________________
७१६
तेन स एव योग इत्युक्तं भवति ।
तात्त्विकनिर्वाणाशयस्वरूपप्रकाशनम्
केवलज्ञानलाभान्यथानुपपत्तेः । एतेन
शरीरलेश्यासु हि अशुद्धास्वपि आत्मलेश्याः शुद्धा भवन्ति
← (उत्त.चू. अध्य.१२) इति उत्तराध्ययनचूर्णिवचनमपि व्याख्यातम् । भरतचक्रिणोऽपि कैवल्योपलब्धिः जम्बूद्वीपप्रज्ञप्तिसूत्रे तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेणं, पसत्थेहिं अज्झवसाणेहिं, लेसाहिं विसुज्झमाणीहिं विसुज्झमाणीहिं, ईहापोह -मग्गण - गवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाण- दंसणे समुप्पण्णे ← (जम्वू.प्र.७०) इत्थमाविष्कृता ।
मल्लीनाथस्वामिनोऽपि सर्वज्ञत्वसम्प्राप्तिः ज्ञाताधर्मकथाङ्गसूत्रे तए णं मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्ट्यंसि सुहासणवरगयस्स सुहेणं परिणामेणं, पसत्थेहिं अज्झवसाणेहिं, पसत्थाहिं लेसाहिं विमुज्झमाणीहिं तयावरणकम्मरयविकिरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते जाव केवलवरनाणदंसणे समुप्पन्ने ← (ज्ञाता.८/२२५) इत्येवं प्रघट्टकेन प्रकटीकृता । इत्थञ्च शुभपरिणाम-प्रशस्ताध्यवसाय-विशुध्यमानशुभलेश्यादिलक्षणस्य भावस्यैव मोक्षे मोक्षसामग्र्यां च प्रधानहेतुत्वमुपलभ्यते । न चैकेनैव शास्त्रसंवादेन प्रकृतार्थसिद्धौ कस्माद् नानाशास्त्रसंवादाः प्रतिपदमुपदर्श्यन्ते ? इति शङ्कनीयम्, स्थूणानिखननन्यायेन प्रकृतार्थदृढीकरणस्य तत्प्रयोजनत्वात् । इदञ्चाऽग्रेऽपि तत्र तत्र स्थले स्वयमवगन्तव्यम् ।
प्रकृतं प्रस्तूयते - अत्र च सामान्यतः परिणामगतं शुभत्वं प्रति वक्ष्यमाणस्य (पृ. ८७४) मुक्त्यद्वेषस्य, अध्यवसायगतप्राशस्त्योत्कर्षं प्रति मुक्तिरागस्य, शुक्लादिलेश्यागतवर्धमानशुद्धिप्रकर्षं प्रति चाध्यात्मशास्त्रादितात्पर्यपरिणमनोपहितमोक्षाशयपरिणतिविशेषस्य प्रयोजकत्वमुन्नीयते निर्वाणाशयतो धर्मः शास्त्रयोगादयं पुनः ← ( ब्र.सि. ३०८) इति ब्रह्मसिद्धान्तसमुच्चयवचनात् । तात्त्विकनिर्वाणाशये सति च न भोगतृष्णा-देहाध्यास-रसगारवादिविकल्पैः पराभवः, उच्चात्मदशाऽऽरोहणेन तल्लेश्योल्लङ्घनात् । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चय एव लक्षणं पुनरस्येदं न भवान्तर्गतैरयम् । विकल्पैर्वाध्यते रूढस्तल्लेश्यातिक्रमादिति ।। ← ( ब्र.सि. ३०३ ) इति नानायोगिभूमिकाव्यापियोगतारतम्यवेदिभिर्यथागममत्र विभावनीयमतिगम्भीरधिया ।
=
तेन
भावस्य मुख्यमोक्षकारणत्वेन स एव = शुभान्तःकरणपरिणाम-प्रशस्ताध्यवसायादिः एव योगः = योगपदप्रतिपाद्य इत्युक्तम् भवति एतावता प्रबन्धेन । एतेन मेरुस्स सरिसवस्स य, जत्तियमित्तं
तु अंतरं होइ । दव्वत्थय-भावत्थयाण, अंतरं तत्तियं नेयं ।। ← (सं.स. ३७, द.शु. ८१) इति सम्बोधसप्ततिकादर्शनशुद्धिप्रकरणवचनं निच्चुण्णो तंवोलो, पासेण विणा न होइ जह रंगो । तह दाण - सीलतव - भावणाओ अहलाओ सव्वा भावं विणा ।। ← ( भा. कु. २) इति च भावकुलकवचनमपि व्याख्यातम् ।
चरइ कोडिकोडीओ । जम्मंतराइ
तदुक्तं भावप्राभृते अपि भावरहितो ण सिज्झइ जइ वि तवं बहुओ लंवियहत्थो गलियवत्थो । । ( भा.प्रा.४ ) ← इति । प्रकृते
जह खलु मइलं वत्थं सुज्झइ
માટે ભાવ એ જ યોગ છે
Jain Education International
द्वात्रिंशिका - १०/२२
એવું અહીં કહેવાઈ ગયું.
For Private & Personal Use Only
www.jainelibrary.org