________________
७२८ • शुद्धभावस्वरूपप्रकाशनम •
द्वात्रिंशिका-१०/२९ तद्वदात्माऽपि निर्लेपो दृश्यते मूढचेतसाम् । स्वाऽविद्याऽऽख्याऽऽत्मदोपेण कर्तृत्वादिकधर्मवान् ।।
6 (शि.गी.१०/१९-२२) इति शिवगीतावचनान्यपि व्याख्यातानि द्रप्टव्यानि, शुद्धात्मस्वभावानुभवोदेशेन तथादेशनाया अपि युक्तत्वात् । अत एव बुद्धिसागरसूरिभिरपि अध्यात्मगीतायां → सुखमात्मस्वभावोऽस्ति दुःखं मोहस्य वृत्तिपु । मोहरूपमनोदुःखं ज्ञात्वाऽऽत्मनि रतिं कुरु ।। - (अध्या.गी.८) इत्युक्तम् । → न हि मोक्षपदं न हि बन्धपदं न हि पुण्यपदं न हि पापपदम् । न हि पूर्णपदं न हि रिक्तपदं किमु रोदिपि मानसि सर्वसमम् ।। - (अव.गी.२/१९) इति अवधूतगीतायां दत्तात्रेयवचनमप्येतदर्थानुपात्येव द्रष्टव्यम् ।।
एतेन → सदोज्ज्वलोऽविद्याकार्यहीनः स्वात्मवन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसंन्यासो निरस्ताऽविद्यातमोमोहोऽहमेवेति तस्मादेवमेवमात्मानं परं ब्रह्माऽनुसन्दध्यात् + (नृसिं.उत्त.२/ २) इति नृसिंहोत्तरतापनीयोपनिषद्वचनम्, → बन्ध-मोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि योऽस्म्यहम् । चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात् परः ।। 6 (मैत्रे.३/९) इति मैत्रेय्युपनिषद्वचनमपि व्याख्यातम् । तदुक्तं अन्नपूर्णोपनिषदि → न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवाऽस्मि निरामयम् । द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः । एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ।। - (अन्न.५/६८) इति । यथोक्तं तेजोबिन्दूपनिषदि अपि → सर्वदा हजरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।। - (ते.वि.३/४२) इति । तदुक्तं कामराजकीलितोद्धारोपनिषदि अपि → 'नित्याऽऽनन्दरूपोऽहम्' इति स्मरेत् - (का.रा.२) इति । तदुक्तं आथर्वणरहस्ये वनदुर्गोपनिषदि अपि → सर्वं ब्रह्मेति भावयेत् - (आ.व.दु.४२) इति । __ युक्तञ्चैतत् सङ्ग्रहनयेन । इत्थमेव विचारणे → न कर्मणा लिप्यते पापकेन + (इति.३/२) इति इतिहासोपनिषद्वचनमपि लब्धाधिकारं स्यात् । परमार्थत आत्मनः स्वतन्त्रत्वाभावे परमात्मालम्वनेनाऽपि स्वातन्त्र्यं नानुभूयेत । एतेन → स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते - (म.भा.शांति.व.क.सं. ३१३/३०) इति महाभारते वशिष्ठकरालजनकसंवादोक्तिरपि व्याख्याता । शुद्धनिश्चयनयदृष्ट्या प्रकृतयथावस्थिततत्त्वावगमेन न कुत्राऽपि योगिनो ममत्व-कर्तृत्व-भोक्तृत्वादिभावावलेपसम्भव इति प्रकृते तात्पर्यम् । इदमेवाभिप्रेत्य वैराग्यकल्पलतायां ग्रन्थकृता→
नाहंक्रियां याति समाहितात्मा, नोकर्मभावैर्न च कर्मभावैः । भिन्नान् विदन् मिश्रितपुद्गलात्म-भावान्मिथः कर्तृभिदानिदानात् ।। नाहं वपुर्नैव मनो न वाणी, कर्ता न नो कारयिता च तासाम् । न चानुमन्तेति समाधियोगाद् विदन्नहंकारमतिं क्व कुर्यात् ।। पराऽऽश्रितान् दान-दयादिभावानित्थं समाधेर्मनसाऽप्यकुर्वन् । निजाश्रितानेव करोति योगी, विकल्पहीनस्तु भवेदकर्ता ।। द्रव्येपु भिन्नेषु कदापि न स्यान्ममत्ववार्ताऽपि समाधिभाजः । रागादिभावैर्विहितं ममत्वं, न तत्प्रमाणीकुरुते च योगी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org