________________
७१२ • भावस्वरूपमीमांसा •
द्वात्रिंशिका-१०/२१ ___ अधिकं = अपरिणाम्यात्मपक्षे तदभिभव-तन्निवृत्त्याद्यनुपपत्तिलक्षणं उपरिष्टाद् = अग्रिमद्वात्रिंशिकायां भणिष्यते ।।२१।। निरुपाधिकपरमानन्दमार्गविविदिषानुविद्धः सम्भवति, किन्तु कथञ्चित्क्षीणपापस्यैव । ततश्चात्र चरमावर्तगतापुनर्बन्धकपक्षक-योगजिज्ञासाहेतुक-पुरुषाभिभवनिवर्तनसाध्यकानुमितिरभिप्रेता; न तु जिज्ञासाहेतुकाभिभवनिवृत्तिः कथयितुमभिप्रेता । ___इदमेवाभिप्रेत्य ग्रन्थकृता वैराग्यकल्पलतायां → जाते हि कर्मविवरे जिज्ञासुर्भवति जिनमते जन्तुः । मिथ्यात्वांशोन्मादैर्न तु भवति विशेषसंवित्तिः ।। -(वै.क.ल.२/५९) इत्युक्तम् । प्रकृत्यधिकारनिवृत्तिः स्वतन्त्रे कर्मविवरपदेन प्रतिपाद्यत इत्यवधेयम् । 'जिनमते = मोक्षमार्गे = तत्त्वमार्गे = योगमार्गे' शिष्टं स्पष्टम् ।
एतेन मिथ्यात्वदशायां चरमावर्तेऽपि नैव कश्चित् शुभो भावो भवितुमर्हति, तमः- प्रकाशयोरिव मिथ्यात्व-विमलभावयोर्विरोधादिति निरस्तम्, तथाविरोधाऽसिद्धेः । दृश्यते हि मन्दान्धकारे वेश्मनि दिवाऽस्पष्टमप्यभ्रान्तं रूपदर्शनम् । एवं मन्दमिथ्यात्वान्धकारे जीवे चरमावर्तकाले सम्भवति विमलभावसंवेदनम् । ततश्चाऽत्र तमःप्रकाशन्यायप्रवृत्तियुज्यत एव । अग्रेतनदशायाञ्च योगजिज्ञासा-प्रवृत्त्यादिना पुरुषाभिभवनिवृत्तिप्रसरो भवति ततश्च तत्प्रसरो भवतीति तयोर्ध्यान-समतावत् मिथःसहकारित्वमप्यवसेयम् । केवलं प्राथम्यदशायामधिकारनिवृत्त्यपराभिधानकर्मविवरमपेक्षते योगजिज्ञासेति ध्येयम् ।
इत्थमेव → जिज्ञासायामपि ह्यत्र कश्चित्सर्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ।। - (यो.बिं.१०३) इति योगबिन्दुवचनमुपपद्यते । एतेन → चित्तस्य बहिर्मुखतां परित्यज्य अन्तर्मुखतैव दुःसम्पादा । सा यदा स्यात्, तदानीमेव स्वरूपं द्रष्टुं सुशकं भवति 6 (ऋ.वे.१/ १६४/३७ सा.भा.) इति ऋग्वेदीयसायणभाष्यवचनमपि व्याख्यातम् । अत एवोक्तं भगवद्गीतायामपि → जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते 6. (भ.गी.६/४४) इति । तादृशजिज्ञासाऽपि महाप्रज्ञाकारणं सम्पद्यते ।
बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये क्षुद्रकर्मविभङ्गसूत्रे → एकच्चो इत्थी वा पुरिसो वा समणं वा ब्राह्मणं वा उपसङ्कमित्वा परिपुच्छिता होति- किं, भन्ते, कुसलं, किं अकुसलं, किं सावज्जं, किं अनवज्जं, किं सेवितब्बं, किं न सेवितब्बं, किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती ति ? सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महापो होति । महापञसंवत्तनिका एसा ( (म.नि.३/४/५/१९६, पृ.२५५) इति यथागममत्रानुयोज्यं स्व-परतन्त्रपरमार्थवेदिभिः । अग्रिमद्वात्रिंशिकायां = पातञ्जलयोगलक्षणद्वात्रिंशिकायाम् (पृ.७६२,७९२) ।।१०/२१।। પુરુષનો પ્રકૃતિ દ્વારા અભિભવ થવો તથા તેવા પ્રકૃતિઅધિકારની નિવૃત્તિ થવી વગેરે બાબતો અસંગત थ६ ४.'... त्या वधु विरात तो मानी पातयोग१९॥ त्रीसीम शे.(१०/२१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org