________________
७३२
• कर्मजभावस्य मिथ्यात्वम् • द्वात्रिंशिका-१०/३० दृष्ट्याऽऽत्म-पुद्गलयोः स्वस्वशुद्धभावजननचरितार्थत्वे 'संयोगजभावस्य भित्तौ खटिकाश्वेतिम्न इव योगद्वारसूत्रवृत्तौ श्रीहेमचन्द्रसूरयः । तदुक्तमन्यत्रापि → वत्थु वसइ सहावे सत्ताओ चेयणव्व जीवम्मि । न विलक्खणत्तणाओ भिन्ने अन्नत्थ छायातवे चेव ।। - (स्थानाङ्ग.वृ.३/३/१९९ उद्धृतः)। प्रकृते → अज्ञानान्मलिनो भाति - (जा.द.५/१४) इति जाबालदर्शनोपनिषद्वचनं, → नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति - (नृसिं.पू.५/१) इति च नृसिंहपूर्वतापनीयोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
परेपामपि सयुक्तिकं सम्मतमिदम् । तदुक्तं नृसिंहपूर्वतापनीयोपनिषदि → अयमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनः + (नृ.सिं.पू.२/९/९) इति । तदुक्तं कूर्मपुराणे → यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः । न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।। - (कू.पु.२/ २/१२-१३) इति । एतेन → न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः - (सां.सू.१/७) → स्वभावस्याऽनपायित्वाद् अननुष्ठानलक्षणमप्रामाण्यम् + (सां.सू.१/८) इति साङ्ख्यसूत्रयुग्ममपि व्याख्यातम् । न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः सम्भवति स्वाभाविकस्य यावद्दव्यभावित्वादिति तदाशयः साङ्ख्यप्रवचनभाष्ये विज्ञानभिक्षुणा व्यक्तीकृतः । तदुक्तं सक्षेपशारीरके अपि → पुरुपस्तूदासीनो न प्रवर्तको, न निवर्तकः ( (सं.शा.२/२/४) इति । एतेन → नित्यमुक्तत्वम् (सां.सू.१/१६२) औदासीन्यं च - (सं.सू.१/१६३) इति साङ्ख्यसूत्रयुगलमपि व्याख्यातम् । __नन्वेवमन्यभावानामकर्तृत्वेऽपि जीव-पुद्गलसंयोगजन्यभावस्य कर्तृत्वन्त्वात्मन्यप्यनपलपनीयमेवेति चेत्? मैवम्, तयोः स्व-स्वशुद्धभावजननचरितार्थत्वे = स्वकीय-स्वकीयविशुद्धपरिणामोत्पादनेनैव कृतार्थत्वे शुद्धनयार्पणया निश्चिते सति संयोगजभावस्य = आत्म-पुद्गलसंयोगसम्पादितपरिणामस्य आत्मनि मिथ्यात्वात् = काल्पनिकत्वात्, पुद्गलजन्यत्वात् । यथोक्तं अध्यात्मसारे ‘कर्मजनितो भेदः पुनरुपप्लवः' (अ.सा.१८/१२) इति । एतेन → बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ।। वाचा वदति यत् किञ्चित् सङ्कल्पैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।।
6 (ते.बि.५/४४-४५) इति तेजोबिन्दूपनिषत्कारिके अपि व्याख्याते ।
न च जीव-पुद्गलान्यतरस्मिन् तस्याऽन्तर्भावसम्भवान्न काल्पनिकत्वमिति वाच्यम्, एकैकविरहे तद्विरहान्नान्यतरस्मिन् सम्भवः तदन्तर्भावस्य, भित्तौ खटिकाधेतिम्न = श्वेतद्रव्यकृतश्चैत्यस्य इव आत्मઅધ્યવસાયસ્થાન વગેરે ઔપાધિક પરિણામો આત્મમય = આત્મસ્વરૂપ જ છે. પરંતુ શુદ્ધ નિશ્ચયનયની દષ્ટિએ આત્મા અને પુગલ- આ બન્ને પોતપોતાના શુદ્ધ ભાવોને ઉત્પન્ન કરવા દ્વારા કૃતાર્થ થઈ જાય છે. આત્માનું કાર્ય શુદ્ધ ઉપયોગ છે. તે જરૂર આત્મરૂપ જ છે. પુદ્ગલનું કાર્ય વર્ણાદિ પરિણામો છે. તેથી વર્ણગંધાદિ પરિણામો પુદ્ગલરૂપ જ છે. પરંતુ જીવસ્થાન, ગુણસ્થાન, યોગસ્થાન, અધ્યવસાયસ્થાન વગેરે ભાવો કેવળ આત્માનું કે કેવલ પુગલનું કાર્ય નથી. પરંતુ આત્મા-પુદ્ગલ આ બન્નેનું તે કાર્ય છે. કારણ કે બેમાંથી એકના પણ અભાવમાં તે કાર્ય થતું નથી. પરંતુ ભેદનયની દષ્ટિને કેન્દ્રસ્થાને ગોઠવીએ તો જીવસ્થાન, १. हस्तादर्श ‘संयोगस्य भा...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org