SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ७२२ • क्लेशध्वंसविशेषजनकशक्तिकल्पना • द्वात्रिंशिका-१०/२६ भावपूर्वक्रियाकृतस्तु तद्भस्मसदृशः = मण्डूकभस्मसदृशः स्यात्, पुनरुत्पत्तिशक्त्यभावात् । एवं च क्लेशध्वंसविशेषजनकः शक्तिविशेष एव क्रियायां भाववृद्ध्यनुकूल इति फलितम् ।।२६।। वस्थायां मण्डूकक्रियाक्षयः सन्नप्यक्षयकल्पः, प्रावृडादिनिमित्तयोगतः तदधिकभावात् एवं कायक्रिययैकान्तेनैव भावशून्यया तथाविधानुष्ठानसमभिव्यङ्ग्यो रागादिक्षयोऽक्षयसम एव, जन्मान्तरादिनिमित्तयोगतस्तदधिकभावादिति । उक्तञ्च → ‘क्रियामात्रतः कर्मक्षयः मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत्' 6 (यो.श.उद्धृत.गा.८६ वृ.) इति । अपथ्यद्रव्यप्रयोगजनितवेदनाक्षयोपलक्षणमेतत् । भावपूर्वक्रियाकृतः = भावसहितानुष्ठानसम्पादितः मण्डूकभस्मसदृशः = पावकप्लुष्टभेकक्षारतुल्यः, पुनरुत्पत्तिशक्त्यभावात् = पुनर्जन्मयोग्यताविरहात् । प्रकृतफलितमाह- एवञ्च क्लेशध्वंसविशेषजनकः = रागादिपरिक्षयविशेषकारकः शक्तिविशेषः = सामर्थ्यविशेषः प्रणिधानादि-श्रद्धामेधादिभावानुवेधसम्पादितः एव क्रियायां = क्रियानिष्ठो भाववृद्ध्यनुकूलः = भावप्रवृद्धिप्रयोजकः सिध्यति । ततश्च सर्वार्थगोचराऽभ्रान्तावबोधप्रसूतावन्ध्यशक्तिविशेषान्वितक्रियाया भावप्रवृद्धिकारणता इति फलितम् । अध्यात्मसारेऽपि → कर्मणोऽपि हि शुद्धस्य श्रद्धा-मेधादियोगतः । अक्षतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् ।। - (अ.सा.१५/२०) इत्युक्तम् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां → यत्कर्म कुरुते जीवः सततं भावशुद्धितः । हेतुतां वहते विज्ञा ! मुक्तेस्तत्कर्म निश्चितम् ।। 6 (शं.गी.१/११२) इति । एतावता क्लेशध्वंसविशेषजनकयोः तात्त्विकज्ञान-क्रिययोः परमार्थतः समव्याप्तत्वमन्योऽन्यानुग्राहकत्वञ्च सिद्धम् । एतेन → सीलपरिघोता पञ्जा, पापरिधोतं सीलं । यत्थ सील तत्थ पञ्जा, यत्थ पञ्जा तत्थ सीलं । सीलवतो पा, पावतो सीलं - (दी.नि.१/४/३१७ पृष्ठ.१०९) इति दीघनिकायवचनमपि व्याख्यातम् । यत्तु योगशतके → कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ला त्ति । ते चेव भावणाए नेया तच्छारसरिसत्ति ।। - (यो.श.८६) इति गदितम्, यच्च उपदेशरहस्येऽपि → मंडुक्कचुण्णकप्पो किरियाजणिओ वओ किलेसाणं । तद्दड्ढचुण्णकप्पो णाणकओ तं च आणाए ।। - (उप.रह.७) इति प्रतिपादितं, यच्चापि ज्ञानसारे → क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो ज्ञानसारकृतः पुनः ।। - (ज्ञा.उपसं.९) इत्युक्तं तत्तु 'विशिष्टविधि-निषेधौ विशेपणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायतो ज्ञाननयाभिप्रायेणोक्तमिति मन्तव्यम् । प्रकृते च सत्क्रियानयाभिप्रायेणोक्तमिति न कश्चिद्विरोधः । तदुक्तं उपदेशपदे → एत्तो च्चिय अवणीया किरियामेत्तेण जे किलेसाउ । मंडुक्कचुन्नकप्पा अन्नेहि वि वनिया नवरं ।। सम्मकिरियाए जे पुण ते अपुणभावजोगओ चेव । णेयग्गिदड्ढतच्चुन्नतुल्ल मो सुवयणणिओगा ।। 6 (उप.प.१९१,१९२) इति । अधिकं वक्ष्यते मुक्त्यद्वेषद्वात्रिंशिकायाम् (पृ.९८६) ।।१०/२६।। રાગાદિક્ષય દેડકાની રાખ જેવો છે. કારણ કે ત્યાર બાદ રાગાદિ ઉત્પન્ન થવાની યોગ્યતા ધરાવતા નથી. આમ કહેવાથી એવું ફલિત થાય છે કે વિશેષ પ્રકારના રાગાદિક્ષયને ઉત્પન્ન કરનારી એક વિશિષ્ટ શક્તિ ધર્મક્રિયામાં રહેલી છે તે જ ભાવવૃદ્ધિને અનુકૂળ છે. (૧૦/૨૬) વિશેષાર્થ :- દેડકાનો નાશ બે પ્રકારનો હોય. (૧) શસ્ત્ર દ્વારા દેડકાનું ચૂર્ણ કરવામાં આવે. (૨) દેડકાને સળગાવીને રાખ કરવામાં આવે. દેડકાના ચૂર્ણ ઉપર વરસાદ પડે તો ફરીથી ઢગલાબંધ १. हस्तादर्श '...शक्यभावात्' इति त्रुटितः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy