपाध्यायेन अध्यात्मबिन्दौ → आत्मस्वरूपं पररूपमुक्तं अनादिमध्यान्तमकञभोक्तृ । चिदङ्कितं चान्द्रकरावदातं प्रद्योतयन् शुद्धनयः चकास्ति ।। - (अ.बि.१/७) इत्युक्तम् । सम्मतञ्चेदं परेषामपि । तदुक्तं कुण्डिकोपनिषदि → न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।। - (कुं.२३) इति ।
व्यवहारनयावलम्बी शङ्कते- उपाधिनिमित्तकाः = कर्मोदयसम्पादिता अपि आत्मनो भावाः जीवस्थान-गुणस्थान-मार्गणास्थानादयः तद्रूपा एव = आत्मस्वरूपा एव युज्यन्ते = घटन्ते, तत्तद्रूपेण तदाऽऽत्मनः परिणमनात् । इत्थमेव → जीवो परिणमदि जदा सुहेण असुहेण व सुहो असुहो । सुद्धेण तदा सुद्धो हवदि हि परिणामसभावो ।। (प्र.सार.१/९) इति प्रवचनसारवचनोपपत्तेः इति चेत् ? अत्रोच्यते, अशुद्धनयदृष्ट्येदं सत्यं, → कत्ता भोत्ता आदा पोग्गलकम्मस्स होदि ववहारो (नि.सा.१८) इति नियमसारवचनात् किन्तु शुद्धनयदृष्ट्या = विशुद्धनिश्चयनयाभिप्रायेण आत्मनि न सन्त्येव जीवस्थान-गुणस्थानादयो भावाः, तैस्सह परस्परावगाहलक्षणे सम्बन्धे सत्यपि स्वलक्षणभूतोप
તેથી મિથ્યાત્વગુણસ્થાનકથી માંડીને અયોગગુણસ્થાનક સુધી પ્રવર્તતા ઔપાધિક ભાવો = વિભાવપરિણામો અનિત્ય છે- એમ સિદ્ધ થાય છે. ઔપાધિક પરિણામો અનિત્ય હોવા છતાં પણ પોતાના મૌલિક ભાવવાળો આત્મા નિત્ય જ છે. કારણ કે આત્મા કાંઈ ઉપાધિમાંથી ઉત્પન્ન થતો નથી.
શંકા :- ગુણસ્થાનો, જીવસ્થાનો વગેરે ભાવો ભલે ઉપાધિનિમિત્તક = કર્મજન્ય હોય તો પણ તે આત્માના જ ભાવો છે. જડના પરિણામો નથી. માટે તે ઔપાધિક પરિણામોને આત્મસ્વરૂપ જ માનવા જોઈએ ને !
સમાધાન :- અશુદ્ધ નિશ્ચયનયની દષ્ટિએ તમારી વાત સાચી છે કે કર્મોદયજન્ય જીવસ્થાન, १. मुद्रितप्रतौ 'द्रुपा' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org