________________
७२७
• जीवस्य विवर्तनाऽभावप्रतिपादनम् • = गतीन्द्रियाद्याः परिणामा विवर्तन्ते = दशाविशेषं भजन्ते ।
जीवस्तु कदाचन न विवर्तते, तस्य शुद्धज्ञायकभावस्यैकस्वभावत्वात् ।।२९।। कर्मोदयविशेषसम्पादिताः परिणामा भवन्ति । ते च जीवस्थान-गुणस्थान-मार्गणास्थानप्रतिबद्धाः परिणामा द्रव्य-क्षेत्र-कालादिकमासाद्य दशाविशेषं भजन्ते = अवस्थान्तरमापद्यन्ते ।
यद्यपि → णत्थि विणा परिणामं अत्थो, अत्थं विणेह परिणामो - (प्र.सा.१/१०) इति प्रवचनसारवचनानुसारेण द्रव्य-परिणामयोरविनाभाव एव तथापि जीवस्तु परिणामादिसम्पर्कात् कदाचन = जातुचित् न = नैव विवर्तते = दशान्तरं भजते, तस्य = जीवस्य शुद्धज्ञायकभावस्य- रागद्वेपादिविनिर्मोकेण केवलं ज्ञातृरूपस्य एकस्वभावत्वात् = सदा सर्वत्र तत्त्वतोऽभिन्नस्वभावत्वात् । अत एव स्थानाङ्गसूत्रे → ण एवं भूयं वा भव्वं वा भविस्सति वा- जं जीवा अजीवा भविस्संति, अजीवा वा जीवा भविस्संति - (स्था.सू.१०/१०/७०४) इत्युक्तम् । 'न खलु शालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवतीति न्यायोऽत्र लब्धप्रसरोऽवसेयः । न हि परमार्थतो जीवस्थानगुणस्थान-योगस्थान-बन्धस्थान-मार्गणास्थानान्यतमसंश्लेप आत्मनः समस्ति । यथोक्तं समयसारे → जीवस्स नत्थि केई जोयट्ठाणा ण बंधठाणा वा । णेव य उदयट्ठाणा ण मग्गणट्ठाणया केई ।। णो ठिइबंधट्ठाणा जीवस्स ण संकिलेसठाणा वा । णेव विसोहिट्ठाणा णो संजमलट्ठिाणा वा ।।
- (स.सा.५३/५४) इति । तदुक्तं उत्तराध्ययननिर्युक्तौ अपि → लेसा कसाय-वेयण वेओ अन्नाण-मिच्छ-मिसं च । जावइया ओदइया सव्वो सो बाहिरो जोगो + (उत्त.नि.१/५२) इति । प्रकृतग्रन्थकृताऽपि अध्यात्मोपनिषदि → गुणस्थानानि यावन्ति यावन्त्यश्चापि मार्गणाः । तदन्यतरसंश्लेषो नैवातः परमात्मनः ।। - (अ.उ.२/२८) इति प्रोक्तम् । यथोक्तं श्वेताम्बरशिरोमणिना हर्षवर्धनोपाध्यायेन अपि अध्यात्मबिन्दौ → शरीरसंसर्गत एव सन्ति वर्णादयोऽमी निखिलाः पदार्थाः । जाम्बूनदादेरुपधेरिव द्राग् वैशद्यभाजि स्फटिके तरङ्गाः ।। स्फटिकमणिरिवायं शुद्धरूपः चिदात्मा, भजति विविधभावं द्वेषरागाधुपाधेः । यदपि तदपि रूपं नैव जहात्ययं स्वं, न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः ।। ___ (अ.बि.१/१७,१८) इति । प्रकृते → यथा प्रकाश-तमसोः सम्बन्धो नोपपद्यते । तद्वदैक्यं न सम्बद्धं प्रपञ्च-परमात्मनोः ।। 6 (कू.पु.२/२/१०) इति कूर्मपुराणवचनमपि शुद्धनयार्पणयाऽनुयोज्यं मध्यस्थवृत्त्या धीधनैः । एतेन →
यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् । तद्वदन्तःकरणगैर्दोपैरात्माऽपि दृश्यते ।। परस्पराध्यासवशात् स्यादन्तःकरणाऽऽत्मनोः । एकीभावाऽभिमानेन परात्मा दुःखभागिव ।। मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः । दृश्यन्ते मूढचित्तस्य न ह्यााः तापकारकाः ।।
પરંતુ જીવ ક્યારેય પણ અલગ-અલગ દશાને પામતો નથી. કારણ કે આત્મા તો શુદ્ધ જ્ઞાયકભાવરૂપ भे ४ स्वभावापो छे. (१०/२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org